॥ ॐ श्री गणपतये नमः ॥

वरदक्षिणा-पिशाचः

माणवकः

सीतापुरग्रामे गोविन्दः एकः सामान्यः गृहस्थः। तस्य एकमात्रं पुत्री सुभाषिणी। सा सुशीला सुन्दरी च।

यदा सुभाषिणी प्राप्तवयस्का जाता तदा गोविन्दः तस्याः विवाहार्थं प्रयत्नम् आरब्धवान्। किन्तु सर्वे वरपक्षीयाः सहस्रशः रूप्यकाणि वरदक्षिणारूपेण पृच्छन्ति स्म। एतेन गोविन्दः चिन्ताक्रान्तः। सहस्रशः रूप्यकाणि दत्त्वा पुत्र्याः विवाहं कर्तुं सः न समर्थः।

तेषु एव दिनेषु गोविन्दस्य बाल्यस्नेहितः सुदर्शनः तदीयम् गृहम् आगतवान्। सुदर्शनः नगरे वणिक् आसीत्। वार्तालापं कुर्वन् गोविन्दः स्वपुत्र्याः विवाहसन्बान्घिनीं समस्याम् अपि निवेदितवान्।

तदा सुदर्शनः उक्तवान् — “मित्र! ‘वरदक्षिणा दातुं न शक्यते’ इति चिन्तयन् भवान् कियन्तं कालं यापयितुं शक्नोति? सुभाषिणी इदानीं विंशतिवर्षीया किल? कश्चित् उत्तमं सम्बन्धयोग्यं वरम् अन्विष्यतु। अहं पञ्चसहस्ररूप्यकाणि दातुं शक्नोमि। प्रत्यर्पणविषये अनन्तरं चिन्तयामः” इति।

मित्रस्य आश्वासनेन प्रेरितः गोविन्दः विशेषोत्साहेन उत्तमं युवकं अन्वेष्टुं प्रवृत्तः।

अन्ते दूरग्रामस्थम् एकं युवकं सम्बन्धयोग्यत्वेन निश्चितवान्। वरस्य मातापितरौ वरदक्षिणारूपेण त्रिसहस्ररूप्यकाणि इष्टवन्तौ।

विवाहसिद्धतायां व्यग्रः गोविन्दः विवाहतः पञ्चदशदिनेभ्यः पूर्वं नगरं गत्वा मित्रं सुदर्शनं दृष्टवान्। पुत्र्याः विवाहविषयम् उक्त्वा तदीयम् आश्वासनं स्मारितवान्।

तदा आश्चर्यं प्रकटयन् सुदर्शनः उक्तवान् — “पञ्चसहस्ररूप्यकाणि दीयन्ते इति मया उक्तम् आसीत् वा? तदहं सम्यक् न स्मरामि किल? तत् यत् किमपि अस्तु, इदानीं वस्तुस्थितिः तु एवम् — इदानीं वाणिज्यं सम्यक् न प्रचलति। महतीं हानिम् अनुभवन् अस्मि अहम्” इति।

एतत् श्रुत्वा गोविन्दः स्तम्भीभूतः। सुदर्शनस्य वचने विश्वास्य एव वरः निश्चितः। इदानीं सुदर्शनः एव स्वकीयम् आश्वासनं विस्मृतवान् अस्ति। उद्भवन्तं कोपं कथञ्चित् निगृह्य गोविन्दः मौनं ततः निर्गतः।

इदानीं गोविन्दस्य पुरतः एकः एव मार्गः स्फुरति “वस्तुस्थितिं निवेद्य निश्चितः विवाहमुहूर्तः व्याक्षेप्तव्यः। एतन्मध्ये कथञ्चित् धनराशिं सङ्गृह्य पुनः विवाहदिनं निश्चेतव्यम्” इति।

