॥ ॐ श्री गणपतये नमः ॥

त्रयः मान्त्रिकाः

पद्मपादः पिङ्गलाय मरुभूमिचोरैः गुहासु बन्धितान् वणिजः प्रदर्शितवान्। हसनः सैनिकैः सह गत्वा वणिजः बन्धमुक्तान् कृतवान्। अनन्तरं पिङ्गलस्य अपेक्षानुसारं पद्मपादः वृकान् व्याघ्रान् च सृष्टवान्। तद्द्वारा मरुभूमिचोराः यथा स्वसमीपम् आगच्छेयुः तथा कृतवान्।

प्राणभीत्या कम्पमानान् समीपम् आगच्छतः मरुभूमिचोरान् दृष्ट्वा हसनः उच्चैः हसितवान्। मरुभूमौ बहुकालतः चौर्येण जनान् पीडयन्तः स्थिताः एते चोराः एवं अतीवसुलभतया वशे आगच्छेयुः इति कः जानाति स्म? हसनस्य तु एतत् अनिरीक्षितम् आसीत्।

एतस्य सर्वस्य कारणं पद्मपादः एव। अतः कृतज्ञतां प्रकटयन् हसनः उक्तवान् — “पद्मपाद! भवतः सामर्थ्यम् अपूर्वम्। एतेषां दुष्टानां बन्धनार्थम् अस्माभिः बहुकालतः प्रयत्नः कृतः आसीत्। कष्टनष्टानि अनुभूतानि अपि। तथापि वयम् अस्मिन् कार्ये सफलतां न प्राप्तवन्तः। अद्य भवतः सहयोगात् एव एतत् सिद्धम्। इदानीं एषा मरुभूमिः यात्रिकाणां वणिजां च प्रवासार्थं योग्या जाता। भवतः दया अपारा। एतदर्थं वयं कृतज्ञाः” इति।

पद्मपादः हसन् उक्तवान् — “अहं तु यथाशक्ति साहाय्यं कृतवान्। मदीयं कर्तव्यंकृतवान्। इतःपरं भवता एते चोराः राज्ञः वशे अर्पणीयाः, उचितं दण्डनीयाः च। इदानीम् अहं मया सृष्टान् व्याघ्रान् वृकान् च प्रस्थानयमि। यतः तेषां कार्यम् इतःपरं किमपि नास्ति किल?” एवं वदन् सः हस्तद्वयम् उन्नीय किमपि मन्त्रम् पठितवान्। तदा व्याघ्राः वृकाः च अकस्मात् अदृश्यतां गताः। पद्मपादः स्वहस्तम् आगताः शिलाः दर्शयन् उक्तवान् — “पश्यतु, एते एव व्याघ्राः वृकाः च आसन्” इति। अनन्तरं सः ताः शिलाः दूरं क्षिप्तवान्। हसनस्य आदेशानुसारं सैनिकाः सर्वप्रथमं भैरवनाथस्य हस्तं शृङ्खलया बद्धवन्तः। अनन्तरं तदीयानाम् अनुचराणां हस्ताः अपि तैः शृङ्खलया बन्धिताः।

एतन्मध्ये पद्मपादः पिङ्गलं किञ्चिद्दूरे नीत्वा पृष्टवान् — “पिङ्गल! भवान् शीघ्रम् एव अवन्तीनगरं गन्तुम् इच्छति किल?” इति। पिङ्गलः उक्तवान् — “आम्। मदीयौ अग्रजौ मां नाविकनायकाय विक्रीतवन्तौ। अतः तौ मातरम् अपि पीडितवन्तौ इति तु निश्चितम्। इतःपूर्वम् अपि एवम् एव बहुवारं जातम्। मातुः विषये तयोः प्रीतिः वा श्रद्धा वा नास्ति एव।”

“भवान् भल्लूकेतोः मन्त्रं विस्मृतवान् इति कृत्वा एतत् सर्वं प्रवृत्तम्। पश्यतु, इदानीं तं मन्त्रम् अहम् पुनः स्मारयामि। इतःपरं कदापि न विस्मर्तव्यम्। एतेन भवतः हितं सिध्यति” इति उक्त्वा पद्मपादः पिङ्गलस्य कर्णे भल्लूकेतोः मन्त्रम् उपदिष्टवान्। तथैव कनिष्ठिकातः अङ्गुलीयकं निष्कास्य पिङ्गलस्य हस्ते समर्प्य उक्तवान् — “एतत् अङ्गुलीयकं सर्वदा जागरूकतया रक्षतु। मां द्रष्टुम् इच्छति चेत् मां स्मृत्वा अङ्गुलीयकं स्पृशतु। तदानीम् अहं प्रत्यक्षः भवामि।”

“पद्मपाद! भवतः सौजन्यम् अहं कदापि न विस्मरिष्यामि। भवतः साहाय्यतः एव अहं मातरं द्रष्टुं समर्थः भविष्यामि। भवान् अपि मया सह अवन्तीनगरम् आगच्छतु। भवन्तं दृष्ट्वा माता अतीव सन्तुष्टा भविष्यति” इति उक्तवान् पिङ्गलः।

पद्मपादः पिङ्गलं वात्सल्यदृष्ट्या पश्यन् उक्तवान् — “पिङ्गल! भवतः उपकारम् अपि अहं सर्वदा स्मरिष्यामि। भवतः साहाय्यं विना महामायं जेतुम् अहं न शक्नोमि स्म। भवतः गृहं पुनः कदाचित् आगमिष्यामि। भवतः मातुः दर्शनं करिष्यामि। इदानीं तु मम बहूनि कार्याणि सन्ति। तदर्थं मया शीघ्रम् एव प्रस्थातव्यम्। सर्वप्रथमं तु तीर्थयात्रा समापनीया। अस्तु, पुनः मिलावः” इति उक्त्वा पद्मपादः अदृश्यतां गतः।

पिङ्गलः हसनस्य समीपं गत्वा “अहं मम जन्मभूमिं गन्तुम् इच्छामि” इति उक्तवान्। एतत् श्रुत्वा आश्चर्यं प्रकटयन् हसनः पृष्टवान् — “पिङ्गल! किं वदति भवान्? अवन्तीनगरगमनं पार्श्वग्रामगमनम् इव किं सुलभं वा? अवन्तीनगरस्य एतत्प्रदेशस्य च मध्ये कियत् सुदूरम् अन्तरम् अस्ति इति भवान् जानाति किल? सहस्रयोजनानां दूरं गन्तुं कोऽपि विना सिद्धतां प्रयत्नं करोति वा? एतत्सर्वं भवता चिन्तितं किल?”

पिङ्गलः हसन् उक्तवान् — “हसन! भवान् मर्दीयां शक्तिं सामर्थ्यं च सम्यक् न जानाति। भवान् मया सह समीपे दृश्यमानायाः शिलायाः समीपम् आगच्छतु! एकम् अद्भुतं पुरुषम् अहं दर्शयामि। भवदीयाः सैनिकाः एनं दृष्ट्वा दिग्भ्रान्ताः भवेयुः। अतः किञ्चित् दूरं गच्छतवः” इति। हसनं शिलायाः समीपं नीतवान् च।

पिङ्गलः मनसि एव भल्लूकेतोः मन्त्रं पठितवान्।

तक्षणे एव भल्लूकेतुः प्रत्यक्षः भूत्वा नमस्कारं कुर्वन् उक्तवान् — “प्रभो! किं करणीयम् इति आज्ञापयतु। बहुकालतः भवान् मां न स्मृतवान्। किं भवान् मां विस्मृतवान्?”

भल्लूकेतोः भीकराकृतिं दृष्ट्वा हसनः भीतः। तस्य शरीरे कम्पः उत्पन्नः। चीत्कारं कुर्वन् सः ततः पलायितुं प्रवृत्तः। तदा पिङ्गलः तस्य हस्तं गृह्णन् मन्दहासपूर्वकम् उक्तवान् — “हसन! भीतिः मास्तु। एषः भीकराकृतिः भल्लूकेतुः मम सेवकः।”

“किम्? एषः राक्षसः भवतः सेवकः वा!” इति आश्चर्यं प्रकटयन् हसनः उक्तवान्।

“आम्” इति वदन् पिङ्गलः भल्लूकेतोः स्कन्धम् आरुह्य उपविष्टवान्। हसनम् उक्तवान् च — “हसन! अहम् इदानीं स्वदेशं गच्छन् अस्मि। बुभुक्षया पिपासया च म्रियमाणं मां भवान् रक्षितवान्। अतः अहं सर्वदा कृतज्ञः अस्मि। भवदीयम् उपकारम् अहं कदापि न विस्मरिष्यामि” इति। अनन्तरं भल्लूकेतुम् आज्ञापितवान् — “भल्लूकेतो! माम् अवन्तीनगरे मम गृहं प्रापयतु।”

भल्लूकेतुः उच्चैः हुङ्कारं कृत्वा आकाशमार्गे उड्डयनम् आरब्धवान्। समुद्रं, नदीः, पर्वतान्, अरण्यानि सर्वाणि उल्लङ्घ्य सूर्योदयसमये पिङ्गलम् अवन्तीनगरस्य तदीयगृहस्य पुरतः अवतारितवान्।

अतीव दुरवस्थाम् आपन्नं स्वकीयं गृहं दृष्ट्वा पिङ्गलः बहु खिन्नः। गृहस्य समीपे एव कृशा शक्तिहीना दुःखतप्ता च माता तेन दृष्टा। उद्गच्छत् दुःखं कथञ्चित् निगृह्य सः “अम्ब!” इति वदन् मातरम् आलिङ्गितवान्। नेत्रतः अश्रूणि प्रवहन्ति स्म।

माता एकवारम् आश्चर्यचकिता। अनन्तरम् आगतः प्रियपुत्रः पिङ्गलः एव इति ज्ञात्वा सन्तोषं प्रकटयन्ती सा उक्तवती — “पुत्र पिङ्गल! भवान् इदानीम् अपि जीवति? अहम् अतीव भाग्यशालिनी। जीवितस्य भवतः दर्शनं सर्वथा न शक्यम् इति मया चिन्तितम् आसीत्” एवं वदन्ती सा रोदनम् आरब्धवती।

पिङ्गलः मातरं सान्त्वयन् उक्तवान् — “अम्ब! इतःपरं भीतेः प्रसक्तिः एव नास्ति। इदानीम् आगतः किल? दुष्टौ तौ सहोदरौ कुत्र!” इति।

“पुत्र! तौ सज्जनं भवन्तं यत् वञ्चितवन्तौ तस्य फलम् इदानीम् अनुभवतः। राजा उभयोः अपि बन्धनं कृत्वा कारागारे स्थापितवान्।”

“तर्हि भवत्याः ईदृशी दुरवस्था किमर्थम्? अहं तु भवत्याः समीपे धनं मन्त्रस्यूतं च दत्त्वा गतवान् किल? तत्सर्वं सुरक्षितम् स्यादेव”

माता स्वकीयं दुःखं निगूहन्ती — “पुत्र! भवान् तानि वस्तूनि मम सौकर्यार्थं दत्तवान्, सत्यम्। किन्तु तेषां वस्तूनां कारणतः एव मम एषा दुर्गतिः। भवतः सहोदरयोः कारागारप्राप्तिः अपि तस्मात् एव कारणात्” इत्येवं वदन्ती पिङ्गलस्य निर्गमनानन्तरं यत् यत् प्रवृत्तं तत्सर्वं निवेदितवती।

मातुः वचनं श्रुत्वा कुपितः पिङ्गलः कम्पमानस्वरेण उक्तवान् — “अम्ब! अवन्तीराजः एवं कृतवान् वा? अस्तु, अहम् एतस्य प्रतीकारं साधयमि। मम परिवारं पीडयतः अवन्तीराजस्य कियत् धैर्यम्? मम सहोदरौ अपि बन्धितवान्? मम मन्त्रस्यूतम् अपि वशीकृतवान् किल?” इति।

अनन्तरं सः भल्लूकेतुं स्मृतवान्। भल्लूकेतुः प्रत्यक्षः भूत्वा पृष्टवान् “प्रभो! किं करणीयम् अस्ति?” इति।

“भल्लूकेतो! अवन्तीनगरस्य राजा मदीयम् अग्रजद्वयं कारागारे स्थापितवान्। अतः तौ अग्रजौ शीघ्रम् अत्र आनयतु। तथैव राज्ञः कोषागारे स्थितम् ऐश्वर्यं सर्वम् अपि आनयतु। मन्त्रस्यूतः अपि तस्य एव समीपे अस्ति। तदपि अन्विष्य आनयतु” इति आदिष्टवान् पिङ्गलः।

“यथा आज्ञापयति देवः” इति उक्त्वा भल्लूकेतुः अदृश्यतां गतः। स्वमायया राजभवनं प्रविश्य कोषागारे विद्यमानां समग्रसम्पत्तिं मन्त्रस्यूतं च स्वीकृत्य कारागारं प्रविष्टवान्।

भल्लूकेतुं दृष्ट्वा जीवदत्तः लक्षदत्तः च मूर्च्छां गतवन्तौ। भल्लूकेतुः तौ स्कन्धस्य उपरि स्थापयित्वा पिङ्गलसमीपम् आगतवान्। “एषः मन्त्रस्यूतः। एतत् च महाराजस्य ऐश्वर्यम्। एतौ च भवदीयौ अग्रजौ” इति उक्त्वा अग्रजद्वयं भूमौ स्थापितवान्, ऐश्वर्यं मन्त्रस्यूतं च अर्पितवान्।

मूर्च्छां गतौ पुत्रौ दृष्ट्वा मातुः हृदये दया उद्भूता। सा पुत्रयोः मुखस्य उपरि जलसेचनं कुर्वती उक्तवती — “रे जीवदत्त! लक्षदत्त! भवतोः एषा का दुर्गतिः? भवतोः विषये अहं सर्वदा चिन्तयन्ती आसम्। इतःपरं चिन्ता नास्ति। भवतोः अनुजः पिङ्गलः आगतः अस्ति। सः सर्वं सुव्यवस्थितं करिष्यति” इति।

तावति काले जीवदत्तः लक्षदत्तः च नेत्रम् उन्मीलितवन्तौ। पुरतः मातरं पिङ्गलं च दृष्ट्वा तयोः प्राणाः निर्गताः इव। तौ उक्तवन्तौ — “अम्ब! पिङ्गल! क्षम्यताम्। इदानीम् आवयोः विवेकः उदितः। अन्धकारमये कारागारे पूर्वकृतस्य पापस्य प्रायश्चित्तम् अनुभूतम्” इति।

अग्रजयोः मुखतः आगतां दीनवाणीं श्रुत्वा पिङ्गलस्य मनः अपि खिन्नम्। तथापि कृतककोपं प्रकटयन् सः उक्तवान् — “भवतोः अपेक्षया अधिकः दुष्टः परमद्रोही विश्वासघातुकः च अन्यः न स्यात् एव। यदि अहम् इच्छामि, तर्हि भल्लूकेतुद्वारा भवन्तौ पातालं प्रेषयितुं शक्नोमि। किन्तु ‘भवन्तौ मम सहोदरौ’ इति कृत्वा तथैव त्यजन् अस्मि” इति।

“पिङ्गल! शान्तः भवतु। इदानीं विवेकः उदितः। कृतस्य पापस्य दण्डनम् अनुभूतम्। कृपया क्षाम्यतु भवान्” इति एकस्वरेण उक्तवन्तौ जीवदत्तः लक्षदत्तः च।

अनन्तरं पिङ्गलः मन्त्रस्यूतं मातुः हस्ते अर्पयन् उक्तवान् — “अम्ब! इतःपरम् एतं स्यूतं जागरूकतया संरक्षतु। अन्यः कोऽपि एतं न स्पृशेत्। इदानीं गच्छतु, शीघ्रम् एव भोजनं सज्जीकरोतु।”

भल्लूककेतुम् आहूय उक्तवान् — “भल्लूककेतो! श्वः प्रातःकालतः पूर्वम् तत्र दूरे दृश्यमाने वृक्षाणां समूहे एकं सुन्दरं भवनं निर्मापयतु। तच्च भवनं महाराजस्य भवनस्य अपेक्षया अपि भव्यं रमणीयं च भवेत्। केनाऽपि कारणेन तत् न्यूनं न स्यात्। ज्ञातं किल?” इति।

“प्रभो! भवतः आज्ञां शिरसा वहामि। भल्लूकपर्वते निवसतां मदीयानां अनुचरणां मध्ये बहवः कुशलशिल्पिनः सन्ति। क्षणमात्रेण अहं तान् अत्र आनेतुं शक्नोमि। तान् सर्वान् आहूय इदानीम् एव कार्यस्य आरम्भं करोमि” इति उक्तवान् भल्लूककेतुः।

“रे रे, तिष्ठतु तावत्। दिने भवदीया राक्षसानुचाराः अत्र आगच्छन्ति चेत् महत् अनिष्टम् एव सम्भवेत्। भवतः गणः दृष्टः चेत् अवन्तीनगरस्य निवासी कोऽपि अत्र निवासं कर्तुं न इच्छति। भीत्या सर्वे इतः धावन्ति एव। एतत् अहं न इच्छामि। अतः दिने किमपि कार्यं न करोतु। रात्रौ एव कार्यं प्रचलतु” इति पिङ्गलः उक्तवान्।

“अस्तु, भवान् यथा इच्छति तथा एव भवतु। अहम् इदानीं भल्लूकपर्वतं गत्वा अनुचरान् सूचयामि। सन्ध्यासमये आगत्य ते कार्यस्य आरम्भं करिष्यन्ति” इति उक्त्वा भल्लूककेतुः अदृश्यतां गतः।

अनुवर्तते

संस्कृत चन्दमामा · डिसेम्बर् १९८४ · पृ० ११ Chandamama India Limited