॥ ॐ श्री गणपतये नमः ॥

विष्णुकथा — बुद्धावतार

महामुनिः शौनकः दशावतारेषु अन्यतमस्य बुद्धावतारस्य विषये वक्तुम् आरब्धवान् — कलियुगे धर्मः क्षीणतां गतः। अधर्मः निर्बाधतया विराजते स्म। मानवतां दुष्टगुणैः पराजिता। क्रूरतायाः साम्राज्यं सर्वत्र अपि।

मानवेन इदानीं विवेकिना भवितव्यम् आसीत्। आत्मनः उद्धारार्थम् आत्मना एव प्रयतितव्यम् आपतितम्।

पूर्वयुगेषु विष्णुः यदा यदा दुष्टानां प्राबल्यं प्रवृद्धं तदा सर्वदा किमपि रूपं धृत्वा अवतरति स्म। इदानीं पुनः अवतारार्थं समयः आसीत्।

इदानीं समग्रा मानवजातिः परस्परद्वेषेण असूयया च ग्रस्ता। परस्परनाशो एव मानवानां रुचिः। यज्ञयागादीनां नाम्ना प्राणिहिंसा निर्बाधं प्रचलति स्म। मदिरामांसादीनां सेवनां कुर्वन्तः जनाः भोगविलासेषु लीनाः आसन्। एवम् अज्ञानेषु पतिताः ते स्वकीयां योग्यताम् अपि विस्मृतवन्तः। सर्वत्र मूर्खता विराजते। दुःखदारिद्र्यादयः विजृम्भन्ते!

एतत्सर्वं दृष्ट्वा खिन्नः विष्णुः चिन्तितवान् — “अवतारार्थम् एषः युक्तः समयः। परिपूर्णमानवरूपेण अहं बुद्धनाम्ना भूलोकम् अवतरामि। अज्ञानान्धकारेण कष्टम् अनुभवतां मानवानां उद्धारं करिष्यामि” इति।

नेपालराज्ये कपिलवस्तुनगरे राजा शुद्धोदनः शासनं करोति स्म। तस्य पत्नी मायादेवी। सा एकदा स्वप्ने दृष्टवती यत् पूर्णिमाचन्द्रः इव प्रकाशमानः एकः श्वेतगजः अकाशतः अवतीर्य तस्याः उदरं प्रविष्टवान् इति।

राज्ञी स्वप्नवृत्तान्तं ज्योतिषिकान् निवेदितवती। ज्योतिषिकाः उक्तवन्तः — “एतेन स्वप्नेन ज्ञायते यत् महाराज्ञ्याः गर्भतः एकः महापुरुषः जनिष्यते” इति।

नवमासेषु पूर्णेषु मायादेवी शिविकाम् आरुह्य मातृगृहं प्रस्थिता। मार्गे एव सा प्रसववेदनाम् अनुभूतवती। एकस्मिन् उद्याने शिशोः जन्म दत्तवती। तद्दिनं वैशाखपूर्णिमा आसीत्।

समग्रे राज्ये प्रसन्नता व्याप्ता। किन्तु एषा प्रसन्नता दीर्घकालं यावत् न स्थिता। यतः पुत्रजन्मानन्तरं अल्पे एव काले मायादेवी तीव्रतरम् अस्वस्था जाता। तन्निमित्ततः सा शुद्धोदनं प्रजाः च दुःखसागरे निमज्ज्य इहलोकव्यापारं समापितवती।

मातृविहीनं पुत्रं नेत्रताराम् इव परिपालयन् शुद्धोदनः पुत्रस्य नामकरणोत्सवम् आचरितवान्। बालकस्य नाम गौतमसिद्धार्थः इति निश्चितम्। सिद्धार्थः प्रतिपच्चन्द्रः इव सर्वान् आह्लादयन् दिने दिने वर्धते स्म।

एकदा ज्योतिषिकाः सिद्धार्थस्य जन्मकुण्डलीं परिशीलितवन्तः। ते उक्तवन्तः — “महाराज! राजकुमारः चक्रवर्ती भविष्यति। सर्वे राजानः नागरिकाः च एतं सश्रद्धं मानयिष्यन्ति।”

एतत् श्रुत्वा महाराजः शुद्धोदनः असीमम् आनन्दं प्राप्तवान्।

“किन्तु, राजन्! राजकुमारः एषः सन्यासी अपि भविष्यति।”

एतेन शुद्धोदनः पाताले पतितः इव भीतः। तस्य मनसि इदानीं प्रपञ्चः एव शून्यः इव भासते। सः ज्योतिषिकान् पृष्टवान् — “भवन्तः एकदा वदन्ति राजकुमारः चक्रवर्ती भविष्यति इति। पुनः कदाचित् वदन्ति सन्यासी भविष्यति इति। परस्परं विरुद्धम् एतत् कथं युज्यते?” इति।

ज्योतिषिकाः राजकुमारस्य जन्मकुण्डलीं पुनरपि सुसूक्ष्मं परिशील्य उक्तवन्तः — “महाप्रभो! राजकुमारस्य हृदयं अत्यन्तं कोमलम्। राजकुमारः रोगिणः, वृद्धान्, मृत्युवशं गतान्, सन्यासिनः च कदापि न पश्येत्। एतेषां चतुर्णां दर्शनेन राजकुमारस्य जीवने भयङ्करः उत्पातः सम्भविष्यति। यदा राजकुमारः एतानि पश्येत् तत्क्षणे एव सः परिवर्तितः भविष्यति। अतः एतद्विषये सर्वदा जागरूकता भवेत्” इति।

तद्दिनात् आरभ्य राजकुमारस्य पोषणार्थं विशेषव्यवस्था कृता। सर्वदा मनोरञ्जनकार्यक्रमाः यथा प्रचलेरन्, राजकुमारः कदापि चिन्तामग्नः यथा न भवेत् तथा व्यवस्था कृता। पुत्रस्य पोषणविषये जागरूकः सन् शुद्धोदनः सर्वं स्वयं परिशीलयति स्म।

एकदा सिद्धार्थः उद्याने आसने उपविष्टः आसीत्। तदा बाणेन ताडितः कश्चन हंसः पीडाम् अनुभवन् तस्य अङ्के पतितः। सिद्धार्थः हंसस्य शरीरे लग्नं बाणं जागरूकतया निष्कास्य पर्णरसेन व्रणं लेपयित्वा तस्य प्राणान् रक्षितवान्।

“एषः हंसः मदीयः। अहम् एव एतं स्वबाणेन मारितवान्” इति वदन् देवदत्तः सिद्धार्थस्य समीपम् आगतवान्। देवदत्तः राजकुले उत्पन्नः कश्चित्, सिद्धार्थस्य दूरबन्धुः समवयस्कः च।

“अहं हंसं रक्षितवान्। अतः हंसस्य उपरि मम एव अधिकारः” इति उक्तवान् सिद्धार्थः।

एतद्विषये सिद्धार्थदेवदत्तयोः मध्ये विवादः उत्पन्नः। निर्णयार्थम् उभौ अपि राजसभां प्रविष्टवन्तौ। तत्र धर्मशास्त्रज्ञाः ऐकमत्येन उक्तवन्तः — “सिद्धार्थः हंसस्य प्राणान् रक्षितवान्। अतः हंसस्य उपरि तस्य एव अधिकारः।”

एतत्कारणतः सिद्धार्थः देवदत्ताय सर्वदा असूयते स्म। “कदाचित् सिद्धार्थस्य अपमाननं करणीयम्” इति सः चिन्तयति स्म।

शाक्यवंशीयाः सुक्षत्रियाः। मृगयाविहारः तेषां प्रियतरं कार्यम्। किन्तु शाक्यवंशीयः अपि राजकुमारः सिद्धार्थः मृगयाविहारं न इच्छति। सः सर्वदा तद्विषये तिरस्कारं प्रदर्शयति च। अस्त्रशस्त्रप्रयोगे निपुणतां प्राप्य सः अपारं यशः प्राप्तवान् आसीत्। तथापि प्राणिनां पीडनं मारणं वा तस्मै न रोचते स्म।

सिद्धार्थः मृगयाविहारार्थं कदापि न गच्छति। मनोरञ्जककार्यक्रमेषु सोत्साहं भागं न गृह्णाति। यं कमपि प्राणिनं दुःखपीडितं दृष्ट्वा सः स्वयं दुःखम् अनुभवति। हिंसादर्शनम् अपि सः न सहते।

एतत्सर्वं दृष्ट्वा शुद्धोदनः चिन्तितवान् — “सिद्धार्थस्य धमनिषु रक्तं न, अपि तु करणारसः एव प्रवहति” इति।

एवं चिन्तयित्वा सः ‘सिद्धार्थः अन्यराजकुमाराः इव भवतु’ इति अभिलषन् बहुविधप्रयत्नान् कृतवान्। सिद्धार्थस्य मनोरञ्जनार्थम् अन्यान्यव्यवस्थाः उपकल्पितवान्। यथा सिद्धार्थः एकाकी न भवेत्, यथा वा सः गम्भीरचिन्तनार्थम् अवकाशं न प्राप्नुयात्, तथा व्यवस्थां कृतवान् शुद्धोदनः।

यदा राजकुमारः नगरं सञ्चरितुम् इच्छन् बहिः गच्छति तदा रोगिणः, वृद्धाः, सन्यासिनः, शवाः च दृष्टिपथं यथा न आगच्छेयुः तथा व्यवस्थां करोति — तदीयः रथवाहकः चेन्नः। सः एतत्सर्वं व्यवस्थाप्य एव राजकुमारं नगरं नयति स्म।

सिद्धार्थः यदा युवकः जातः तदा सत्यप्रियता, तार्किकदृष्टिः इत्यादयः तस्मिन् उदिताः। स्वर्गात् अवतीर्णः कश्चित् देवकुमारः इव सः सुन्दरः आसीत्। किन्तु मनोरञ्जकेषु, भोगविलासादिषु वा तस्य मनः न प्रवर्तते स्म। सर्वदा सः गम्भीरः एव तिष्ठति स्म। न कोपतापाः, न वा हासविनोदाः।

राजकुमारस्य व्यवहारं दृष्ट्वा शुद्धोदनः चिन्तामग्नः। सः चिन्तितवान् — “सिद्धार्थः इदानीं विवाहयोग्यः। विवाहः कृतः चेत् एषः सांसारिकविलासेषु अनुरक्तः भवेत्” इति। एवं चिन्तयित्वा सः क्षत्रियकुलोत्पन्नाः सुन्दरीः सर्वाः राजकन्यकाः राजभवनम् आगन्तुम् आमन्त्रितवान्।

राजकुमारः एतासु कयाचित् आकृष्टः भवतु इति चिन्तयन् शुद्धोदनः अन्तःपुरस्य नृत्यशालायां राजकुमारीणां नृत्यं गानं च आयोजितवान्। युवराजस्य मनः आक्रष्टुम् इच्छन्त्यः ताः स्पर्धाभावेन नृत्यं कृतव्यः, गानं गीतव्यः च।

सिद्धार्थस्य कटाक्षम् अभिलषन्त्यः ताः विविधहावभावं प्रदर्शितव्यः।

नृत्यन्तीनां गायन्तीनां च राजकुमारीणां सत्कारार्थं मौक्तिक-रत्न-सुवर्णमयानि आभरणानि पात्रेषु स्थापितानि आसन्।

सुन्दर्यः राजकुमार्यः स्वकार्यक्रमस्य समाप्तेः अनन्तरं अपाङ्गदृष्ट्या सिद्धार्थं पश्यन्त्यः पुरस्कारं प्राप्य गच्छन्ति स्म।

अन्ते सिद्धार्थः आसनात् उत्थाय गन्तुं प्रवृत्तः। तदा स्तम्भस्य पृष्ठभागे स्थिता काचित् रमणी तेन दृष्टा। तस्याः मुखे सौन्दर्यातीतः कश्चन भावः स्फुरति स्म। प्रशान्तवदने अपूर्वा कान्तिः सौजन्यता च स्फुटं प्रतिफलति स्म। सा एकस्य माण्डलिकराजस्य पुत्री। तस्याः नाम यशोधरा।

सिद्धार्थः तया आकृष्टः। सः मन्दं मन्दं तस्याः समीपं गतवान्। तस्यै दातुम् इदानीं तस्य समीपे किमपि न आसीत्। अतः सः स्वकण्ठहारं तस्याः कण्ठे समर्पितवान्।

“यशोधरायां सिद्धार्थः अनुरक्तः” इत्येषा वार्ता शुद्धोदनेन ज्ञाता। एतेन सः वहु सन्तुष्टः।

“सिद्धार्थः यशोधरां परिणेतुम् इच्छति” इति वार्तां दूतद्वारा शुद्धोदनः यशोधरायाः पितुः समीपं प्रेषितवान्।

एतत्समये देवदत्तः उक्तवान् — “यशोधरायाः विवाहार्थं स्वयंवरः व्यवस्थापनीयः। शौर्यस्य पराक्रमस्य च परीक्षार्थं स्पर्धाः तत्र भवेयुः” इति। एतदनुसारं यशोधरायाः पिता स्वयंवरं निश्चिय सर्वत्र वार्तां प्रेषितवान्।

स्वयंवरे हिंसारहिताः विविधस्पर्धाः आयोजिताः आसन्। असङ्ख्याः युवकाः स्पर्धासु भागं गृहीतवन्तः। सर्वासु स्पर्धासु सिद्धार्थः एव विजयं प्राप्तवान्।

सिद्धार्थस्य समबलः प्रतिस्पर्धी देवदत्तः एकः एव। अन्ते अश्वारोहणे बाणप्रयोगे च स्वकीयं अप्रतिमं कौशलं प्रदर्श्य,सिद्धार्थः विजयं प्राप्तवान्।

एतदनन्तरं यशोधरा-सिद्धार्थयोः विवाहः महता वैभवेन सम्पन्नः। महाराजेन शुद्धोदनेन इदानीं मानसिकी शान्तिः प्राप्ता। “पुत्रः इदानीं गृहस्थजीवने पादार्पणं कृतवान्। इतःपरं सः कौटुम्बिकजीवनेन आकृष्टः, चक्रवर्ती एव भविष्यति, न तु सन्यासी” इति चिन्तयन् सः तुष्टिं प्राप्तवान्।

यशोधरा सिद्धार्थानुरूपा पत्नी। सा सुसूक्ष्मं पत्युः मनोभावं परिशीलयन्ती तदनुगुणं व्यवहरति स्म।

‘पतिः मानवतां सर्वश्रेष्ठां मानयति’ इति सा अल्पे एव काले ज्ञातवती। एषः गुणः तस्याः अपि इष्टतमः एव। एवं परस्परम् अनुगुणं तयोः दाम्पत्यजीवनं ससन्तोषं प्रचलति स्म।

विवाहानन्तरं सिद्धार्थः अन्तःपुरात् बहिः कुत्रापि न गतवान्।

केषाञ्चित् मासानाम् अनन्तरं तयोः दम्पत्योः एकः पुत्रः जातः। तस्य नाम राहुलः इति निश्चितम्। मातापितृभ्यां पितामहेन च प्रीत्या लालितः सः दिने दिने वर्धते स्म।

एकस्मिन् दिने सिद्धार्थः नगरं द्रष्टुम् इच्छन् रथम् आरुह्य रथचालनार्थं सारथिं चेन्नम् आदिष्टवान्। चेन्नः इदानीं सङ्कटे पतितः। सः सिद्धार्थस्य सङ्कल्पदाढर्यतां सम्यक् जानाति। अतः सः युवराजस्य आदेशं निराकर्तुं न शक्तवान्।

रथः कपिलवस्तुनगरस्य राजमार्गे गच्छन् अस्ति। तदा कश्चित् वृद्धत्वकारणतः कम्पमानः दण्डस्य आधारेण गच्छन् मार्गे आगतः। तस्य परिस्थितिः दयनीया। कोऽपि तं सहानुभूतिदृष्ट्या न पश्यति। वृद्धः अकस्मात् मार्गे स्खलन् पतति चेत् कोऽपि साहाय्यं न करोति। सर्वे स्वस्वकार्यं चिन्तयन्तः गच्छन्तः सन्ति।

रथः किञ्चित् अग्रे गतः। तत्र एकः रोगी मार्गे दृष्टः। भयङ्कररोगेण पीडितः सः पतन् उत्तिष्ठन् गच्छति स्म।

एतदनन्तरं श्मशानाभिमुखं नीयमानः कश्चन शवः अपि दृष्टः।

किञ्चित्कालानन्तरं सांसारिकजीवनात् विरक्तः, मायातीतः, भिक्षाटनमग्नः कश्चन भिक्षुः दृष्टः।

एतावति काले सिद्धार्थे गूढतया विद्यमानः विरक्तिभावः अकस्मात् जागरितः।

राजकुमारः आत्मना दृष्टानां दृश्यचतुष्टयानां विषये बहुविधप्रश्नान् कृतवान्। अनिवार्यतया सारथिः सर्वेषां युक्तम् उत्तरं दत्तवान्।

सिद्धार्थस्य मनसि इदानीं महान् विचारकोलाहलः। सः सारथिम् आदिष्टवान् ‘रथः राजभवनं प्रतिनयतु’ इति। सारथिः रथं राजभवनं प्रापितवान्।

तद्दिने रात्रौ राजकुमारः निद्रां न प्राप्तवान्। बहिः विराजमानां कौमुदीं पश्यन् सः समयं यापितवान्।

यशोधरा गाढनिद्रायां निलीना। राहुलः मातरम् आलिङ्ग्य सुप्तः। मातापुत्रयोः मुखे मुग्धता प्रतीयते।

विरक्तिभावनया प्रेरितः सिद्धार्थः राजभवनं त्यक्तुं चिन्तितवान्। किन्तु एकत्र पत्नीपुत्राणां विषये व्यामोहः! अपरत्र वैराग्यम्!! मनः दृढीकृत्य सिद्धार्थः कानिचन पदानि अग्रे गतवान्। पुनः प्रत्यागतवान्। एवम् एव द्वित्रवारं प्रवृत्तम्।

अन्ते विरक्तिभावः एव प्रबलः जातः। सिद्धार्थः यशोधरायाः पादयोः उपरि एकं कुमुदपुष्पं स्थापितवान्। चरणस्पर्शपूर्वकं नमस्कृत्य राजभवनतः निर्गतवान्।

अन्तःपुरतः निर्गतः सः अश्वशालां गतवान्। ‘प्रयाणार्थम् अश्वं सज्जीकरोतु’ इति चेन्नम् आदिष्टवान्।

चेन्नः चिन्तितवान् — “राजकुमारः कौमुदीविहारं कर्तुम् इच्छति” इति।

राजकुमारः अश्वम् आरुह्य उपविष्टवान्। चेन्नः अश्वस्य खलीनं गृहीत्वा अग्रे गन्तुं प्रवृत्तः। किञ्चित्कालपूर्वं लघुवृष्टिः आगता आसीत् इति कृत्वा भूमिः आर्द्रा आसीत्। अतः अश्वस्य खुरपुटध्वनिः अपि केनापि न श्रुतः।

अश्वः इदानीं राजमार्गे गच्छन् अस्ति। अश्वस्य उपरि उपविष्टस्य सिद्धार्थस्य मनः स्थिरम्। मायाजालात् विमुक्तः सः निश्चिन्तः।

समाप्तम्

संस्कृत चन्दमामा · डिसेम्बर् १९८४ · पृ० ५१ Chandamama India Limited