॥ ॐ श्री गणपतये नमः ॥

सर्गः ४५

In which prince Akṣa duels Hanumān with arrows, Hanumān admires yet resolves to kill, and whirls Akṣa to death

Rāvaṇa sends beloved prince Akṣa against Hanumān — Akṣa rides jeweled chariot to tōraṇa monkey — Akṣa pierces Hanumān head with three arrows — Akṣa showers arrows and Hanumān roars and grows — Hanumān admires Akṣa valor then resolves to kill — Hanumān smashes eight horses and chariot with palms — Hanumān seizes Akṣa by feet whirls and dashes him down — Gods marvel as Hanumān retakes tōraṇa

सेनापतीन्पञ्च स तु प्रमापिता न्हनूमता सानुचरान्सवाहनान्। समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षतम्॥ १ स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः॥ २ ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम्। रथां समास्थाय ययौ स वीर्यवा न्महाहरिं तं प्रति नैरृतर्षभः॥ ३ ततस्तपःसंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालशोभितम्। पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्॥ ४ सुरासुराधृष्यमसंगचारिणं रविप्रभं व्योमचरं समाहितम्। सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्॥ ५ विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्वसा। दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः॥ ६ स पूरयन्खं च महीं च साचलां तुरंगमतङ्गमहारथस्वनैः। बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कपिम्॥ ७ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये। अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा॥ ८ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः। विचारयन्खं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते॥ ९ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरः स्थितः संयति दुर्निवारणम्। समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः॥ १० ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम्। अवैक्षताक्षः समुदीर्णमानसः सबाणपाणिः प्रगृहीतकार्मुकः॥ ११ स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशु पराक्रमः कपिम्। तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः॥ १२ ररास भूमिर्न तताप भानुमा न्ववौ न वायुः प्रचचाल चाचलः। कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे॥ १३ ततः स वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान्। समाधिसंयोगविमोक्षतत्त्ववि च्छरानथ त्रीन्कपिमूर्ध्न्यपातयत्॥ १४ स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः। नवोदितादित्यनिभः शरांशुमा न्व्यराजतादित्य इवांशुमालिकः॥ १५ ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः॥ १६ स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंयुतः। कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा॥ १७ ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः। शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे॥ १८ ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसायकम्। कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः॥ १९ स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः॥ २० स तेन बाणैः प्रसभं निपातितै श्चकार नादं घननादनिःस्वनः। समुत्पपाताशु नभः स मारुति र्भुजोरुविक्षेपण घोरदर्शनः॥ २१ समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान्। रथी रथश्रेष्ठतमः किरञ्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः॥ २२ स ताञ्शरांस्तस्य विमोक्षयन्कपि श्चचार वीरः पथि वायुसेविते। शरान्तरे मारुतवद्विनिष्पत न्मनोजवः संयति चण्डविक्रमः॥ २३ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः॥ २४ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन्। महाभुजः कर्मविशेषतत्त्ववि द्विचिन्तयामास रणे पराक्रमम्॥ २५ अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते॥ २६ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः॥ २७ पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पये त्सुरासुराणामपि शीघ्रकारिणः॥ २८ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ २९ इति प्रवेगं तु परस्य तर्कय न्स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः॥ ३० स तस्य तानष्टहयान्महाजवा न्समाहितान्भारसहान्विवर्तने। जघान वीरः पथि वायुसेविते तलप्रहालैः पवनात्मजः कपिः॥ ३१ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। स भग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्॥ ३२ स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतत्। तपोऽभियोगादृषिरुग्रवीर्यवा न्विहाय देहं मरुतामिवालयम्॥ ३३ ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते। समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम्॥ ३४ स तं समाविध्य सहस्रशः कपि र्महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः॥ ३५ स भग्नबाहूरुकटीशिरो धरः क्षरन्नसृन्निर्मथितास्थिलोचनः। स भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः॥ ३६ महाकपिर्भूमितले निपीड्य तं। चकार रक्षोऽधिपतेर्महद्भयम्॥ ३७ महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः। सुरैश्च सेन्द्रैर्भृशजातविस्मयै र्हते कुमारे स कपिर्निरीक्षितः॥ ३८ निहत्य तं वज्रसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम्। तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये॥ ३९ इति श्रीरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः॥ ४५
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved