॥ ॐ श्री गणपतये नमः ॥

सर्गः ३३

In which Rāma trades royal retinue for bark garments, dresses helpless Sītā himself, and commends grieving Kausalyā to Daśaratha

Rāma rejects retinue and asks bark garments — Rāma asks spade and basket for fourteen years — Kaikēyī herself brings bark clothes shamelessly — Rāma and Lakṣmaṇa don sage garments — Sītā trembles and cannot tie bark garment — Rāma ties bark over Sītā silk himself — Crowd cries shame on Daśaratha — Daśaratha protests Sītā wearing kuśa bark — Rāma commends grieving Kausalyā to father

महामात्रवचः श्रुत्वा रामो दशरथं तदा। अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १ त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः। किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २ यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः। रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते। सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४ खनित्रपिटके चोभे ममानयत गच्छतः। चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५ अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्। उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते। सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे। तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८ अथात्मपरिधानार्थं सीता कौशेयवासिनी। समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९ सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः। गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्। कथं नु चीरं बध्नन्ति मुनयो वनवासिनः॥ १० कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना। तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज॥ ११ तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः। चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १२ तस्यां चीरं वसानायां नाथवत्यामनाथवत्। प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति॥ १३ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्। कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ १४ ननु पर्याप्तमेतत्ते पापे रामविवासनम्। किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १५ एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्। अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १६ इयं धार्मिक कौसल्या मम माता यशस्विनी। वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते॥ १७ मया विहीनां वरद प्रपन्नां शोकसागरम्। अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि॥ १८ इमां महेन्द्रोपमजातगर्भिणीं तथा विधातुं जनमीं ममार्हसि। यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्॥ १९ इति श्रीरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः॥ ३३
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved