॥ ॐ श्री गणपतये नमः ॥

सर्गः ६१

In which sage Nishakara promises Sampati new wings, foretells Rama and Sita fate, and bids him guide the coming monkey searchers.

Sage Nishakara meditates and answers grieving Sampati — Promises Sampati new wings, eyes and strength — Foretells Rama exile with Lakshmana and Sita abduction by Ravana — Describes Sita refusing food and receiving Indra-given sustenance — Foretells Rama-bound offering and coming monkey messengers — Bids Sampati await time and inform searchers — Declares Sampati will serve gods and princes — Sage longs to see Rama and Lakshmana before casting off body

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम्। अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत्॥ १ पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः। चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते॥ २ पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम्। दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम॥ ३ राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः। तस्य पुत्रो महातेजा रामो नाम भविष्यति॥ ४ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति। तस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः॥ ५ नैरृतो रावणो नाम तस्या भार्यां हरिष्यति। राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः॥ ६ सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली। न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी॥ ७ परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः। यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्॥ ८ तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति। अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति॥ ९ यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः। देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति॥ १० एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवंगमाः। आख्येया राममहिषी त्वया तेभ्यो विहंगम॥ ११ सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि। देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे॥ १२ उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्। इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि॥ १३ त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः। ब्राह्मणानां सुराणां च मुनीनां वासवस्य च॥ १४ इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ। नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम्॥ १५ इति श्रीरामायणे किष्किन्धाकाण्डे एकषष्टितमः सर्गः॥ ६१
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved