॥ ॐ श्री गणपतये नमः ॥

सर्गः ४३

In which Rāma drives deep through Kōsala, hears villagers curse lust-bound father, and shows rich Kōsala to Sītā

Rāma drives far through remaining night — Hears villagers curse lust-bound Daśaratha — Hears them brand cruel Kaikēyī breaker of bounds — Crosses Vēdaśruti toward Agastya quarter — Crosses cool cow-rich Gōmatī to sea — Crosses Syandikā humming with peacocks and swans — Shows Sītā Manu-given populous Kōsala realm — Longs to hunt again in Sarayū woods with parents

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्। जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्॥ १ तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा। उपास्य स शिवां संध्यां विषयान्तं व्यगाहत॥ २ ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च। पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः॥ ३ शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम्। राजानं धिग्दशरथं कामस्य वशमागतम्॥ ४ हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी। तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते॥ ५ या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्। वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम्॥ ६ एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्। शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः॥ ७ ततो वेदश्रुतिं नाम शिववारिवहां नदीम्। उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्॥ ८ गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्। गोमतीं गोयुतानूपामतरत्सागरंगमाम्॥ ९ गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः। मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्॥ १० स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा। स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्॥ ११ सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः। हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः॥ १२ कदाहं पुनरागम्य सरय्वाः पुष्पिते वने। मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः॥ १३ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने। रतिर्ह्येषातुला लोके राजर्षिगणसंमता॥ १४ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा। तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन्॥ १५ इति श्रीरामायणे अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः॥ ४३
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved