॥ ॐ श्री गणपतये नमः ॥

सर्गः ३३

In which Lakṣmaṇa confronts trembling Sugrīva among women, denounces false ingratitude to Rāma as unexpiable, and threatens the fate of Vālin.

Sugrīva sees irresistible angry Lakṣmaṇa and trembles — Sugrīva quits golden seat like Indra banner as women rise like stars — Sugrīva stands red-eyed folded like great wishing tree — Lakṣmaṇa rebukes moonlike Sugrīva with Rumā among women — Lakṣmaṇa praises grateful truthful king and brands false promiser cruelest — Lakṣmaṇa cites horse cow man lies and Brahmā verse denying ingrate expiation — Lakṣmaṇa calls Sugrīva ignoble liar ungrateful bids seek Sītā shunning pleasure-snake deceit — Lakṣmaṇa warns benefit-denier shall see Vālin slain by sharp arrows and bids shun Vālin path

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्। सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १ क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा। भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥ २ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्। महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥ ३ उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः। सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥ ४ संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः। बभूवावस्थितस्तत्र कल्पवृक्षो महानिव॥ ५ रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्। अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा॥ ६ सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः। कृतज्ञः सत्यवादी च राजा लोके महीयते॥ ७ यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्। मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः॥ ८ शतमश्वानृते हन्ति सहस्रं तु गवानृते। आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥ ९ पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः। कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥ १० गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः। दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम॥ ११ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ १२ अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर। पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥ १३ ननु नाम कृतार्थेन त्वया रामस्य वानर। सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता॥ १४ स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः। न त्वां रामो विजानीते सर्पं मण्डूकराविणम्॥ १५ महाभागेन रामेण पापः करुणवेदिना। हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना॥ १६ कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः। सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्॥ १७ न च संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ १८ न नूनमिक्ष्वाकुवरस्य कार्मुका च्च्युताञ्शरान्पश्यसि वज्रसंनिभान्। ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे॥ १९ इति श्रीरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः॥ ३३
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved