॥ ॐ श्री गणपतये नमः ॥

स्नेहस्य मौल्यम्

भामहः

राजपुरम् इति कश्चित् ग्रामः। तत्र प्रायः सर्वेऽपि तन्तुवायाः। राजपुरस्य पटाः बहु समीचीनाः इति सर्वत्र प्रसिद्धाः। अतः सर्वे अपि तानेव पटान् क्रीणन्ति स्म। तस्मिन् ग्रामे गणपतिः केशवः च प्रतिवेशिनौ स्नेहितौ च।

वेमया उत्कृष्टानि वस्त्राणि प्रवाय तानि वस्त्राणि नगरं प्रति ताभ्यां नीयन्ते। तत्र नगरे वणिजः तानि वस्त्राणि क्रीणन्ति। तयोः वस्त्राणि क्रेतुं बहवः ग्राहकाः सन्ति।

गणपतेः स्वीयं शकटम् आसीत्। सः तस्मिन् एव शकटे वस्त्राणि नीत्वा क्रीणाति। केशवस्य गृहे बहवः जनाः। गृहे व्ययोऽपि अधिकः। अतः सः एकं शकटं क्रेतुं न शक्तवान्। शकटस्य आवश्यकता अस्ति चेत् सः भाटकशकटेन नगरं गच्छति। शकटं न लभ्यते चेत् वस्त्राणि स्वयं शिरसा एव नयति।

गणपतिः कदापि अन्येषां साहाय्यं न करोति। सर्वदा स्वस्य कुटुम्बस्य विषये एव तस्य प्रवृत्तिः। एषः तस्य स्वभावः। यद्यपि गणपतिः केशवश्च स्नेहितौ। तथापि गणपतिः केशवाय शकटं दातुं न अभिलषति। अपि च केशवस्य दारिद्र्यम् अजानन् इव तस्य समीपे गणपतिः एवं वदति — “भोः केशव! भवान् भाटकशकटेनैव कियत्दिनपर्यन्तं जीवनं निर्व-हति? वाणिज्यार्थम् एकं शकटम् आवश्यकमेव। स्वीयं शकटम् अस्ति चेत् लाभोऽपि भवति” इति। एतादृशानि वचनानि श्रुत्वा अपि केशवः किमपि अवदन् विहस्य तूष्णीं भवति।

तस्मिन् ग्रामे राघवः नाम कश्चित्। सः राघवः गणपतिकेशवयोः उभयोरपि स्नेहितः। राघवः विघावान्। तथापि तेन कोऽपि उद्योगः न लब्धः। सः उद्योगार्थं प्रयत्नं तु कुर्वन् एव आसीत्। उद्योगप्राप्तिपर्यन्तं ग्रामे एव पितुः कृषिविषये साहाय्यं कुर्वन् आसीत्। अन्ते तस्य बान्धवानां साहाय्येन नगरे एव उद्योगः प्राप्तः। अतः सः पत्न्या पुत्रैश्च साकं नगरे एव वासं कृतवान्।

विक्रयणाय यदा गणपतिः केशवः वा नगरं गच्छतः तदा राघवस्य गृहं प्रति गच्छतः। यतः राघवस्य माता एतयोः द्वारा पुत्राय दातुं किमपि भक्ष्यं प्रेषयति।

अतिथीनां विषये राघवस्य महान् आदरः। तस्य पत्नी अपि तादृशी एव। अपि च सा स्वादुतमं पाकं करोति। गृहं यः कोऽपि आगच्छति चेत् राघवः भोजनम् अपरिविष्य न प्रेषयति।

किन्तु केशवः कदापि राघवस्य गृहे भोजनं न करोति। केनापि व्याजेन भोजनम् अकृत्वा एव नगरे कार्यं समाप्य ग्रामं प्रत्यागच्छति।

गणपतिस्तु न तथा। नगरं गच्छति चेत् राघवस्य गृहे एव भोजनं करोति। यतः पूर्वं नगरे भोजनविषये एव तस्य समस्या आसीत्। इदानीं तु सा समस्या परिहृता इति सर्वदा राघवस्य गृहे एव भोजनं करोति।

गच्छति काले, एकदा गणपतेः संशयः उत्पन्नः। ‘मम विषये राघवस्य गृहे सर्वेषाम् अनादरः उद्भूत’ इति। यतः राघवस्य पत्नी सुमती, तथा पुत्राश्च गणपतेः विषये उदासीनतां प्रदर्शयन्ति। केशवं बहु श्लाघयन्ति अपि। केशवस्य विषये तेषां महान् आदरः।

एकस्मिन् दिने गणपतिः केशवस्य गृहं गत्वा वाणिज्यविषयं किञ्चित् समालोच्य केशवं प्रति एवम् उक्तवान् — “भोः, एषः विषयः भवता अपि ज्ञातः इति मन्ये। यत् ग्रामीणाः एव मैत्र्याः याथातथ्यं जानन्ति। नगरजीवनम् अन्यत् एव। उदाहरणार्थं नगरे राघवः अस्ति किल? तस्य, तस्य पत्न्याः, पुत्राणां च रीतिः एव इदानीं भिन्ना जाता। ते इदानीं पूर्ववत् आदरं न प्रदर्शयन्ति” इति।

आश्चर्यचकितः केशवः एवम् उक्तवान् — “अहं तु न तथा भावयामि। यतः ते इदानीं अपि मम विषये आदरं प्रदर्शयन्तः एव सन्ति।”

गणपतिः उपहस्य “सत्यम्। बहुधा ते भवन्तः स्तुतिं कुर्वन्ति। मया अपि तत् श्रुतम्। तत्र रहस्यं किमिति देवः एव जानाति” इति उक्तवान्।

“तत्र रहस्यं किमपि नास्ति। केवल-सम्भाषणे यावान् आदरः भवति तावान् आदरः सर्वदा भोजनकरणे न भवति। यदि अस्मत-कारणतः तेषां व्ययः वर्धते तर्हि ते क्रमशः अस्मान् अगौरवेण पश्यन्ति। एतत् तु सहजम्” इत्युक्तवान् केशवः।

तत् श्रुत्वा गणपतेः चपेटिकानुभवः अभ-वत्। केशवस्य विषये किमर्थं राघवस्य गृहे तादृशम् आदरं प्रदर्शयन्ति इति इदानीं सः ज्ञातवान्।

‘पत्न्या पुत्रैश्च साकं राघवः नगरे वसति। तेन अधिकं वेतनम् अपि न लभ्यते। तादृशस्य राघवस्य गृहे भोजनप्रियः अहं गत्वा सर्वदा भोजनं करोमि चेत् तेषां बहुकष्टं भवेत्।’ इति चिन्तितवान् गणपतिः।

ततःप्रभृति सः बहुपरिवृत्तः। अन्येषां सुखदुःखानि ज्ञात्वा तेषां साहाय्यमपि करोति। अपि च केशवस्य यदा शकटस्य आवश्यकता भवति तदा स्वीयं शकटमेव तस्मै ददाति। नगरं गच्छति चेत् राघवस्य पुत्राणां हस्ते क्रीडनकादिकं दत्त्वा भोजनम् अकृत्वा एव ग्रामं प्रत्यागच्छति।

समाप्तम्

संस्कृत चन्दमामा · जनवरी १९८५ · पृ० २८ Chandamama India Limited