॥ ॐ श्री गणपतये नमः ॥

सर्गः ४१

In which Hanumān climbs the shrine, roars Rāma victory, kills a hundred guards with a pillar, and foretells Sugrīva hosts destroying Laṅkā

Hanumān resolves to smash surviving shrine hall — Hanumān climbs lofty shrine and roars Rāma victory — Shrine guards surround Hanumān with weapons — Hanumān uproots golden pillar and whirls it — Hanumān slays hundred guards like Indra slays demons — Hanumān warns Sugrīva hosts will destroy Laṅkā

ततः स किंकरान्हत्वा हनूमान्ध्यानमास्थितः। वनं भग्नं मया चैत्यप्रासादो न विनाशितः। तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्॥ १ इति संचिन्त्य हनुमान्मनसा दर्शयन्बलम्। चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्। आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः॥ २ संप्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम्। हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत्॥ ३ स भूत्वा तु महाकायो हनूमान्मारुतात्मजः। धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्॥ ४ तस्यास्फोटितशब्देन महता श्रोत्रघातिना। पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत्॥ ५ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ ६ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ ७ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥ ८ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ ९ एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुंगवः। ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम्॥ १० तेन शब्देन महता चैत्यपालाः शतं ययुः। गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान्। विसृजन्तो महाक्षया मारुतिं पर्यवारयन्॥ ११ आवर्त इव गङ्गायास्तोयस्य विपुलो महान्। परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः॥ १२ ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः॥ १३ प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्। उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः। ततस्तं भ्रामयामास शतधारं महाबलः॥ १४ स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्। अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्॥ १५ मादृशानां सहस्राणि विसृष्टानि महात्मनाम्। बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्॥ १६ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि। आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः॥ १७ नेयमस्ति पुरी लङ्का न यूयं न च रावणः। यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना॥ १८ इति श्रीरामायणे सुन्दरकाण्डे एकचत्वारिंशः सर्गः॥ ४१
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved