॥ ॐ श्री गणपतये नमः ॥

त्रयः मान्त्रिकाः

अवन्तीनगरं प्राप्तः पिङ्गलः दीनावस्थायां स्थितां स्वमातरं दृष्टवान्। मल्लूककेतुद्वारा कारागारे स्थितौ भ्रातरौ बन्धमुक्तौ कृतवान्। महाराजस्य कोषागारे स्थितं ऐश्वर्यं मन्त्रस्यूतं च आनायितवान्। पिङ्गलस्य आदेशानुसारं मल्लूककेतुः सहचराणां साहाय्येन अपूर्वम् एकं भवनं निर्मातुं निश्चितवान्। अनुचरान् आनेतुं भल्लूकपर्वतं गतवान् च।

भल्लूककेतुः स्वकीयैः सहचरैः सह इच्छन्तः नदीतीरम् आगतवन्तः। एवं कुतूहलेन आगतान् बहून् जनान्, भल्लूकेतोः अनुचराः भवननिर्माणकार्ये नियोजितवन्तः। सूर्यास्तसमये अवन्तीनगरं प्राप्तवान्। मल्लूकेतोः मार्गदर्शने भवननिर्माणकार्यम् आरब्धम्। आगतेषु पिशाचेषु केचन आधारभूमिं निर्मितवन्तः। अन्ये केचन स्तम्भान् सज्जीकृतवन्तः। अपरे केचन शिल्पादिकार्येषु निमग्नाः। इतरे भित्तिनिर्माणकार्यम् आरब्धवन्तः।

नदीतटे अकस्मात् उत्पन्नं कोलाहलं श्रुत्वा अवन्तीनगरस्य रक्षकभटाः, वस्तुस्थितिं ज्ञातुम् ये भटाः खड्गादिशस्त्रसहिताः आगतवन्तः तादृशान् मुष्टिप्रहारादिना पीडयित्वा प्रेषितवन्तः।

सूर्योदयतः पूर्वं नवीनं भवनं सिद्धम्। पिङ्गलः मात्रा सहोदराभ्यां च सह तत् भवनं प्रविष्टवान्। सूर्यस्य बालकिरणैः आप्लुतं तत् भवनं सुवर्णजलेष्वभिषिक्तम् इव दृश्यते स्म।

पिङ्गलः भल्लूककेतोः अनुचरेषु पञ्चाशत् जनान् स्वसमीपे स्थातुम् उक्त्वा अन्यान् सर्वान् भल्लूकपर्वताय प्रेषितवान्। भल्लूकेतुः अयःशलाकाभिः निर्मितस्य द्वारस्य पृष्ठभागे एकस्मिन् शिलासने उपविश्य द्वाररक्षणकार्यम् आरब्धवान्।

अवन्तीनगरस्य राजभवने इदानीं महान् कोलाहलः। नगररक्षकदलस्य नायकः भल्लूकेतोः अनुचरैः निर्मीयमाणं भवनं द्रष्टुं गतः, प्रहारम् अनुभूय प्रत्यागतवान् आसीत्। सः धावन् मन्त्रिसमीपं गत्वा सर्वं वृत्तान्तं निवेदितवान्। राक्षसशिल्पिनः एकस्य अभूतपूर्वस्य भवनस्य निर्माणं कुर्वन्तः सन्ति इत्येतां वार्तां मन्त्री न विश्वसितवान् एव।

“अये! भवतः वचनं सर्वथा विश्वासयोग्यं न। सुरापानेन मत्तः भवान् किमपि स्वप्नं दृष्टवान् स्यात्। प्रथमं गृहं गत्वा सम्यक् शयनं करोतु। असम्बद्धं प्रलपन् अस्मान् न पीडयतु। यदि महाराजः एतां वार्तां जानाति तर्हि, सः भवन्तं कारागारे स्थापयिष्यति। जानाति किल एतत्?” इति उक्तवान् मन्त्री।

“मन्त्रिवर्य! मम बुद्धिः अविकला अस्ति। अस्माकं बहवः भटाः इदानीम् अपि तेषां बन्धने सन्ति। राक्षसैः ताडितः अहं कथञ्चित् पलाय्य आगतवान्। अन्ये अपि केचन आगताः सन्ति। यदि मम वचनेषु भवतः विश्वासः नास्ति तर्हि तान् भटान् पृच्छतु। अथवा स्वयम् एव भवनस्य शिखरम् आरुह्य पश्यतु। नदीतीरे निर्मीयमाणं विशालं भवनं दृश्यते” इति उक्तवान् रक्षकदलस्य नायकः।

मन्त्री भवनस्य शिखरम् आरूढवान्। नद्याः तीरे अपूर्वकान्त्या शोभायमानम् एकम् अद्भुतं भवनं तेन दृष्टम्। एतत् दृष्ट्वा मन्त्री स्वकीयनेत्रयोः एव न विश्वसिति। “अहो! अद्भुतं दृश्यम् एतत्” इति उद्गारं प्रकटयन् सः अधः आगतवान्। तावति काले कोषाधिपतिः आक्रोशनं कुर्वन् आगत्य उक्तवान् — “महामन्त्रिन्! वयं वञ्चिताः। कोषागारे स्थिता समग्रा सम्पत्तिः लुण्ठिता। कोषागारम् इदानीं रिक्तम्। एकः दीनारः अपि तत्र न अवशिष्टः” इति।

कोपेन ज्वलन् उक्तवान् मन्त्री — “किम्? कोषागारम् लुण्ठितम्? तर्हि वराकाः रक्षकाः किं कुर्वन्तः आसन्? इदानीं एव तान् अत्र आनयतु” इति।

“मन्त्रिवर्य! अत्र रक्षकाणां कोऽपि दोषः नास्ति। कोषागारस्य द्वारं यथापूर्वं पिहितम् अस्ति। तालेन कीलितम् अपि तथैव अस्ति। अतः मायया एव एतत् प्रवृत्तम् इति अहं मन्ये” इति आकाशं पश्यन् उक्तवान् कोषाधिपतिः।

“हुँ, एतत् सर्वं मायया सञ्जातम्” इति वदन् मन्त्री क्रोधभरितया दृष्ट्या कोषाधिपतिं पश्यन् गर्जितवान् — “मायायाः फलरूपेण भवता मरणदण्डनशिक्षा अनुभोक्तव्या। आगच्छतु इदानीं महाराजस्य समीपम्” इति।

मन्त्री कोषाधिपतिः च यावत् महाराजसमीपम् आगतवन्तौ, तदा कारागृहस्य रक्षणप्रमुखः धावन् आगत्य कम्पमानेन स्वरेण उक्तवान् — “मन्त्रिवर्य! अनिष्टं संवृत्तम्। जीवदत्तः लक्षदत्तः च अदृश्यतां गतौ” इति।

एतां वार्तां श्रुत्वा मन्त्री एकक्षणं स्तब्धः। अनन्तरं तीक्ष्णदृष्ट्या पश्यन् आक्रोशनं कृतवान् — “किं, जीवदत्तः लक्षदत्तः च अदृश्यतां गतौ? कथम् एतत् सम्भवति? किं तौ मायाविनौ? उत देवतास्वरूपिणौ? किं प्रलपति भवान्?” इति।

“तयोः प्रकोष्ठे भूमिखननेन निर्मितः एकः गुप्तमार्गः दृश्यते। स च बहु विशालः। मानवमात्रेण सः निर्मातुं न शक्यः। अतः एतत् कार्यं कस्याश्चित् देवतायाः, अथवा कस्यचित् राक्षसस्य स्यात्” इति उक्तवान् कारागृहस्य रक्षणाधिपतिः।

