॥ ॐ श्री गणपतये नमः ॥

सर्गः ३६

In which palace queens wail for exiled Rāma while fires die, planets menace, citizens despair, and bereft Ayōdhyā quakes

Palace queens cry where goes our refuge — Queens praise Rāma angerless consoler of all — Queens call king senseless for exiling Rāma — Fire rites cease and sun veils itself — Elephants cast food and cows withhold milk — Planets turn cruel and stars lose luster — Citizens abandon food play and joy — All Ayōdhyā thinks only of Rāma — Bereft Ayōdhyā quakes like Indra-less earth

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ। आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥ १ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः। यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति॥ २ न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति॥ ३ कौसल्यायां महातेजा यथा मातरि वर्तते। तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४ कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्। परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५ अहो निश्चेतनो राजा जीवलोकस्य संप्रियम्। धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति॥ ६ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७ स तमन्तःपुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः॥ ८ नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत। व्यसृजन्कवलान्नागा गावो वत्सान्न पाययन्॥ ९ त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि। दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ १० नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः। विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ ११ अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्। आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १२ बाष्पपर्याकुलमुखो राजमार्गगतो जनः। न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः॥ १३ न वाति पवनः शीतो न शशी सौम्यदर्शनः। न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १४ अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा। सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १५ ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः। शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा॥ १६ ततस्त्वयोध्या रहिता महात्मना पुरंदरेणेव मही सपर्वता। चचाल घोरं भयभारपीडिता सनागयोधाश्वगणा ननाद च॥ १७ इति श्रीरामायणे अयोध्याकाण्डे षट्त्रिंशः सर्गः॥ ३६
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved