॥ ॐ श्री गणपतये नमः ॥

सर्गः ६०

In which Sampāti tells Niśākara how he and Jaṭāyu raced the sun, how he shielded Jaṭāyu, and how burnt he fell death-longing on Vindhya.

Sampāti confesses daring sun-following to sage — Brothers vow before sages to chase sun to setting hill — Brothers see wheel-sized cities hear music and singing women — Brothers rise to sun path viewing earth stones threads — Brothers see Himālaya Vindhya Mēru like pond snakes — Brothers suffer sweat fear delusion and lose directions — Jaṭāyu plunges unasked and Sampāti shields him — Sampāti burns falling while Jaṭāyu escapes scorching — Sampāti falls wingless on Vindhya kinless longing death

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्। आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा॥ १ भगवन्व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः। परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्॥ २ अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ। आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम्॥ ३ कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्। रविः स्यादनुयातव्यो यावदस्तं महागिरिम्॥ ४ अथावां युगपत्प्राप्तावपश्याव महीतले। रथचक्रप्रमाणानि नगराणि पृथक्पृथक्॥ ५ क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव। गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः॥ ६ तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ। आवामालोकयावस्तद्वनं शाद्वलसंस्थितम्॥ ७ उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः। आपगाभिश्च संवीता सूत्रैरिव वसुंधरा॥ ८ हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः। भूतले संप्रकाशन्ते नागा इव जलाशये॥ ९ तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः। समाविशत मोहश्च मोहान्मूर्छा च दारुणा॥ १० न दिग्विज्ञायते याम्या नागेन्या न च वारुणी। युगान्ते नियतो लोको हतो दग्ध इवाग्निना॥ ११ यत्नेन महता भूयो रविः समवलोकितः। तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ॥ १२ जटायुर्मामनापृच्छ्य निपपात महीं ततः। तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्॥ १३ पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत। प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम्॥ १४ आशङ्के तं निपतितं जनस्थाने जटायुषम्। अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः॥ १५ राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च। सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गिरेः॥ १६ इति श्रीरामायणे किष्किन्धाकाण्डे षष्टितमः सर्गः॥ ६०
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved