॥ ॐ श्री गणपतये नमः ॥

कः श्रेष्ठः?

जातककथा

काशीराज्ये ब्रह्मदत्तस्य शासनसमयः आसीत्। तदा बोधिसत्त्वः काशीराजस्य पुत्ररूपेण अवतारं स्वीकृतवान्। सः तक्षशिलायाः विद्यापीठं गत्वा विद्यार्जनं कृतवान्। यदा सः षोडशवर्षीयः जातः, तदा सः राजनीतिशास्त्रपुराणादिषु समस्तविद्यासु पारङ्गतः अभवत्। जनकस्य मरणानन्तरं महाराजपदवीं प्राप्य, धर्मस्य किञ्चिदपि लोपम् अकुर्वन् शासनं कर्तुम् आरब्धवान्।

तस्य शासनकाले प्रजानां कष्टं वा दुःखं वा किञ्चिदपि न आसीत्। अशुभस्य वा अन्यायस्य वा अक्रमस्य वा कुत्रापि अवकाशः एव न आसीत्। जनाः सुखेन कालं यापयन्ति स्म। न्यायालयाः शून्याः जाताः। तेषाम् आवश्यकता एव न आसीत्। बहुवर्षाणि अतीतानि। राजास्थानं निष्क्रियं जातम्। प्रजासु परस्परं किञ्चिदपि वैमनस्यं न आसीत्।

जनानां मध्ये कोलाहलः एव न दृष्टः। एतत्सर्वं दृष्ट्वा राजा संशयग्रस्तः अभवत्। स्वीयशासनक्रमे यः कोऽपि दोषः भवेत् वा? जनाः मम विषये किं चिन्तयन्ति? न्यूनातिन्यूनं जनाः परस्परं कलहं कुर्वन्ति चेत्, तदा तेषाम् अभिप्रायान् ज्ञातुं शक्नोमि स्म। किन्तु प्रजासु एकः अपि राजास्थानस्य मार्गे अपि न चलति। एतस्यां परिस्थितौ महाराजस्य प्रजानां च मध्ये सम्बन्धः एव नास्ति। एतत् तु न शुभलक्षणम्। किं करोमि?

एवं रीत्या चिन्तयन् महाराजः स्वीयं रथम् आरुह्य काशीनगरे सर्वत्र सञ्चरन् तत्र तत्र जनान् ‘मम शासनक्रमे यः कोऽपि दोषः अस्ति वा?’ इति पृष्टवान्।

एवं क्रमेण सः अनेकस्थानेषु बहुजनान् पृष्टवान्। सर्वत्र अपि एकमेव उत्तरं लब्धम् “भवतः राज्ये वर्तमानाः वयं सर्वे परमसुखिनः स्मः। अस्माभिः कोऽपि दोषः न दृष्टः” इति।

एतावता महाराजः सन्तुष्टः न अभवत्। सः सर्वाणि राजचिह्नानि निष्कास्य सामान्यनागरिकवेषभूषणानि धृतवान्। अनन्तरम् एकं सामान्यरथम् आरुह्य नगरं त्यक्त्वा ग्रामतः ग्रामं सञ्चरितुम् आरब्धवान्। तत्र तत्र उद्यानेषु विपणिषु च प्रयाणं कुर्वन् स्वीयविषये प्रजानाम् अभिप्रायान् ज्ञातुं प्रयत्नं कृतवान्। इत्थं सः अनेकग्रामान् अटितवान्। बहुजनान् पृष्टवान्। किन्तु कुत्रापि किञ्चिदपि आक्षेपवचनं न श्रुतम्। अत्यन्तसमीचीनं शासनम् इत्येव सर्वे वदन्ति स्म।

अन्ते रथेन राज्यस्य सीमास्थानं प्राप्तम्। अनन्तरं राजा प्रत्यागमनमार्गम् अनुसृत्य ततः प्रस्थितवान्। तदा मार्गमध्ये पुरतः अन्यः रथः आगच्छति स्म। तत्र मार्गः अतीव सङ्कुचितः आसीत्। द्वयोः अपि रथयोः युगपत् गमनार्थं पर्याप्तः अवकाशः तत्र न आसीत्। द्वयोः अपि पार्श्वयोः भित्तिसदृशाः शैलाः आसन्।

