असन्तुष्टिः
कस्मिंश्चित् ग्रामे केशवः नाम कश्चित् निरुद्योगी आसीत्। सः एकदा तत्रत्यधनिकस्य गृहं गत्वा उद्योगं प्रार्थितवान्। अनन्तरं प्रवृत्तेन वार्तालापेन सन्तुष्टः धनिकः — “भवान् वेतनत्वेन कति रूप्यकाणि इच्छति?” इति पृष्टवान्।
केशवः ‘भवतः इच्छा’ इति उक्तवान्। तदा धनिकः ‘तथा मास्तु। भवतः जीवनार्थं कति रूप्यकाणि आवश्यकानि इति वदतु’ इति पृष्टवान्। केशवः किञ्चिदालोच्य ‘द्विशतं रूप्यकाणि ददातु’ इत्युक्तवान्। ‘तथास्तु। श्वः प्रातः कार्यारम्भं करोतु’ इत्युक्तवान् धनिकः।
तदा केशवः असन्तुष्टः सन् “मया द्विशतं पृष्टम्। त्रिशतं प्रष्टुमपि अवकाशः आसीत्। इदानीं पुनः गत्वा प्रष्टुं न शक्यते” इति चिन्तयन् बहुधा व्याकुलितः अभवत्।
परेधुः केशवः धनिकस्य गृहं गत्वा कार्यं कर्तुम् अनुमतिं प्रार्थितवान्। तदा धनिका म्लानेन मुखेन एवम् उक्तवान् — “भोः, अन्यथा मा भावयतु। एतानि दशरूप्यकाणि स्वीकृत्य गच्छतु। यतः पूर्वं यः कर्मकरः आसीत् स एव पुनः क्षमायाचनां कृत्वा कार्यं कर्तुम् आरब्धवान्” इति।
केशवः दशरूप्यकाणि स्वीकृत्य उक्तवान् — “भोः, भवतां गृहे कार्यं नास्ति इति श्रुत्वा मम बहु सन्तोषः अभवत्।”
‘किमर्थम्’ इति आश्चर्यचकितः धनिकः पृष्टवान्।
“कारणं न वदामि। किन्तु एकं विषयं निवेदयामि। कृपया इतःपरं भवता वेतन-विषये कर्मकराः कदापि नैव प्रष्टव्याः। तेषां कार्यकुशलतां दृष्ट्वा भवान् एव तेषां वेतनं निश्चिनोतु” इति केशवः उक्तवान्।
केशवेन किमर्थं तथा उक्तम् इति धनिकः ज्ञातुं न शक्तवान्।
समाप्तम्