इदानीं मन्त्री चिन्तायां मग्नः। “नद्याः तीरे एकस्याम् एव रात्रौ भवननिर्माणम्! रक्षणदलस्य पराजयः! राजभवने विचित्राः घटनाः! एतत्सर्वं मानवमात्रेण न कृतम् एव।” इति सः चिन्तितवान्। जीवदत्तलक्षदत्तयोः सहोदरः पिङ्गलनामा कश्चित् मान्त्रिकः अस्ति इति मन्त्री स्मृतवान्। “महाराजाय सर्वेषां वृत्तान्तानां निवेदनम् एव वरम्” इति मन्त्री चिन्तितवान्।

यदा महाराजस्य प्रकोष्ठं तेन गतं तदा तत्र अपि कञ्चन कोलाहलं प्रचरन्तं प्रत्यक्षीकृतवान्। राजा वदन् आसीत् “सत्यं वदन्तु। मम समीपे विद्यमानं मन्त्रस्यूतं कः चोरितवान्? यदि केन अपि न अङ्गीक्रियते तर्हि अहं सर्वान् शूलम् आरोपयामि” इति।

महाराजस्य पुरतः सर्वे पाचकाः हस्तौ बद्ध्वा स्थिताः आसन्।

मन्त्रिणं दृष्ट्वा राजा आदिष्टवान् — “मन्त्रिबर्य! एतान् सर्वान् हस्तपादौ बद्ध्वा कारागारे स्थापयतु। एतैः मदीयः स्यूतः चोरितः अस्ति” इति।

“महाराज! स्यूतस्य चौर्यं किं, राजभवने अद्य बह्व्यः घटनाः घटिताः सन्ति”

इति वदन् मन्त्री सर्वाः घटनाः श्रावितवान्। सर्वं श्रुत्वा क्रोधतप्तः राजा रक्षकप्रमुखम् आदिष्टवान् — “भवान् पञ्चाशत्सैनिकैः सह गत्वा नदीतीरे विद्यमानस्य तस्य भवनस्य अन्तः विद्यमानान् सर्वान् मानवपशून् अत्र आनयतु” इति।

मन्त्री मध्ये प्रविश्य उक्तवान् — “महाराज! एतद्विषये सावधानं विमृश्य निर्णयः स्वीकरणीयः”।

“किम्? विमृश्य निर्णयः? किं भवान् तस्मै वराकाय एव राज्यं दत्त्वा तस्य मन्त्री भवितुम् इच्छति?” इति राजा असहनया उक्तवान्।

मन्त्री किमपि उत्तरं न दत्तवान्। किमर्थं राजा एवं कुप्यति इति सः न ज्ञातवान्। तदा रक्षकप्रमुखः उक्तवान् — “महाराज! अहं पिङ्गलं बद्ध्वा अश्वस्य उपरि आरोप्य आनेष्यामि। अनुमत्या अनुगृह्णातु” इति।

राजा कोपेन एव उक्तवान् — “भवान् तं अश्वस्य उपरि वा आनयतु, गर्दभस्य उपरि वा आनयतु। मम उभयम् अपि समानम्। मम तु अपेक्षितः, मन्त्रस्यूतः, धनागारस्य धनं च। तत् द्वयम् अवश्यम् आनेतव्यम्। ज्ञातं किल?” इति।

रक्षकप्रमुखः आयुधसहितान् पञ्चाशत्सैनिकान् आत्मना सह नयमानः पिङ्गलस्य भवनस्य समीपं गतवान्। मुख्यद्वारस्य पार्श्वे शिलासने उपविष्टं तन्द्रामग्नं भीकराकृतिं भल्लूकेतुं दृष्ट्वा एव सर्वे सैनिकाः भीताः। ते प्रतिनिवर्तमानाः परस्परम् उक्तवन्तः — “एषः कश्चित् महाराक्षसः इव भाति। एतस्य कर्णौ तु शूर्पाकारौ। अरण्यसूकरः इव दृश्यते एषः” इति।

“रे मूर्खाः! भीतिः मास्तु। अस्मान् भीषयितुम् एषः एवं रूपं धृतवान् अस्ति” इति वदन् रक्षकप्रमुखः स्वकीयम् अश्वम् प्रेरितवान्। भल्लूकेतोः समीपं गत्वा सः शूलायुधेन तं पीडयन् उक्तवान् — “अये, स्थूलोदर! नेत्रे उद्घाटयतु। अत्र पश्यतु — अहं राजपक्षीयः रक्षकप्रमुखः उपस्थितः अस्मि।”

भल्लूकेतुः मन्दं नेत्रे उद्घाटितवान्। पुरतः दृश्यमानं शूलम् आकृष्य रक्षकप्रमुखं हस्ते गृहीतवान्। अनन्तरं तस्य पादौ गृहीत्वा उन्नीय, परितः भ्रामयित्वा सुदूरं नद्यां क्षिप्तवान्।

एतत् दृष्ट्वा सर्वे राजभटाः “हन्त! मृतः” इति आक्रोशनं कुर्वन्तः ततः धावितवन्तः। धावतः तान् दृष्ट्वा मन्दहासं प्रकटयन् भल्लूकेतुः आसने उपविष्टवान्। सन्तुष्टः सः पुनः नेत्रे निमीलितवान्।

राजभटाः ये धावितवन्तः आसन्, ते हाहाकारं कुर्वन्तः राजसमीपं गत्वा सर्वं वृत्तान्तं निवेदितवन्तः। एतत् श्रुत्वा क्रोधेन राजा उक्तवान् — “रे भीरवः! एतावन्तः सन्ति भवन्तः! एकम् अटविकं पुरुषं बद्ध्वा आनेतुं न शक्तवन्तः? आत्मानं महावीरं चिन्तयन्ति भवन्तः। भवतां समीपे किम् अस्त्रशस्त्राणि न आसन्? बाहुबलं न आसीत् किम्? भीरुतापूर्णव्यवहारस्य एतस्य दण्डनं शूलारोपणम् इति भवन्तः जानन्तु” इति।

तदा मन्त्री अग्रे आगत्य उक्तवान् — “महाराज! शान्तः भवतु। सः अटविकः राक्षसः वा मनुष्य वा इति वयं न जानीमः। तस्य अपूर्वशक्तेः पृष्ठभूमौ किमपि रहस्यं स्यात् एव। तस्य यजमानः पिङ्गलः मान्त्रिकः इति भवान् जानाति एव। अतः एव सः अटविकः, यस्मिन् अपि कर्तुं समर्थः।”

“तदीयः यजमानः पिङ्गलः मान्त्रिकः भवतु नाम। किन्तु सः अवन्तीनगरस्य महाराजस्य मम अपमानं कर्तुम् अर्हति वा? अहं तदीयं शिरः छेदयित्वा तेन तोरणम् अलङ्करिष्यामि” इति वदन् राजा हस्ततालपूर्वकं सेनापतिम् आहूतवान् — “अये सेनापते! अत्र आगच्छतु।”

“आज्ञापनीयोऽयं जनः” इति वदन् सेनापतिः महाराजस्य समीपम् आगतवान्।

“पिङ्गलद्वारा निर्मापितं भवनम् उन्मूल्य. तत्रत्यान् सर्वान् बन्दीकृत्य आनयतु” इति आदिष्टवान् महाराजः।

महाराजस्य आदेशेन सेनापतेः उत्साहः वर्धितः। बहुकालात् युद्धं न आसीत् इति कृत्वा युद्धार्थं तस्य बाहुः स्फुरति स्म। सः चिन्तितवान् — “नद्याः तटे निर्मितस्य भवनस्य उन्मूलनम् अतीव सुकरम्। तत्र गत्वा सर्वान् सम्यक् पीडयिष्यामि” इति।

पुनः अन्यः विचारः स्फुरितः — “पिङ्गलस्य समीपे अल्पा सेना अपि यदि स्यात् तर्हि समीचीनं भवेत्। तदा अहं खड्गयुद्धं, मल्लयुद्धं. सर्वविधयुद्धम् अपि कर्तुं समर्थः भविष्यामि” इति।

एतदनन्तरं सेनापतिः द्विशतं आश्विकान् त्रिशतं पदातीन् च स्वीकृत्य दर्पेण ततः निर्गतः। शीघ्रम् एव पिङ्गलस्य भवनस्य समीपं गतवान्। तत्र भल्लूकेतुः निद्रायाः अभिनयं कुर्वन् नेत्रे अर्धं निमील्य सेनापतेः आगमनं परिशीलयन् आसीत्। सेनापतिः मुख्यद्वारस्य समीपं गत्वा शूलायुधं प्रदर्शयन्, भल्लूकेतुं तर्जितवान् — “भे अटविक मूर्ख! भवतः स्वामी कुत्र? उत्तिष्ठतु तावत्” इति।

निद्रातः जागरणम् अभिनयन् भल्लूकेतुः उत्थितवान्। सेनापतिं पश्यन् उक्तवान् च — “अरे! कोऽयं मूर्खः माम् आह्वयति! भवान् तु न किल?” इति।

एतत् प्रश्नं श्रुत्वा सेनापतिः उग्ररूपं धृतवान्। भल्लूकेतोः उपरि शूलायुधस्य प्रयोगं कुर्वन् अश्वं प्रेरितवान्। यावत् शूलायुधम् उपरि न आपतितं तावति एव काले भल्लूकेतुः पार्श्वे उत्प्लुतवान्। अश्वस्य उपरि उपविष्टं सेनापतिं हस्तेन सलीलं गृहीत्वा शिलासनस्य उपरि स्थापितवान्। तस्य उपरि उपविष्टवान् च।

अनन्तरं भल्लूककेतुः हस्ततालपूर्वकं सर्वान् अनुचरान् आहूतवान्। तत्क्षणम् एव सर्वे अनुचराः हर्षोद्धारं कुर्वन्तः विविधान् शिलायुधान् गृहीत्वा आगतवन्तः। भल्लूक-केतुः पलायनरतान् सैनिकान् प्रदर्शयन् अनुचरान् आदिष्टवान् — “तान् दर्पयुतान् सम्यक् निष्पीड्य आगच्छन्तु” इति।

भल्लूककेतोः अनुचराः राजपक्षीयानाम् अश्वारोहिणां पदातिनां च उपरि आक्रमणं कृत्वा शिलानिर्मितैः आयुधैः पीडयितुम् आरब्ध-वन्तः। तदा सर्वे सैनिकाः प्राणभीत्या इतस्ततः धावितुं प्रवृत्ताः। भवनस्य शिखरम् आरुह्य स्थिताः पिङ्गलः, तदीयौ सहोदरौ, माता च एतत् दृश्यं दृष्ट्वा उच्चैः हसितवन्तः।

राक्षसानां प्रहारैः पीडिताः सैनिकाः कथञ्चित् आत्मानं रक्षन्तः राजसमीपं गत्वा सर्वं निवेदितवन्तः। “पिङ्गलः सामान्यः न” इति राजा स्वयं ज्ञातवान्। उद्गच्छन्तं कोपं प्रयत्नेन निगृह्य सः उक्तवान् — “मन्त्रिवर्य! कश्चित् युवकः अस्मान् अपमानयति किल? एतत् अहं सोढुं न शक्नोमि। प्राणान् पणी-कृत्य अहम् एव युद्धार्थं गच्छामि। यदि कदा-चित् युद्धे मम मरणं स्यात् तर्हि मदीयां प्रियपुत्रीं वकुलादेवीं योग्याय वराय दत्त्वा तस्याः विवाहं करोतु” इति।

