॥ ॐ श्री गणपतये नमः ॥

राक्षसनीतिः

एकदा भक्तानां कश्चन समूहः काशीयात्रार्थं गच्छन् आसीत्।

मार्गमध्ये एकम् अरण्यम्। सर्वे भक्ताः तस्मिन् अरण्ये गच्छन्ति स्म। तदा तत्रस्थः एकः राक्षसः युगपत् एव बहु जनान् दृष्ट्वा एकं लघुविनोदं कर्तुम् अपेक्षितवान्।

सः एकं बृहद्वृक्षम् आरूढवान्। अनन्तरं वृक्षतः उच्चैः गर्जनं कुर्वन् भक्तानां पुरतः कूर्दितवान्। एतेन सर्वेषां भक्तानां शरीरे कम्पनम् आरब्धम्।

राक्षसः तान् प्रति उक्तवान् — “भीतिः मास्तु। भवत्सु यः कोऽपि स्वयम् आगत्य मम आहारः भवति चेत् अन्यान् सर्वान् अपि अहं मुञ्चामि।”

तेषु एकैकः अपि स्वस्य पार्श्वस्थः राक्षसस्य आहारः भवतु इति चिन्तितवान्। कोऽपि अग्रे न आगतवान्। तदा राक्षसः सर्वान् अपि हन्तुं सिद्धः अभवत्।

तेषु जनेषु सारङ्गपाणिः अपि एकः। सः कुटुम्बक्लेशैः पीडितः गङ्गायां प्राणान् त्यक्तुम् इच्छन् अन्यैः सह आगतः आसीत्। सः अग्रे आगत्य उक्तवान् — “अहं सिद्धः अस्मि। भक्षयित्वा अन्यान् मुञ्चतु” इति।

राक्षसः स्मयमानः सारङ्गपाणिं त्यक्त्वा अन्यान् सर्वान् अपि हतवान्। अनन्तरं शनैः तान् सर्वान् खादितुम् आरब्धवान्।

समाप्तम्

संस्कृत चन्दमामा · जनवरी १९८५ · पृ० ३१ Chandamama India Limited