एवं निश्चय सः एकस्मिन् दिने सायङ्काले भाविनः वरस्य गृहं प्रस्थितवान्।

सन्ध्यासमये गोविन्दः एकस्य अरण्यस्य समीपं गतवान्। त्वरया गन्तुं प्रवृत्तः च। अरण्यमार्गे जनानां शकटानां च सञ्चारः आसीत्। अतः सः अन्धकारतः न भीतः। अरण्यमध्ये कस्यचित् वृक्षस्य शाखातः कश्चन शब्दः श्रुतः। गोविन्दः शिरः उन्नीय उपरि दृष्टवान्। तदा काचित् कृष्णवर्णीया आकृतिः शाखातः अवतीर्य तस्य पुरतः स्थिता। तया गोविन्दः पृष्टः च — “अस्मिन् अन्धकारे भवान् एकाकी गच्छन् अस्ति किल? भवतः भीतिः नास्ति वा?” इति।

गोविन्दः जन्मतः धैर्यवान्। अतः सः न भीतः। ‘पुरतः आगत्य स्थितः एषः कश्चन पिशाचः एव’ इति सः ज्ञातवान्। ‘पिशाचाः भीरून् एव पीडयन्ति न तु अन्यान्’ इति चिन्तयन् गोविन्दः पिशाचं तीक्ष्णदृष्ट्या पश्यन् उक्तवान् — “भीतिः किमर्थम्? समीपग्रामे किञ्चित् कार्यम् अस्ति। अतः गच्छन् अस्मि” इति।

“किं कार्यम् इति वदतु। अन्यथा भवन्तं न त्यजामि” इति उक्तं पिशाचेन।

“सर्वान् अपि कथां श्रावयन् अहं श्रान्तः। भवन्तम् अपि श्रावयामि तावत्” इति वदन् गोविन्दः सर्वं वृत्तान्तं निवेदितवान्। अन्ते दीर्घं निश्वसन् उक्तवान् — “मम पुत्र्याः विवाहभाग्यम् अस्ति वा न वा इति भगवान् एव जानाति” इति।

“किमर्थं चिन्ता? पूर्वनिश्चिते मुहूर्ते एव भवतः पुत्र्याः विवाहः भविष्यति। त्रिसहस्ररूप्यकाणि अहं दद्मि” इति उक्तं पिशाचेन।

गोविन्दः आश्चर्यचकितः सन् पश्यन् आसीत्। अनुक्षणम् एव गत्वा पिशाचः वृक्षकोटरतः धनम् आनीय प्रत्यागत्य अवदत् — “एतस्य स्यूतस्य अन्तः त्रिसहस्रं रूप्यकाणि सन्ति। एतत् स्वीकृत्य भवतः पुत्र्याः विवाहं कारयतु” इति।

गोविन्दस्य इदानीम् अतीवः आनन्दः। “एवं सुलभतया समस्या परिहृता भवेत्” इति गोविन्दः कदापि न चिन्तितवान्। भगवन्तं कृतज्ञतापूर्वकं स्मरन् सः गृहं प्रत्यागतवान्। निश्चिते मुहूर्ते तस्य पुत्र्याः सुभाषिण्याः विवाहः सम्पन्नः। वरदक्षिणारूपेण प्राप्तं धनं वरपक्षीयाः सुरक्षितं स्थापितवन्तः।

दिनत्रयानन्तरं वरस्य पिता स्नुषया सह भाकटशकटम् आरुह्य स्वगृहं प्रस्थितः। यदा ते अरण्ये पिशाचवृक्षसमीपम् आगतवन्तः तदा पिशाचः वृक्षात् अवतीर्य अवदत् — “अरे पिशाच! भवन्तम् इदानीम् अहं मारयामि” इति।

पिशाचं दृष्ट्वा शकटे उपविष्टानां सर्वेषां शरीरेषु कम्पः उत्पन्नः। तेषु अन्यतमः किञ्चिदिव धैर्येण उक्तवान् — “वयं तु मनुष्याः, न तु पिशाचाः। पुत्रस्य विवाहं समाप्य वयम् आगच्छन्तः स्मः।”

