न्यायपीठम्
कुमुदपुरस्य राजा चन्दनः। चन्दनस्य अपेक्षा आसीत् — यत् न्यायनिर्णये सर्वथा शतांशाः अपि निर्दुष्टाः स्युः इति। किन्तु एतत् असम्भवम् एव आसीत्। यतः न्यायनिर्णायकः मानवः किल? अतिजागरूकता आश्रिता चेदपि प्रमादः सम्भवति एव। लब्धेन साक्ष्याधारेण किल तेन न्यायनिर्णयः करणीयः? अतः निर्णये दोषः सर्वथा नास्ति इति कथं वक्तुं शक्यते?
“एतादृशः दोषः निवारणीयः” इति इच्छन् चन्दनराजः अरण्यं गत्वा बहुवर्षाणि यावत् धर्मदेवताम् उद्दिश्य तपः आचरितवान्।
चन्दनस्य तपसा धर्मदेवता सन्तुष्टा। “अपेक्षितं वरं वृणीतु” इति सा उक्तवती। तदा राजा धर्मदेवतां प्रार्थितवान् — “देवि! मम तादृशम् एकं न्यायपीठम् अपेक्षितं यस्याः उपरि स्थितः कश्चित् असत्यं वदति चेत् सः विकाररूपं प्राप्नुयात्” इति।
धर्मदेवता तादृशम् न्यायपीठं दत्त्वा अदृश्यतां गता। राजा राजोचितगौरवं प्रदर्शयन् तत् न्यायपीठं राजधानीम् आनीय राजसभायां प्रतिष्ठापितवान्। अनन्तरं सर्वान् न्यायपीठस्य महत्त्वं श्रावितवान्।
किन्तु केचन न्यायपीठस्य विषये अविश्वासं प्रकटितवन्तः। परीक्षादृष्ट्या न्यायपीठम् आरुह्य असत्यम् उक्तवन्तः। विरूपतां प्राप्तवन्तः च। तदारभ्य सर्वेषां मनसि न्यायपीठविषये विश्वासः उत्पन्नः।
कुमुदपुरस्य चन्दनराजस्य च कीर्तिः सर्वत्र प्रसृता। सर्वे न्यायपीठस्य महिमवर्णनं कृतवन्तः। बहवः राजानः तादृशं न्यायपीठं स्वराज्ये अपि अपेक्षितवन्तः।
राज्ये सर्वत्र महाराजस्य चन्दनस्य गौरवम् अधिकं जातम्। प्रजाः तं न्यायदेवताया प्रतीकः इति वदन्ति स्म। एतेन राजा बहु सन्तुष्टः। “अहम् इदानीं नेत्रे निमील्य अपि निश्चिन्ततया न्यायनिर्णयं कर्तुं शक्नोमि। न्यायपीठकारणतः मम राज्ये कदापि अन्याय्यं न भविष्यति” इति राजा मन्त्रिमण्डलिकानां पुरतः सगर्वम् उक्तवान्।
एतत् श्रुत्वा उच्चैः हसन् महामन्त्री उक्तवान् — “महाराज! न्यायपीठविषये अन्धविश्वासः न उचितः। न्यायपीठम् वञ्चयित्वा कश्चित् अन्याय्यम् आचरितुं शक्नोति” इति।
एतेन राजा कुपितः। सः उक्तवान् — “एवं रीत्या न्यायपीठस्य अवमाननम् अनुचितम्। ‘न्यायपीठं वञ्चयित्वा अन्याय्यम् आचरितुं शक्यते’ इत्येतत् भवता दिनत्रये प्रमाणीकरणीयम्। अन्यथा भवतः शिरश्छेदं कारयिष्यामि” इति।
कुमुदपुरे एका हेमकुरङ्गी नाम सुन्दरी वेश्या आसीत्। “जगति मादृशी रूपवती अन्या काऽपि नास्ति” इति तस्याः अहङ्कारः आसीत्। एतेन सा सर्वान् अपमानयति स्म। अतः मन्त्री चिन्तितवान् — “महाराजः एषा हेमकुरङ्गी च युगपदेव शिक्षणीयौ” इति।