मन्त्री एकक्षणं विचिन्त्य उक्तवान् — “महाराज! विना कोपं शान्तचित्तः भूत्वा भवान् मया उच्यमानं शृणोतु। अहं भवन्तं किञ्चित् निवेदयितुम् इच्छामि” इति।

“वदतु नाम” इति उक्तवान् राजा।

“पिङ्गलः युवकः अविवाहितः च। परिचितानां सकाशात् मया ज्ञातं यत् पिङ्गलः सौन्दर्येण मन्मथः इव अस्ति इति। विभवेन साहसेन पराक्रमेण च सः असदृशः। अतः राजकुमारीं परिणेतुं तं प्रार्थयामः इति मम मतिः। एतेन पर्वतोपमा विपत्तिः अणुरूपेण परिवर्तिता भविष्यति” इति।

एतां सूचनां श्रुत्वा राजा अधिकं कुपितः। सः क्रोधेन उक्तवान् — “किं भवतः बुद्धिः अकस्मात् विकला सञ्जाता? येन भवान् ईदृशीं सूचनां सूचयन् अस्ति। शत्रवे मदीयां प्रियपुत्रीं ददामि वा? आत्मरक्षणार्थं पुत्रीं बलिपीठं आरोपयामि वा? नैव, एवं कदापि भवितुं न अर्हति” इति।

मन्त्री राजानं पुनः बोधितवान् — “राजन्! मदीयसूचनायाः स्वीकारः त्यागः वा भवदधीनः। किन्तु प्रथमं परिस्थितिं सम्यक् परिशीलयतु इति मदीया प्रार्थना। राजकार्येषु दूरदर्शिता सर्वदा अपेक्षिता। यः अद्य शत्रुः सः एव श्वः हितचिन्तकः भविष्यति कदाचित्। पिङ्गले भवता कः दुर्गुणः दृष्टः? तदीया माता भ्रातरौ च अस्माभिः पीडिताः। अतः सः एवम् आचरितवान्। वस्तुतः सः राजनिष्ठः एव। राजकुमार्याः पिङ्गलः एव योग्यः वरः इति मम अभिप्रायः। एतयोः विवाहेन, सर्वेषां हितं सिध्यति। अल्पेन विनयेन वयं महान्तं लाभं प्राप्तुं समर्थाः भविष्यामः। एतादृशः समर्थतमः जामाता भाग्यवशात् एव लभ्यते। द्वारसमीमुपस्थितस्य भाग्यप्राप्तेः अवकाशस्य तिरस्कारः किमर्थम्?” इति।

राजा किञ्चित्कालपर्यन्तं विचारमग्नः आसीत्। अनन्तरं सः उक्तवान् — “मन्त्रिन्! भवदीया सूचना अङ्गीकृता मया” इति।

अनन्तरं मन्त्री उचितपरिवारेण सह गत्वा पिङ्गलं दृष्टवान्। महाराजस्य इच्छां उचितैः वचनैः प्रकटीकृतवान्। पिङ्गलः राजकुमार्याः सौन्दर्यविषये पूर्वं श्रुतवान् आसीत्। अतः सः मन्त्रिणः प्रस्तावम् अङ्गीकृतवान्।

अल्पे एव काले पिङ्गलस्य वकुलादेव्याः च विवाहः महता वैभवेन सम्पन्नः। महामान्त्रिकः पद्मपादः विवाहमण्डले उपस्थाय वधूवरौ आशिषा अनुगृहीतवान्।

अनन्तरं केषुचित् वर्षेषु अवन्तीराजः दिवङ्गतः। तदा पिङ्गलः एव राजा जातः। पिङ्गलस्य शासने प्रजाजनाः सुखिनः न्यायनुया-यिनः च आसन्।

समाप्तम्

संस्कृत चन्दमामा · जनवरी १९८५ · पृ० ११ Chandamama India Limited