॥ ॐ श्री गणपतये नमः ॥

सर्गः २७

In which left eye, arm, and thigh throbbing and slipping garment cheer Sita till her face shines like the moon from eclipse.

Left eye throbs like lotus struck by fish — Left arm trembles long embraced by beloved — Left thigh throbs foretelling Rama near — Golden garment slips from shoulder — Seed revives as Sita revives — Face shines like moon freed from Rahu

तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम्। शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः॥ १ तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम्। प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्॥ २ भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्य कालागुरुचन्दनार्हः। अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु॥ ३ गजेन्द्रहस्तप्रतिमश्च पीन स्तयोर्द्वयोः संहतयोः सुजातः। प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे॥ ४ शुभं पुनर्हेमसमानवर्ण मीषद्रजोध्वस्तमिवामलाक्ष्याः। वासः स्थितायाः शिखराग्रदन्त्याः किंचित्परिस्रंसत चारुगात्र्याः॥ ५ एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधुसिद्धैः। वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष॥ ६ तस्याः पुनर्बिम्बफलोपमौष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म। वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः॥ ७ सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविबुद्धसत्त्वा। अशोभतार्या वदनेन शुक्ले शीतान्शुना रात्रिरिवोदितेन॥ ८ इति श्रीरामायणे सुन्दरकाण्डे सप्तविंशतितमः सर्गः॥ २७
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved