॥ ॐ श्री गणपतये नमः ॥

सर्गः ३९

In which Hanuman judges valor alone fits rakshasas, smashes the lovely grove, and takes the arch to force battle

Hanuman deems three means useless and valor alone fitting — Hanuman seeks battle test before reporting to master — Hanuman resolves to wreck garden and anger Ravana — Hanuman foresees great horse chariot elephant force and battle — Hanuman crushes trees tanks peaks and creeper halls — Hanuman takes shining gate arch eager for many foes

स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया। तस्माद्देशादपक्रम्य चिन्तयामास वानरः॥ १ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा। त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते॥ २ न साम रक्षःसु गुणाय कल्पते न दनमर्थोपचितेषु वर्तते। न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते॥ ३ न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते। हृतप्रवीरास्तु रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम्॥ ४ कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत्। पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति॥ ५ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने॥ ६ इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम्। परात्मसंमर्द विशेषतत्त्ववि त्ततः कृतं स्यान्मम भर्तृशासनम्॥ ७ कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। तथैव खल्वात्मबलं च सारव त्समानयेन्मां च रणे दशाननः॥ ८ इदमस्य नृशंसस्य नन्दनोपममुत्तमम्। वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्॥ ९ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः॥ १० ततो महत्साश्वमहारथद्विपं बलं समानेष्वपि राक्षसाधिपः। त्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति॥ ११ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसंगविक्रमः। निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्॥ १२ ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः। ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत्॥ १३ ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम्। मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्॥ १४ तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः। चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्॥ १५ लतागृहैश्चित्रगृहैश्च नाशितै र्महोरगैर्व्यालमृगैश्च निर्धुतैः। शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम्॥ १६ स तस्य कृत्वार्थपतेर्महाकपि र्महद्व्यलीकं मनसो महात्मनः। युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः॥ १७ इति श्रीरामायणे सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः॥ ३९
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved