॥ ॐ श्री गणपतये नमः ॥

विष्णुकथा — अहिंसाज्योतिः

कपिलवस्तुनगरतः सुदूरं गतः सिद्धार्थः स्वकीयम् उत्तरीयम्, आभरणानि खड्गं च निष्कास्य चेन्नस्य हस्ते यच्छन् उक्तवान् — “चेन्न! भवान् मम प्रणामान् पितरं निवेद-यतु। तम् एतदपि निवेदयतु यत् — “सिद्धार्थः विशाले विश्वे पदार्पणं कृतवान् अस्ति। सः समस्तप्राणिनां दुःखनिवारकः धर्मचक्रवर्ती भूत्वा कपिलवस्तुनगरं पुनरपि आगमिष्यति। सिद्धार्थ-नाम्नः सार्थकतासम्पादिकां सिद्धिं प्राप्तुं भवदीयः पुत्रः आशीर्वादं प्रार्थयते इति”।”

चेन्नः किमपि वक्तुम् असमर्थः। तस्य मुखे निरन्तरम् अश्रुधारा प्रवहति। एतत् दृष्ट्वा खेदम् अनुभवन् सिद्धार्थः उक्तवान् — “चेन्न! मातृप्रेमतः वञ्चितं मां भवान् बाल्यतः पोषितवान्। अङ्क उपवेश्य लालयन् मदीया इच्छाः सर्वाः पूरितवान्। माता इव वात्सल्यं प्रदर्शितवान्। मानवरूपेण जन्म प्राप्य व्यथाम् अनुभवन्तं मां मध्यरात्रे नगरात् बहिः सुदूरम् आनीतवान्। भवदीयम् उपकारम् अहं कथं वा विस्मरामि? दैवयोगात् यदि मया सिद्धिः प्राप्स्येत तर्हि तत्र भवतः सहयोगः सर्वप्रथमम् उल्लिख्यते। इदानीं गृहं गच्छतु भवान्” इति। चेन्नस्य स्कन्धम् आस्फालयन् सिद्धार्थः तं राजधानीं प्रतिप्रेषितवान्।

चेन्नः किञ्चित्कालं यावत्तत्रैव स्थितवान्। तस्य मनः दुःखपीडितम् आसीत्। यं राजकुमारं सः बाल्यादारभ्य ललितवान्, यस्य च बालचेष्टाः युवकव्यवहाराः च दृष्टाः, तादृशः राजकुमारः इदानीं सर्वं त्यक्त्वा गच्छन् अस्ति! किन्तु चेन्नः किं वा कर्तुं शक्नुयात्? किञ्चित्-कालं तत्र स्थित्वा अनन्तरं भारभूतानि पदानि स्थापयन् सः रथसमीपम् आगतवान्।

सिद्धार्थः स्वकीयं महाप्रस्थानम् आरब्धवान्। शुक्तारा उदिता। उषःकालः आसन्नः।

राजधानीम् आगतः चेन्नः सिद्धार्थस्य वार्तां शुद्धोदनाय निवेदितवान्। एतत् श्रुत्वा शुद्धोदनः मूर्च्छावस्थां गतवान्।

यशोधरा पुत्रं राहुलं वक्षसा आलिङ्ग्य — “पुत्र! भवान् अपि पितुः प्रस्थानं निरोद्धुं न शक्तः” इति वदन्ती रोदनं कृतवती। किञ्चित्कालानन्तरं कथञ्चित् दुःखं निगृह्य पतिदेवस्य मुखमण्डलं महापुरुषलक्षणाङ्कितं

स्मरन्ती उत्थितवर्ती। स्वपरिचर्यया श्वशुरस्य उपचारं कृतवती।

“महाराज! भवान् भवतः पुत्रं केवलं मानवं न चिन्तयतु। सः शाक्यवंशं पावयिष्यति। भवान् यथा कपिलवस्तुराज्यस्य हितं सदा चिन्तयति, तथैव भवतः पुत्रः विशालस्य प्रपञ्चस्य हितं चिन्तयति। जगतः उद्धारार्थं सः गौतमसिद्धार्थरूपेण भूलोकम् आगतवान्, राजधानीं त्यक्त्वा गतवान् च” इति।

यशोधरायाः वचनेन शुद्धोदनः सत्यं ज्ञातवान् इव। सः अश्रूणि मार्जयन् उत्थितवान्। तदा यशोधरा राहुलं श्वशुरहस्ते अर्पयन्ती उक्तवती — “एषः भवतः पुत्रस्य प्रतिरूपम्” इति।

शुद्धोदनः पौत्रम् उन्नयन् पुत्रं स्मृतवान्। प्रायः एतादृशम् एव अल्पवयस्कं पुत्रम् अनाथीकृत्य तदीया माता इहलोकव्यापारं समापितवती आसीत्।

यशोधरा मनसि सङ्कल्पं कृतवती — “राहुलः सम्यक् अनुशासनपूर्वकं पालनीयः। पितुः नाम सार्थकं यथा कुर्यात् तथा वर्धनीयः। एतत् मम कर्तव्यम्” इति।

समस्तजगतः उद्धारकं तत्त्वम् अन्विष्यन् सिद्धार्थः अनेकानि कष्टानि सहमानः बहुषु प्रदेशेषु अटितवान्। अस्मिन् मन्दर्भे एकदा बुभुक्षया पिपासया च मूर्च्छां गतवान्। तदा कश्चित् गोपालकः क्षीरदानपूर्वकं रक्षणं कृतवान्। एतेन प्रसङ्गेन सिद्धार्थः प्राणरक्षणं प्रथमकर्तव्यम् इति सत्यं ज्ञातवान्। समाजसेवा मम कर्तव्यम् इति निश्चितवान् च।

भिक्षुरूपेण देशाटनं कुर्वन् सिद्धार्थः अनेकान् साधुसन्न्यासिनः योगिनः अन्यान्य-मार्गानुयायिनः च दृष्टवान्। तद्द्वारा बहु ज्ञानम् अर्जितवान्। तेषां जनानां सम्पर्कतः सिद्धार्थस्य मनसि “तपोद्वारा सर्वं सिध्यति” इति भावना उत्पन्ना।

सिद्धार्थः कठोरतपसि मग्नः जातः। तस्मिन् सन्दर्भे सुजाता नाम गर्भवती तस्य समीपं गत्वा “पुत्रः उत्पन्नः चेत् एतस्य तपस्विनः पुनर्दर्शनं करिष्यामि” इति सङ्कल्पं कृतवती। तस्याः

अभिलाषः पूर्णः। अतः सुजाता शिशुम् उन्नीय क्षीरफलादीनि अपि स्वीकृत्य सिद्धार्थस्य समीपम् आगतवती।

सुजाता सिद्धार्थं प्रणम्य “भवतः अनुग्रहेण मया पुत्रः प्राप्तः” इति वदन्ती, सिद्धार्थेन निषिद्ध्यमाना अपि पुत्रेण तदीयपादस्पर्शं कारितवती।

तदा सिद्धार्थः उक्तवान् — “मातः! भवती यथा चिन्तयति तथा अहं न महिमान्वितः पुरुषः। येन केनापि भावेन प्रेरिता भवती क्षीरादिकं दत्तवती स्यात्। किन्तु अहं तु ‘भवती दयारूपिणी’ इति चिन्तयामि। भवत्याः आचरणेन अहं दयायाः महत्त्वं ज्ञातवान्। भवती यथा मदीयान् प्राणान् रक्षितवती तथैव प्रकृतिः कोमलकटाक्षैः सर्वान् पोषयति। भवती प्रकृतिः इव पूज्यतमा माता” इति।

“भगवन्! भवान् आत्मनः महत्त्वं प्रकटयितुम् अनिच्छन् एवं वदति। भवान् महिमान्वितः पुरुषः इति तु अहं स्पष्टं जानामि। उत्तमकुलोत्पन्नः भवान् गोपकुलीनायाः मम गृहम् आगच्छतु। सामान्यगृहिण्याः मम आतिथ्यं स्वीकरोतु। मदीयं पुत्रम् आशिषा अनुगृह्णातु” इति प्रार्थितवती सुजाता।

“अम्ब! अहं सत्यं वदामि — मम तपः अद्यापि न पूर्णम्। इदानीम् अपि अहं इतर इव कश्चित् सामान्यः। मानवेषु परस्परभेदः अनुचितः। उच्चनीचभावना कदापि न दर्शनीया। सर्वजीविषु यथा प्राणशक्तिः अभिन्ना तथा मानवता अपि अभिन्ना एव। यदा मम तपः सफलं भविष्यति, तदा अहम् अन्यान् आशिषा अनुग्रहीतुम् अर्हः भविष्यामि। तदा निश्चयेन भवत्याः अतिथिः भविष्यामि” इति सान्त्वनवचनानि उक्तवान् सिद्धार्थः।

“एतत् आश्वासनं कदापि न विस्मर्तव्यम्” इति पुनः पुनः वदन्ती सा सिद्धार्थं पुनः नमस्कृत्य, तदीयचरणयोः स्पर्शं पुत्रेण पुनः कारयित्वा ततः निर्गता।

क्रमशः तपःकर्मणि सिद्धार्थस्य विश्वासः न्यूनः जातः। तपसि लीनाः वहवः स्वार्थ-साधकाः आसन्। तेषु कोऽपि मानवहितं विश्वहितं वा न चिन्तयति। तपः नाम शरीरकष्टदायकम् आत्महत्यासदृशम् इति सः चिन्तितवान्। अतः तपः त्यक्तुं निश्चितवान्। एतत् ज्ञात्वा बहवः साधकाः उपहासं कृतवन्तः। “गौतमः भ्रष्टः जातः” इति प्रचारं कृतवन्तः।

बहवः साधकाः अद्भुतशक्तिं सम्प्राप्य, इन्द्रजालादिकं प्रदर्शयन्तः जनान् आकर्षन्तः आसन्। वस्तुतः एतैः मानवकल्याणार्थं किमपि साहाय्यं न आचरितम्। अज्ञाने अन्धविश्वासे च निमग्नानां जनानाम् उद्धारार्थं कोऽपि प्रयत्नः केनाऽपि न कृतः।

महागजान् प्रलोभनया वञ्चयन्तः एते यज्ञयागादीनां व्याजेन मांसाहारिणः सन्तः सज्जनान् अपि मार्गभ्रष्टान् कुर्वन्ति स्म।

एतत्सर्वं सगम्भीरं चिन्तयन् सिद्धार्थः स्वकर्तव्यं पुनः पुनः स्मरन् एकस्य विशालस्य अश्वत्थवृक्षस्य अधः उपविष्टः आसीत्। तथैव अन्तर्मुखे तस्मिन् ज्ञानोदयः अभवत्।

तद्दिनं वैशाखपूर्णिमा। सकलकलासहितः चन्द्रः आकाशे विराजते स्म। तदा एव गौतमेन बुद्धत्वम् प्राप्तम्। परिपूर्णबुद्धरूपेण सः मानसिकविकासं प्राप्तवान्।

सिद्धार्थः ज्ञानोदयेन अनिर्वचनीयम् अनुभवं प्राप्तवान्। एतां ध्यानावस्थाम् एव सः परमनिर्वाणम् चिन्तितवान्।

ततः आरभ्य वैशाखपूर्णिमा बुद्धपूर्णिमानाम्ना जनप्रिया जाता। अश्वत्थवृक्षः बोधिवृक्षरूपेण पूज्यः जातः। गौतमः बोधिसत्त्वनाम्ना विख्यातः।

जगति मानवः स्वबुद्धिमत्तया एव श्रेष्ठतां प्राप्तवान्। बुद्धिविकासकारणतः मानवः आत्मनः उद्धारं साधयन् परेषाम् उद्धारम् अपि कर्तुं शक्नोति। अहिंसया एव मानवः उत्तममानवः भूत्वा बुद्धत्वं प्राप्नोति। इन्द्रियनिग्रहपूर्वकं रागद्वेषादीन् दूरीकृत्य सुखदुःखादिभिः पृथग्भूय सः बुद्धत्वपदम् अधिरोहति। यथा एकः दीपः अन्यदीपं ज्वालयन् लोकं प्रकाशयति, तथैव एकः बुद्धत्वं प्राप्य जगतः अन्धकारं निवारयितुं शक्नोति। अतः सर्वैः कामनाः दूरीकरणीयाः। रागद्वेषादयः निग्रहणीयाः। सुखानि दुःखानि च समभावेन द्रष्टव्यानि।