एवं विचिन्त्य मन्त्री सन्न्यासिनः वेषं धृत्वा हेमकुरङ्ग्याः भवनस्य पुरतः स्ववसतिम् उपकल्पितवान्। तत्र सः मार्गे गच्छतां जनानां धनं सुवर्णं च स्वीकृत्य तत् द्विगुणीकृत्य ददाति स्म। सन्न्यासिनः एतं व्यवहारं दृष्ट्वा हेमकुरङ्ग्याः मनसि अपि आशा समुत्पन्ना। एकदा रात्रौ सा स्वकीयानि सुवर्णरत्नाभरणानि सर्वाणि सन्न्यासिनः हस्ते समर्प्य ‘एतानि द्विगुणीकृत्य ददातु’ इति प्रार्थितवती।
“श्वः प्रत्यर्पयिष्यामि” इति आश्वासनं दत्त्वा सः तां प्रेषितवान्। अनन्तरं तस्याः सकाशात् प्राप्तानि सुवर्णरत्नाभरणानि स्वदण्डस्य अन्तः विद्यमाने अवकाशे स्थापितवान्।
“रात्रौ सन्न्यासी पलायनं कुर्यात्” इति चिन्तयन्ती हेमकुरङ्गी सन्न्यासिनः रक्षणार्थं सेवकान् नियोचितवती। परेद्युः प्रातःकाले गत्वा सन्न्यासिनं द्विगुणितानि पृष्टवती।
सन्न्यासी आश्चर्यं प्रकटयन् उक्तवान् “भवत्याः किमपि वस्तु मम समीपे नास्ति किल!” इति।
एतेन हेमकुरङ्गी कुपिता दुःखिता च। महाराजाय एतत् व्यवहारं निवेदयितुम् इच्छन्ती सा सन्न्यासिनम् आत्मना सह आगन्तुम् उक्तवती। सन्न्यासी तु राजसभां प्रस्थितः।
हेमकुरङ्ग्याः वचनानि श्रुत्वा महाराजः, न्यायपीठम् आरुह्य उत्तरं वक्तुम् सन्न्यासिनम् उक्तवान्।
सन्न्यसी स्वहस्ते स्थितं दण्डं हेमकुरङ्ग्याः हस्ते दत्त्वा न्यायपीठम् आरूढवान्, उक्तवान् च — “एतस्याः हेमकुरङ्ग्याः सम्पत्तेः लेशः अपि मम समीपे नास्ति” इति। एवम् उक्त्वा सः न्यायपीठात् अवतीर्णवान्।
एतत् कठोरम् असत्यं श्रुत्वा कुपिता हेमकुरङ्गी क्रोधावेशेन दण्डं स्वहस्ते गृहीत्वा एव न्यायपीठम् आरूढवती। “अहं मदीयानि सर्वाणि अभरणानि सन्न्यासिनः हस्ते दत्तवती। सः असत्यं वदति। इदानीं अपि सः तानि आभरणानि न प्रत्यर्पितवान्” इति सा उच्चैः आक्रोशनं कृतवती।
वचनसमाप्तेः समनन्तरम् एव सा विकारं रूपं प्राप्तवती। एतत् दृष्ट्वा सर्वे सभासदाः उच्चैः हसितवन्तः।
तदा मन्त्री सन्न्यासिवेषं परित्यज्य, राजानं सर्वं वृत्तान्तं निवेद्य उक्तवान् — “प्रभो! भवान् एव दृष्टवान् किल — न्यायपीठकारणतः सत्यवादिनी अपि हेमकुरङ्गी कीदृशीम् अवस्थां प्राप्तवती इति?”
हेमकुरङ्गी वस्तुतः असत्यं न उक्तवती। सा न जानाति स्म यत् तस्याः हस्ते विद्यमाने दण्डे एव आभरणानि निगूहितानि सन्ति इति। वस्तुस्थितिम् उक्त्वा सा कुरूपिणी जाता।
एतेन प्रसङ्गेन महाराजः न्यायपीठविषये विरक्तिभावम् आपन्नः। अतः सः न्यायपीठं सभाभवनतः निष्कासितवान्।
समाप्तम्