द्वौ अपि रथौ परस्परम् अभिमुखीकृत्य स्थितवन्तौ।

“भोः रथचालक, वयं पुरतः गन्तुम् इच्छामः। भवतः पृष्ठभागे मार्गः विशालः अस्ति। अहं प्रथमं मम रथं अग्रे नयामि। तावत्पर्यन्तं भवतः रथं पृष्ठतः चालयित्वा पार्श्वे स्थापयतु” इति द्वितीयरथस्य सारथिः उक्तवान्।

“माम् आज्ञापयितुं भवतः कः अधिकारः अस्ति? भवान् एव भवतः रथं पृष्ठतः चालयतु। तत्रापि मार्गः विशालः अस्ति” इति शान्तस्वरेण काशीराजस्य सारथिः उक्तवान्।

“मम रथे कोसलमहाराजः अस्ति” इति द्वितीयरथस्य सारथिः क्रोधेन उच्चैः उक्तवान्।

काशिराज्यं यावत् विस्तृतम् आसीत्, तावदेव कोसलराज्यम् अपि विशालम् आसीत्। वयसा, विद्यया, ज्ञानेन च कोसलराजः महिष्ठः काशीराजः च समानौ। कोसलराजः अपि वेषपरिवर्तनं कृत्वा स्वीयलोपदोषान् ज्ञातुं राजधानीतः प्रस्थाय सीमाभागपर्यन्तम् आगतवान् आसीत्।

“भवतः महाराजे अस्माकं महाराजापेक्षया गुणाधिक्यं किम् अस्ति?” इति काशीराजसारथिः पृष्टवान्।

तदा मध्यः एव कोसलराजसारथिः गीतरूपेण एवम् उक्तवान् —

“दलहं दलहस्य खिपनि मह्निको मुदुना मुदुल, साधुभिप साधुना जेति असाधुभिप असाधुना, एतादिसो अयं राजा मग्गा उय्याहि सारथि”

(अस्माकं मह्निकमहाराजः दुष्टान् प्रति दुष्टः। सज्जनान् प्रति सज्जनः। सज्जनान् प्रीत्या सम्मानयति। क्रूररूपेण दुष्टनिग्रहं करोति।

तत् वचनं श्रुत्वा काशीराजस्य सारथिः तेनैव गानरूपेण एवं रीत्या उत्तरं दत्तवान् —

“अक्कोदेन जिने कोधं असाधुं साधुना जिने, जिने कद्दरियं दानेन सच्चेन अल्हवादिनम्, एतादिसो अयं राजा मग्गा उय्याहि सारथि”

(अस्माकं महाराजः क्रोधं शान्त्या जयति। दुष्टान् अपि प्रीत्या वशंकरोति। बहुमानदानेन कृपणान् पराजयति। असत्यं सत्येन जयति।)

काशीराजस्य सारथेः वचनं श्रुत्वा, तत्क्षणे एव कोसलराजः मह्निकः त्वरया स्वीयरथात् अवतीर्य आगत्य काशीराजं प्रणम्य “महात्मन्, इदानीम् अहं मम दोषं ज्ञातवान्। तं लोपं समीकृत्य इतोऽपि अनिशयम्रूपेण धर्मेण राज्यपालनं करिष्यामि” इति उक्तवान्।

अनन्तरं काशीराजः स्वीयां राजधानीं प्रत्यागत्य, धर्मस्य सूच्यग्रमितम् अपि लोपम् अकुर्वन्, तदा तदा आत्मपरिशीलनं कुर्वन्, अवतारसमाप्तिपर्यन्तं राज्यशासनं कृतवान्।

एषः स्वयं न्यायमार्गम् अनुसरन्, अन्ये यथा न्यायमार्गात् च्युताः न भवेयुः तथा जागरूकः तिष्टति स्म। तदीये शासनकाले समग्रं भूमण्डलं सुखपूर्णम् आसीत्।

समाप्तम्

संस्कृत चन्दमामा · जनवरी १९८५ · पृ० ३२ Chandamama India Limited