विभाजनं सम्पत्तेः
पुरा ‘ओटिमित्त’ नामके ग्रामे रामः नाम एकः कृषीवलः आसीत्। स्वीकृते प्रत्येकस्मिन् कार्ये सः समृद्धिमलभत उत्तमतया अजीवत् च। गच्छता कालेन सः निश्चितवान् यत् ‘अहं मम सम्पत्तिं मम चतुर्षु पुत्रेषु विभाजयामि’ इति।
वृद्धरामेण स्वपुत्राः आहूताः। सम्पत्तेः निर्वाहविषये ते किं चिन्तयन्ति इति सः ज्ञातुम् ऐच्छत्। “पुत्राः! नाहं जानामि कियत् कालं जीवेयम्। यावत् अहं जीवामि तावदेव मम सम्पत्तेः व्यवस्थां युष्मासु चतुर्षु कल्पयितुमिच्छामि। भविष्ये स्वस्य दायित्वविषये यूयं किं चिन्तयथ इति अहं ज्ञातुं शक्नोमि चेत् युष्मदिच्छया अहं सम्पत्तेः विभाजनं कर्तुं पारयामि। मम निधनानन्तरं तद्विषये भवत्सु विवादः न भवेत्” इति। “तात, अहं कृषिविषयकं
आनन्दितः रामः स्वपुत्रं गाढम् आलिङ्गितवान्। तेन स्वार्जितं सर्वं चतुर्षु पुत्रेषु समानतया वितीर्णम्। अग्रिमकालार्थं कनिष्ठपुत्रेण सह जीवितव्यम् इति च निश्चितम्।