॥ ॐ श्री गणपतये नमः ॥

सर्गः ३०

In which Sita mistakes Hanuman for a forbidden monkey dream, faints, reasons herself awake, and prays his tidings prove true.

Sita sees humble monkey in branches — Sita deems vision a dream — Sita faints lifeless then revives — Sita recalls monkeys forbidden in scripture — Sita reasons sleepless grief breeds visions — Sita prays forest dweller words prove true

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा। सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्॥ १ सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्। मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥ २ सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता। चिरेण संज्ञां प्रतिलभ्य चैव विचिन्तयामास विशालनेत्रा॥ ३ स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः॥ ४ स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन॥ ५ अहं हि तस्याद्य मनो भवेन संपीडिता तद्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि॥ ६ मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्॥ ७ नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा॥ ८ इति श्रीरामायणे सुन्दरकाण्डे त्रिंशत्तमः सर्गः॥ ३०
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved