॥ ॐ श्री गणपतये नमः ॥

खड्गः त्सरुः च

भगिनी

गजपुरं नाम राज्यम्। तत् राज्यं गजवर्मा पालयति। तस्य राज्ञः एका एव पुत्री कलावती नाम। सा प्राप्तवयस्का। अतः तस्याः विवाहार्थं राजा स्वयंवरम् आयोज्य सर्वत्र वार्तां प्रेषितवान्।

स्वयंवरार्थम् अन्यान्यदेशीयाः राजकुमाराः आगतवन्तः। कलावती पुष्पमालां हस्ते स्वीकृत्य सखीभिः सह स्वयंवरमण्डपम् आगतवती। तस्याः आगमनं सूचयितुं भेरीनादः कृतः।

तस्मिन्नेव क्षणे सभामण्डपस्य पुरतः बद्धेन गजेन एतं शब्दं श्रुत्वा भीत्या घीङ्कारः कृतः। दृढशृङ्खलामपि छित्वा सः गजः मण्डपस्य अन्तः एव आगतवान्।

सभायां महान् कोलाहलः उत्पन्नः। हस्तिपकः अपि किङ्कर्तव्यतामूढः अभवत्। स्वयंवरार्थम् आगताः सर्वे राजकुमाराः अन्ये च भीत्या पलायितवन्तः।

तदा तत्रैव स्थितः कश्चित् तरुणः कलावत्याः समीपे आगच्छन्तं गजं दृष्ट्वा सिंहवत् तस्य कुम्भस्थले प्रहतवान्। तदा शान्तः गजः तस्य तरुणस्य पुरतः सविनयम् अतिष्ठत्। एवं एकस्मिन् क्षणे एव सर्वेषां भयम् अपगतम्।

तस्य तरुणस्य पराक्रमं धैर्यं च दृष्ट्वा राजा विस्मितः। सः तरुणः कः इति विचार्यमाणे आत्मसहायकस्य धीरवर्मणः पुत्रः वीरसेनः इति ज्ञातम्।

राजकुमारी कलावती स्वस्याः कण्ठे स्थितं रत्नहारम् अवमोच्य वीरसेनाय ददती एवम् उक्तवती — “भवान् प्राणान् अपि अविगणय्य मां रक्षितवान्। अतः एतत् पारितोषिक-रूपेण स्वीकरोतु” इति।

“मम पारितोषिकं किमर्थम्? मया केवलं कर्तव्यम् अनुष्ठितम्। एतादृशसमये यः कोऽपि एवमेव करोति। मया विशेषेण किमपि न कृतम्” इति विनयेन उक्त्वा वीरसेनः रत्नहारं न स्वीकृतवान्। तूष्णीं गतवान् च।

स्वयंवरकार्यक्रमः स्थगितः। पुनः आरब्धुं प्रयत्नाः प्रचलिताः।

तदा राजकुमारी पितुः समीपम् एकं शरावम् आनीतवती। तस्मिन् शरावे खड्गद्वयम् आसीत्। तत् प्रदर्श्य पितरम् उक्तवती — “तात! अस्मिन् खड्गद्वयम् अस्ति। तयोः भवान् यदिच्छति तत् स्वीकरोतु” इति।

तयोः द्वयोः खड्गयोः एकस्य खड्गस्य त्सरुः वज्रखचितः। तस्य कोशः अपि सुवर्णेन कृतः। अपरस्य खड्गस्य त्सरुः सामान्यलोहयुक्तः। अपि च तस्य कोशः चर्मणा कृतः।

राजा खड्गद्वयम् अपि सम्यक् परिशील्य चर्मकोशे स्थितं खड्गमेव स्वीकृत्य ‘अहं तु एतं एव खड्गम् इच्छामि’ इति उक्तवान्।

“वज्रखचितत्सरुयुक्तः सुवर्णकोशे स्थितश्च खड्गः किमर्थं भवते न अरोचत” इति पृष्टवती कलावती।

“वीरः सर्वदा खड्गस्य तीक्ष्णताम् एव परीक्षते। न तु खड्गस्य त्सरुं कोशं वा।” इति राजा उक्तवान्।

“तर्हि मनुष्याणां सौन्दर्यम् ऐश्वर्यादिकं सर्वमपि एवमेव किल? यतः अद्य स्वयंवरमण्डपे गजस्य कोलाहलः अभवत् किल? तदा सुन्दराः धनिकाः राजकुमाराः सर्वे प्राणभयेन पलायितवन्तः। वीरसेनस्तु प्राणान् अपि अविगणय्य अस्मान् सर्वान् रक्षितवान्। एतादृशपुरुषेण सह विवाहः भविष्यति चेत् तत्र अदृष्टमेव कारणम्। एतादृशः पुरुषः अस्माकं राज्ये एव अस्ति। अतः स्वयंवरस्य आवश्यकता नास्ति इति मन्ये” इति कलावती पितरं उक्तवती।

राजा कलावत्याः वचनेन तस्याः मनोभावं ज्ञातवान्। तस्य अपि बहु सन्तोषः अभवत्। तस्याः वचनानुसारेण वीरसेनेन सहैव कलावत्याः विवाहं महता वैभवेन कृतवान्।

समाप्तम्

संस्कृत चन्दमामा · जनवरी १९८५ · पृ० ५९ Chandamama India Limited