वरस्य माता पृष्टवती — “किं, मिष्टान्नम् इच्छति? अत्र बहूनि मिष्टभक्ष्याणि सन्ति। यत् इच्छति तत् स्वीकरोतु” इति।

“शकटस्य अन्तः विद्यमानः पिशाचः सम्यक् दृश्यते। अहं तं मारयामि” इति वदन् पिशाचः समीपम् आगतः।

वरस्य माता भीत्या उक्तवती — “एषा पिशाची न। अपि तु अस्मदीया स्नुषा। सुभाषिणि! भवत्याः मुखं सम्यक् प्रदर्शयतु तावत्” इति।

एतत् श्रुत्वा अट्टहासं कुर्वन् पिशाचः अवदत् — “भवत्याः पत्युः वस्त्रेषु सुरक्षितः वरदक्षिणापिशाचः मया स्पष्टं दृष्टः। तम् अहं मारयामि” इति।

वरस्य पिता त्वरया धनस्य स्यूतं प्रदर्शयन् उक्तवान् — “एषः वरदक्षिणारूपेण प्राप्तः धनस्यूतः। अत्र त्रिसहस्ररूप्यकाणि सन्ति, स्वीकरोतु” इति।

पिशाचः धनस्यूतम् एकवारं संस्पृश्य घृणां प्रदर्शयन् अवदत्! “भवन्तः विवाहादिपवित्रकार्येषु किमर्थं एतस्य पिशाचस्य स्मरणं कुर्वन्ति? एतस्य पिशाचस्य कारणेन अनेके मानवाः पिशाचानाम् अपेक्षया अधिकं दुष्टतापूर्णं व्यवहारं कुर्वन्ति।” एवं वदन् पिशाचः धनस्यूतं स्वीकृत्य वृक्षम् आरूढवान्।

तदा सुभाषिणी दैन्यं प्रकटयन्ती स्वश्वश्रूम् उक्तवती — “वरदक्षिणाप्राप्तिं विना विवाहः न प्रचलिष्यति इति भवन्तः उक्तवन्तः आसन्। इदानीं वरदक्षिणाधनं पिशाचेन नीतम्। इतःपरं मम का गतिः?”

तदा सुभाषिण्याः श्वश्रूः सुभाषिण्याः हस्तद्वयं स्वहस्तेन गृह्णन्ती उक्तवती — “पिशाचस्य व्यवहारेण अस्माकम् अज्ञानं दूरंगतम्। भवती वरदक्षिणाविषयं विस्मरतु” इति।

सुभाषिण्याः श्वशुरः उक्तवान् — “सुभाषिणि! एषः पिशाचः वरदक्षिणापिशाचं नीतवान्। भवती दुःखिता न भवतु। भवत्याः कृते त्रिसहस्ररूप्यकात्मकानि आभरणानि कारयामि। भवत्याः पितरं क्षमां प्रार्थयामि” इति।

एतेन वचनेन सुभाषिणी बहु सन्तुष्टा। वरदक्षिणाधनं पिशाचेन नीतम् इति कृत्वा श्वश्रूश्वशुरौ पतिः च मां बहुपीडयेयुः, मां मातृगृहं प्रेषयेयुः इति सा चिन्तितवती आसीत्। इदानीं श्वशुरवचनेन सा चिन्ता परिहृता।

एतत् सम्भाषणं श्रुत्वा वृक्षस्य उपरि स्थितः पिशाचः हस्ततालपूर्वकं स्वकीयं सन्तोषं प्रकटीकृतवान्।

अनन्तरं सुभाषिण्याः श्वशुरः मनसि एवं चिन्तितवान् — ‘अहो! मानवानाम् अपेक्षया अपि पिशाचाः एव वरम्।’

समाप्तम्

संस्कृत चन्दमामा · जनवरी १९८५ · पृ० ३९ Chandamama India Limited