पण्डितस्य उन्नतिः
पुरा बागदादनगरम् अनेके खलीफाः पालयितवन्तः। तेषु अलममूनखलीफः महान् पण्डितपोषकः इति ख्यातः आसीत्। नूतनपण्डितः वा भवतु, ख्यातः वा भवतु, तेषां योग्यतानुसारेण सर्वेभ्यः प्रशस्तिबहुमानादिकं दत्त्वा सत्कारं करोति स्म। एवं रीत्या तान् प्रोत्साहयति स्म।
अलममूनखलीफः सप्ताहे एकवारं सभाम् आयोजयति स्म। तत्र न केवलं पण्डिताः, किन्तु चतुराः वाग्मिनः च भागं वोढुम् अर्हन्ति स्म। तत्र विविधविषयान् अधिकृत्य वादविवादाः प्रचलन्ति स्म। महान्तः पण्डिताः क्लिष्टसमस्याः गृहीत्वा चर्चां कुर्वन्ति स्म। तेन तत्र उपस्थितानां सामान्यजनानां अपि ज्ञानलाभः भवति स्म।
एकदा साप्ताहिकसभासमयः। अलममूनखलीफः सिंहासने उपविष्टः आसीत्। तदा नूतनः कश्चित् सभां प्रविश्य सामान्यजनानां समीपम् अगत्वा, साक्षात् पण्डितानां समीपे गत्वा, तेषां मध्ये उपविष्टवान्। सः कश्चित् पथिकः स्यात् इति सर्वे भावितवन्तः। सः एकः पण्डितः इति कस्य अपि कल्पना नासीत्। उपविष्टान् पुनः उत्थापयितुं न कोऽपि इच्छति स्म।
सभायाः कार्यक्रमाः आरब्धाः। वादार्थम् एकः विषयः खलीफेन निर्दिष्टः आसीत्। एकैकः पण्डितः उत्थाय सर्वेषां पण्डितपामराणाम् अपि यथा अर्थबोधः भवेत्, तथा विषयं प्रतिपादयति स्म। एवं रीत्या अनेकैः विषयः प्रतिपादितः। तदा नूतनस्य पर्यायः सम्प्राप्तः। सः उत्थाय स्वच्छया भाषया सुस्पष्टेन उच्चारणेन च स्वाभिप्रायं बहुसमीचीनतया वर्णितवान्। तस्य प्रतिपादनरीतिं दृष्ट्वा सम्पूर्णसभा आश्चर्यचकिता अभवत्।
राजास्थानस्य श्रेष्ठविद्वांसः सभायाः प्रथमपङ्क्तौ उपविष्टाः आसन्। इदानीं खलीफः नूतनम् अपि तस्यां पङ्क्तौ उपवेशनार्थं विज्ञापितवान्। तस्य आदेशानुसारेण नूतनः उत्थाय प्रथमपङ्क्तौ उपविष्टवान्।
अनन्तरं खलीफः वादार्थम् अन्यं विषयं सूचयित्वा चर्चायाः उपक्रमार्थं प्रार्थितवान्। तस्यां चर्चायाम् यदा नूतनस्य पर्यायः प्राप्तः तदा पूर्वपक्षया अपि अद्भुततरं यथा स्यात् तथा विषयस्य अन्तरार्थं स्पष्टीकुर्वन् सर्वेषां विद्वज्जनानां सामान्यनां च मनांसि आकृष्टवान्। सर्वे सन्तोषेण हर्षोद्धारं कृतवन्तः।
इदानीं खलीफः नूतनं प्रधानसचिवानां मध्ये स्थानं ग्रहीतुम् आहूतवान्।
अनन्तरं पुनः अपरं विषयं अधिकृत्य तर्कः आरब्धः। तदा नूतनः स्वीयं लोकानुभावं, विवेकं, वाक्चातुर्यं च प्रकटयन् समस्तां सभां मन्त्रमुग्धां कृतवान्। खलीफः तु अत्यानन्देन तं समीपम् आहूय सिंहासनस्य पार्श्वस्थिते आसने उपवेशनार्थम् आदिष्टवान्।
सभा समाप्ता। अनन्तरं खलीफः पण्डितानां कृते भोजनसमारम्भम् आयोजितवान् आसीत्। भोजनानन्तरं सर्वे राजभवनतः निर्गतवन्तः। नूतनः अपि गन्तुम् उत्थितवान्। तदा अलममूनखलीफः तं हस्त-लाघवेन पुरकृत्य “क्षणं तिष्ठतु, किञ्चितविशेषरूपेण भवतः सत्कारं कर्तुम् इच्छामि। आवां मिलित्वा द्राक्षारसं पिबावः” इति उक्तवान्।
अनन्तरं खलीफः द्राक्षारसं आनेतुम् आज्ञापितवान्। उत्तरक्षणे एव अन्तःपुरस्य दास्यः रत्नखचितसुवर्णकलशेषु द्राक्षारसम् आनीतवत्यः। तदा खलीफः एकं पात्रं गृहीत्वा, अन्यत् पात्रं ग्रहीतुं नूतनपण्डितं सूचितवान्।
नूतनपण्डितः अत्यन्तविनयेन खलीफं दृष्ट्वा “प्रभो, मुख्यपण्डितानां पङ्क्तौ मह्यं भवान् स्थानम् अनुगृहितवान् खलु। कृपया तस्य कारणं वदतु” इति पृष्टवान्।
“भवतः विवेकः, वाक्चातुर्यं, विषयविभागक्रमः इत्यादयः मनोहराः आसन्। तैः अहं नितरां सन्तुष्टः जातः” इति उक्तवान् खलीफः।
“अनन्तरं भवतः पार्श्वस्थिते आसने उपवेशनार्थं कुतः विज्ञापितवान्?” इति पृष्टवान् नूतनः।
“विवेकेन वाक्चातुर्येण च भवत्सदृशः अन्यः नास्ति इति भावना जाता। अपि च ततोऽपि उन्नततरम् आसनम् अन्यत् नास्ति खलु?” इति खलीफः उक्तवान्।
“एवं तर्हि मम विवेकः वाक्चातुर्यं च भवतः दयायाः अभिमानस्य च कारणद्वयम् इति सिद्धं जातम्। एवं हि सति इदानीं मां तस्मात् उन्नतस्थानात् पातयितुं भवान् किमर्थम् इच्छति?” इति नूतनः पृष्टवान्।
“किमर्थम् एवं वदति! भवतः अभिप्रायः न अवगतः” इति उक्तवान् खलीफः।
“प्रभो, भवान् इदानीं यत् पानीयं मह्यं दातुम् इच्छति, तत् मम शक्तिद्वयम् अपि अपहरति। मम सर्वनाशं करोति। मम शक्तीनां रक्षणं मया कर्तव्यं खलु? अतः कृपया एतत् पानीयम् अपीत्वा एव इतः निर्गतुं मह्यम् अवकाशं ददातु” इति प्रार्थितवान् नूतनः।
नूतनस्य वचनेन खलीफस्य महान् प्रमोदः जातः। सः सद्यः एव तस्मै पण्डिताय लक्षरजतनाणकानि, अमूल्यानि वस्त्राणि, जात्यश्वं च एकं बहुमानरूपेण दत्तवान्। अनन्तरं सर्वदा तस्मै उन्नतस्थानं दत्त्वा सत्कारं करोति स्म।
समाप्तम्