जगतः उद्धारः नाम एतत् सामान्यं कार्यं न। एकेन द्वाभ्यां वा एतत् कार्यं कर्तुम् अपि न शक्यते। व्यापकतया एतत् कार्यं यथा प्रचलेत् तथा कोऽपि प्रयत्नः करणीयः। समग्रे समाजे परिवर्तनम् आनेतव्यम्।

गौतमबुद्धः यत् ज्ञानं प्राप्तवान् तस्य प्रसारं कर्तुम् आरब्धवान्। पूर्वं यैः तस्य उपहासः कृतः आसीत् ते अपि तस्य अनुयायिनः सञ्जाताः। तस्य अनुयायिनां सङ्ख्या दिने दिने अवर्धत।

बुद्धः जगति धर्मजागरणं कृतवान्। सामान्याः जनाः अपि तत्त्वं यथा जानीयुः तथा जीवनसूत्राणा प्रचारं कृतवान्।

बुद्धस्य तत्त्वस्य सारं ज्ञात्वा सहस्रशः जनाः तदीयशिष्यत्वम् अङ्गीकृतवन्तः। सर्वप्राधान्येन अहिंसातत्त्वं बोधयन् बुद्धः समग्रे देशे सञ्चारं कृतवान्। तस्मिन् सन्दर्भे मगधचक्रवर्ती बिम्बसारः बुद्धोपदेशेन प्रेरितः प्राणिबलिपूर्वकं क्रियमाणं यज्ञं स्थगितवान्। स्वकीयं मुकुटं बुद्धस्य चरणतले समर्प्य प्रजाहितार्थं बौद्धमतम् आश्रितवान्। स्वदेशे अपि बौद्धमतस्य अहिंसातत्त्वस्य च प्रसारं कृतवान्।

बुद्धस्य उपदेशाः सिद्धान्ताः सूत्राणि च बौद्धमतस्य सारभूतानि जातानि। बुद्धानुयायिनः बौद्धाः इति विख्याताः। तैले पतितः जलबिन्दुः इव बौद्धमतं समग्रे जगति प्रसृतम् अभवत्।

भारतात् निर्गताः बौद्धमतप्रचारकाः विदेशेषु गत्वा बौद्धमतस्य प्रतिपादनं प्रसारं च कृतवन्तः।

एतेन विदेशेषु अपि असङ्ख्याः जनाः बौद्धमतम् अवलम्बितवन्तः।

बुद्धः अज्ञानान्धकारे निमग्नस्य जगतः मार्गदर्शकज्योतिः अभवत्। अहिंसायाः प्रतीकं धर्मचक्रं सञ्चाल्यन् शान्तिं सर्वत्र प्रसारयन् एषः धर्मचक्रवर्ती सञ्जातः।

बुद्धः स्वजीवितकाले अन्यान्यदेशेषु बौद्धसङ्घानां स्थापनं कृतवान्। सेवाधर्मस्य प्रचारं कृतवान्। सर्वे बौद्धसन्न्यासिनः समाजसेवकाः सन्तः सामान्यजनानां जीवनेषु परिवर्तनम् आनीतवन्तः। सामान्यान् अपि स्नेहेन पश्यन्तः एते संस्कारप्रधानस्य शिक्षणस्य प्रसारं कृतवन्तः।

बुद्धस्य देशाटनसन्दर्भे अनेके महाराजाः तस्य धार्मिकम् आधिपत्यम् अङ्गीकृतवन्तः। चक्रवर्तिनः स्वीयानि मुकुटानि बुद्धस्य पादतले समर्पितवन्तः। बुद्धं चक्रवर्तिनां चक्रवर्तिनं मानयन्तः तस्य आदेशानुसारं शासनं कृतवन्तः। सर्वे राज्यपालने अहिंसां दयां च अवलम्बितवन्तः। जातिभेदम् अपरिगणयन्तः बौद्धधर्मं सर्वराज्येषु जनाः अङ्गीकृतवन्तः।

तदीयजीवितकाले एव पण्डिताः, सामान्याः, ज्ञानिनः, राजानः, चक्रवर्तिनः च तं बुद्धं भगवतः अवतारभूतं मन्यन्ते स्म। किन्तु बुद्धः जनानाम् आराधनं न इच्छति स्म। सः सर्वदा प्रतिपादयति स्म यत्भक्तेः आराधनायाः च अपेक्षया श्रेष्ठेन सत्कर्मणा एव मानवः निर्वाणं प्राप्तुं शक्तः भविष्यति इति।

षड्वर्षाणाम् अनन्तरं बुद्धः कपिलवस्तुनगरं प्रति प्रस्थितः।

बुद्धस्य आगमनवार्ता समग्रे नगरे व्याप्ता। एतेन जनाः नवोत्साहम् असीमम् आनन्दं च प्राप्तवन्तः। बुद्धस्य स्वागतार्थं सिद्धता विशेषेण आरब्धा। बुद्धस्य दर्शनं प्राप्तुं जनाः कुतूहलिनः आसन्।

नगरे सर्वत्र तोरणानि निर्मितानि। समग्रे नगरे नवोत्साहः उत्पन्नः। जनाः अहोरात्रं कार्यं कुर्वन्तः नगरम् अलङ्कृतवन्तः। स्त्रियः अपि श्रमम् अविगणयन्त्यः स्वगृहस्य पुरतः रङ्गवल्लीं लिखन्त्यः नीराजनार्थं सिद्धतां कुर्वत्यः आसन्।

बुद्धनाम्ना ख्यातः मदीयः पुत्रः प्रत्यागमिष्यति इति चिन्तयन् शुद्धोदनः अपि सन्तुष्टः। सः अवर्णनीये महानन्दसागरे निमग्नः।

“अम्ब! श्रुता वा वार्ता? पिता आगमिष्यति। मदीयः पिता आगमिष्यति” इति राहुलः उत्साहेन मातरं निवेदितवान्। एषः राहुलः इदानीं षड्वर्षीयः बालकः।

“आम् पुत्र! भवदीयः पिता भिक्षुः भूत्वा अत्र आगमिष्यति। चक्रवर्तिने तस्मै अस्माभिः भिक्षा दातव्या” इति उक्तवती यशोधरा।

“किम्? मम पिता चक्रवर्ती वा? अहं चक्रवर्तिनः पुत्रः वा?” कुतूहलेन पृष्टवान् राहुलः।

यशोधरा उक्तवती — “आम्। सः समस्तस्य जगतः चक्रवर्ती।”

“तर्हि एतत् भवनं, नगरं इत्यादिकं सर्वस्वम् अपि तदीयम् एव?”

“सत्यम्। किन्तु भवदीयः पिता एतत् सर्वं न इच्छति। वैभवेन सः तृप्तिं न प्राप्तवान्। अतः सर्वं परित्यज्य सः गतवान्। तस्य आदेशानुसारम् आचरणम् एव इदानीम् अस्माभिः दातव्या भिक्षा। एतत् एव इदानीम् उचितम्।”

“अम्ब! तथैव कुर्मः वयम्। अहं पितुः आदेशं परिपालयामि। तम् अनुसरामि च। पिता येन मार्गेण गतः तम् एव मार्गम् अहम् अपि निश्चयेन अनुसरामि” इति उक्तवान् राहुलः।

एतत् श्रुत्वा आनन्दाश्रूणि विमुञ्चन्ती यशोधरा पुत्रं प्रीत्या आलिङ्गितवती। “पुत्रः पितुः मार्गम् अनुसरति” इत्येतां वार्तां अतिरिच्य तस्याः सन्तोषजनकं किम् अन्यत् स्यात्?

समाप्तम्

संस्कृत चन्दमामा · जनवरी १९८५ · पृ० ५१ Chandamama India Limited