॥ ॐ श्री गणपतये नमः ॥

सर्गः २९

In which Hanuman from the boughs tells of Dasaratha and Rama, exiled with wife and brother, robbed by Ravana, till Sita wonders.

Hanuman decides to speak sweetly — Hanuman praises Dasaratha Ikshvaku glory — Hanuman tells Rama exile with Sita Lakshmana — Hanuman tells Khara Dushana fall and Sita theft — Hanuman declares he found Sita — Sita sees Wind son like risen sun

एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह॥ १ राजा दशरथो नाम रथकुञ्जरवाजिनाम्। पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः। चक्रवर्तिकुले जातः पुरंदरसमो बले॥ २ अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः॥ ३ पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी॥ ४ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्॥ ५ रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥ ६ तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः। सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्॥ ७ तेन तत्र महारण्ये मृगयां परिधावता। जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ। ततस्त्वमर्षापहृता जानकी रावणेन तु॥ ८ यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम्। अश्रौषं राघवस्याहं सेयमासादिता मया॥ ९ विररामैवमुक्त्वासौ वाचं वानरपुंगवः। जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता॥ १० ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्। उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत॥ ११ सा तिर्यगूर्ध्वं च तथाप्यधस्ता न्निरीक्षमाणा तमचिन्त्य बुद्धिम्। ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्॥ १२ इति श्रीरामायणे सुन्दरकाण्डे एकोनत्रिंशत्तमः सर्गः॥ २९
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved