॥ ॐ श्री गणपतये नमः ॥

विष्णुकथा — कलियुगे

शौनकादिमुनयः सूतमहर्षिं प्रार्थितवन्तः — “मुनीन्द्र! विष्णुः कृष्णस्य स्वरूपेण गोलोके निवसति इति वयं श्रुतवन्तः। एतस्य कृष्णस्य वृत्तान्तं समग्रं श्रोतुम् इच्छामः। कृपया वदतु” इति।

सूतमुनिः कृष्णकथां वक्तुम् आरब्धवान् — “सत्यलोकस्य उपरि गोलोकः अस्ति। तत्र सर्वदा नक्षत्राणि प्रकाशन्ते। कौमुदी विराजते च। तत्र विष्णुः गाढनीलवर्णसहितः सन् कृष्णः इति नाम्ना विलसति। तस्मिन् लोके पुण्या विरजानदी प्रवहति। तस्याः तीरे तुलसीवने उपविश्य कृष्णः वेणुं वादयति। वेणुवादनतः उत्पन्नः मञ्जुलध्वनिः एव राधास्वरूपेण प्रत्यक्षः अस्ति।”

प्रकृतिरूपिणी राधा पुरुषरूपः कृष्णः च सर्वदा सहैव निवसतः। राधां विना कृष्णः नास्ति। कृष्णं विना राधा न जीवति। सुदामश्च सदाकालं कृष्णस्य सेवायां निरतः अस्ति।

राधादेव्याः शरीरतः असङ्ख्याः गोपिकाः समुत्पन्नाः। विरजानदी स्त्रीवेषं धृत्वा वृन्दादेव्याः रूपेण प्रेमपूर्वकं कृष्णस्य आराधनं करोति स्म।

एकदा कृष्णः राधा च परस्परम् अनुरागबद्धौ एकान्ते उपविष्टौ। तदा कृष्णम् अन्विष्यन्ती विरजा तत्र आगता। कुपिता राधा “भवती भूलोके जन्म प्राप्नोतु” इति शापं दत्तवती। ‘एवं विरजाम् उद्दिश्य शापदानम् अनुचितम्’ इति सुदामः राधां विवेकं बोधितवान्।

कुपिता राधा सुदामम् अपि शप्तवती — “भवान् अपि राक्षसरूपेण भूलोके जन्म प्राप्नोतु” इति।

राधया शप्ता विरजा भूलोके राजकुमारी भूत्वा तुलसी, वृन्दा इति नाम प्राप्तवती।

एकदा देवेन्द्रः कैलासं गतवान्। तत्र शिवः एव रूद्रभटरूपेण द्वारपालनं करोति स्म। एतत् अजानन् इन्द्रः तस्य उपरि वज्रायुधस्य प्रयोगं कृतवान्। तदा शिवः स्वकीयं वास्तविकं रूपं धरन् तृतीयनेत्रम् उन्मीलितवान्।

तदा भीतः देवेन्द्रः शिवस्य पादयोः पतित्वा आत्मनः रक्षणं प्रार्थितवान्। तदानीं शान्तः शिवः क्रोधं संहरन्, तृतीयनेत्रतः उत्पन्नं क्रोधाग्निं समुद्रे क्षिप्तवान्। तस्मिन् एव समये राधादेव्याः शापवशात् सुदामः गोलोकतः अग्निक्षेत्रे पतितः, समुद्रे बालकरूपेण जन्म प्राप्तवान्। तेन शिरसि श्वेतः शङ्खः धृतः आसीत्।

कृष्णः सुदामः च मैत्र्या अभिन्नौ। कृष्णः स्वसहचरस्य सुदामस्य विषये अनुकम्पवान् आसीत्। अतः सः तस्मै बालकाय अभेद्यं कृष्णकवचम् अनुगृहीतवान्।

तस्मिन् काले दम्भनामकः राक्षसः पुत्रप्राप्तये समुद्रतटे घोरं तपः आचरन् आसीत्। एषः दम्भः समुद्रे प्लवमानं बालकं दृष्ट्वा सन्तुष्टः। तं बालकं गृहं नीत्वा पुत्ररूपेण पोषितवान्। सः बालकः जलन्धरनाम्ना आहूतः। तस्य अपरं नाम शङ्खचूडः इति।

तुलसी विष्णुम् एव पतिं मन्यमाना विष्णोः आराधने तत्परा तपसि लीना आसीत्। एकदा जलन्धरः तपस्यन्तीम् एतां दृष्टवान्।

जलन्धरः साक्षात् तुलसीदेव्याः पितुः धर्मध्वजस्य समीपं गत्वा स्वकीयाम् इच्छां प्रकटितवान् — “अहं तुलसीदेवीं परिणेतुम् इच्छामि” इति।

धर्मध्वजः एतत् अङ्गीकृतवान्। अल्पे एव काले तुलसीदेवी-जलन्धरयोः विवाहः सम्पन्नः। तुलसीदेवी तु जलन्धरम् एव देवं मन्यमाना भक्त्या पतिसेवां करोति स्म।

जलन्धरः तुलसीदेव्याः सौन्दर्येण आकृष्टः आसीत्, सत्यम्। किन्तु तामसगुणयुताय तस्मै तुलसीदेव्याः सात्विकगुणाः न अरोचन्त। अतः सः विवाहनन्तरं कदापि तुलसीदेवीं प्रीत्या न दृष्टवान्।

तुलसीदेवी तु सर्वदा पतिदेवं स्मरन्ती तस्य चरणचिह्नानि एव पूजयन्ती आसीत्। जलन्धरः राक्षसानां सम्राट् जातः। सः अजेयस्य कृष्णकवचस्य प्रभावेण त्रिषु लोकेषु अपि विजयं प्राप्तवान्।

एवं स्थिते, कदाचित् कलहप्रियः नारदः जलन्धरसमीपं गत्वा पार्वतीदेव्याः अनुपमसौन्दर्यस्य वर्णनं कृतवान्। शिवं युद्धार्थम् आह्वयन् उक्तवान् — “विना विरोधं पार्वतीम् मह्यम् अर्पयतु। अथवा युद्धेन भवन्तं पराजित्य अहम् एव तां नेष्यामि” इति।

एतेन कुपितः शिवः जलन्धरस्य उपरि त्रिशूलं प्रयुक्तवान्। जलन्धरस्य वक्षस्थलेन अवरुद्धः त्रिशूलः अधः पतितः।

एतत् दृष्ट्वा भीता पार्वती राधादेवीं शरणं गतवती। तदा राधादेवी पार्वतीम् उक्तवती — “जलन्धरः शिवस्य नेत्राग्निना एव समुत्पन्नः। अतः केवलं शिवेन एकेन तस्य मारणं शक्यम्। किन्तु जलन्धरेण विष्णुकवचं प्राप्तम् अस्ति। यावत् विष्णुकवचं तस्य समीपे तिष्ठति, तावत् तस्य मारणम् अशक्यम् एव। तुलसीदेव्याः पातिव्रत्यम् अपि तं रक्षति। तथापि विष्णोः मायाम् अतीतः कोऽपि विषयः नास्ति किल? अतः विष्णुम् एव शरणं गच्छतु। सः एव परिहारमार्गम् उपदिशति” इति।

पार्वत्या प्रार्थितः विष्णुः वृद्धब्राह्मणवेषं धृत्वा जलन्धरसमीपं गतवान्। तं बहुधा प्रशंसितवान् — “भवान् तु वीराग्रेसरः। एतादृशस्य भवतः कृते पुनः कवचं किमर्थम्? दुर्बलशरीराय मह्यं तत् दत्तम् चेत् अहं किञ्चित्कालं सुखं जीविष्यामि” इति।

प्रशंसया सन्तुष्टः जलन्धरः उक्तवान् — “भवतः वचनं सत्यम्। समर्थस्य मम कृष्णकवचं किमर्थम्?” इति। एवं वदन् सः ब्राह्मणाय कृष्णकवचं दत्तवान्।

एतदनन्तरं विष्णुः जलन्धररूपं धृत्वा तुलसीदेव्याः अन्तःपुरं प्रविष्टवान्। जलन्धरः तु कैलासे शिवेन सह घोरं युद्धं कुर्वन् आसीत्।

पूर्वं कदाचित् गण्डकी नाम देववेश्या भूलोकम् आगत्य विष्णुं घोरतपसा पूजितवती। प्रसन्नः विष्णुः तां वरं प्रष्टुम् उक्तवान्। तदा गण्डकी विनम्रा भूत्वा विष्णुं प्रार्थितवती — “भगवन्! यथा जनाः स्वगृहेषु रत्नादिनिधीन् गुप्तरूपेण स्थापयन्ति, तथैव अहम् अपि भवन्तम् आत्मनि गोपयितुम् इच्छामि” इति।

विष्णुः उक्तवान् — “भवती भूलोके नदीरूपेण प्रवहतु। अहं शालग्रामः भूत्वा भवत्याः अन्तः निवसामि।” इति। अनन्तरं गण्डकी नदीरूपेण भूलोकम् अवतीर्णा।

मायाप्रभावतः तुलसीदेवी आगतं विष्णुम् एव पतिं चिन्तितवती। “बहुकालात् अनन्तरम् अन्तःपुरम् आगतः” इति सा बहु सन्तुष्टा। भ्रमाधीना सा पतिरूपेण स्थितस्य विष्णोः चरणयोः प्रणामं कृतवती। तस्मिन् एव समये शिवः त्रिशूलेन जलन्धरस्य शिरश्छेदं कृतवान्। ततः उत्प्लुतं शिरः तुलस्याः हस्तं स्पृष्ट्वा भूमौ पतितम्। तदा विष्णुः स्वकीयां निजरूपं धृतवान्।

एतत् दृष्ट्वा तुलसी आश्चर्यचकिता। कोपेन सा शापं दत्तवती — “हे विष्णो! भवान् मां वञ्चितवान्। एतदपराधकारणातः भवान् शिलास्वरूपं प्राप्नोतु।”

विष्णुः मन्दहासं प्रकटयन् उक्तवान् — “अये तुलसीदेवि! भवत्याः शापम् अहं सन्तोषेण अङ्गीकरोमि। भवत्याः पतिः जलन्धरः अन्यः न, मदंशसम्भूतस्य सुदामस्य स्वरूपी एव सः। अहं कृष्णसुदामयोः रूपेण भूलोके निवसामि।”

विवाहतः पूर्वं भवती मां पतिरूपेण प्राप्तुं तपः आचरितवती आसीत्। विवाहानन्तरं पातिव्रत्यधर्मम् आचरन्ती स्त्रीणाम् आदर्शा सञ्जाता। इतःपरं भवती पातिव्रत्यद्योतकस्य तुलसीसस्यस्य रूपेण भूलोकम् अवतरिष्यति। मम अत्यन्तं प्रीतिपात्रं च भविष्यति। अहं तु शालग्रामरूपेण भवत्याः सान्निध्ये स्थास्यामि।

अनन्तरं विष्णुः शालग्रामरूपेण गण्डकीनद्याम् अवतारं कृतवान्। तुलसी सस्यरूपेण भूलोकम् अवतीर्णा।

एतदनन्तरं गण्डकीनद्यां केवलं प्राप्यमाणां शालग्रामशिलां तुलसीसस्यस्य मूले स्थापयित्वा जनाः पूजां कर्तुम् आरब्धवन्तः।

तुलसीदलानि शालग्रामम् अलङ्कुर्वन्ति स्म।

कदाचित् महर्षीणां मध्ये एका चर्चा उत्पन्ना “त्रिमूर्तिषु कः श्रेष्ठः” इति। निर्णयं कर्तुम् अशक्ताः ते एतदर्थं भृगुमहर्षिं प्रेषितवन्तः। भृगुः प्रथमं सत्यलोकं गतवान्। तत्र ब्रह्मा सरस्वत्याः वीणावादने मग्नः आसीत्। अतः सः भृगुमहर्षेः आगमनं न ज्ञातवान्।

अनन्तरं भृगुः कैलासं गतवान्। शिवः तत्र पार्वत्या सह नृत्यं कुर्वन् आसीत्। नृत्यावेगेन वशीकृतः शिवः भृगुमहर्षिम् अनादरभावेन दृष्टवान्।

द्वयोः स्थलयोः अपि अपमानितः भृगुः कोपाविष्टः जातः। भृगुमहर्षेः पादे एकं विशिष्टं नेत्रम् आसीत्। अतः सः गर्वितः अपि आसीत्। कुपितः एव सः वैकुण्ठं प्रविष्टवान्। तस्मिन् समये विष्णुः लक्ष्मीदेव्या सह शेषशय्यायां विराजमानः आसीत्। एतत् दृष्ट्वा भृगुमहर्षेः कोपः प्रज्वलितः। सः असहनीयकोपेन विष्णोः वक्षस्थले पादप्रहारं कृतवान्।

तदा विष्णुः झटिति उत्थाय महर्षिं नमस्कृतवान्। महर्षेः चरणौ स्वशिरसि स्थापयन् नम्रतापूर्वकम् उक्तवान् — “महात्मन्! भवदीयौ सुकोमलौ एतौ चरणौ मदीयस्य कठिनतमस्य आघातेन कीदृशीं पीडाम् अनुभूतवन्तौ” एवं वदन् विष्णुः भृगुमहर्षेः पादौ मृदु आमृशन् पादतले स्थितं नेत्रं अङ्गुल्या नोदितवान्। एतेन भृगोः अहङ्कारः समग्रः अपगतः। सः विष्णोः स्तुतिं कुर्वन् भूलोकं गतवान्। तत्र सर्वान् मुनीन् विष्णुमहत्त्वं बोधितवान्।

यदा लक्ष्मीः विष्णोः वक्षस्थलम् आलम्ब्य स्थितवती आसीत् तदा एव भृगुः तत्र पादेन ताडितवान् आसीत्। एतत् आपमानकरम् इति लक्ष्मीः चिन्तितवती। ‘मुनेः पादप्रहारेण विष्णुः अपवित्रः सञ्जातः’ इत्यपि सा चिन्तितवती। एवं चिन्तयन्ती सा वैकुण्ठं परित्यज्य भूलोकम् आगत्य तपसि लीना जाता।

लक्ष्मीम् अन्विष्यन् विष्णुः श्रीनिवासनाम्ना वंकुलादेव्याः आश्रमं प्राप्तवान्। वंकुलादेवी कृष्णावतारसमये यशोदा आसीत्।

पूर्वं कदाचित् गोकुले यशोदा कृष्णम् उक्तवती आसीत् — “कृष्ण! पुत्रस्य विवाहं द्रष्टुं माता सर्वदा इच्छति इति भवान् प्रायः न जानाति। मम एषा इच्छा अद्यावधि पूर्णा न जाता” इति।

तदा कृष्णः उक्तवान् “अम्ब! आगामिजन्मनि भवत्याः इच्छा सफला भविष्यति” इति।

अस्मिन् जन्मनि वंकुलादेवी श्रीनिवासं पुत्ररूपेण प्राप्य परमानन्दिता जाता। श्रीनिवासः अपि वंकुलादेवीं मातृरूपेण प्राप्य सन्तुष्टः।

एकदा श्रीनिवासः वने विहरन् आसीत्। तदा आकाशराजस्य पुत्री पद्मावती वनविहारम् इच्छन्ती, सखीभिः सह तदेव वनम् आगतवती।

तस्मिन् समये एकः मदगजः घ्रेङ्कारं कुर्वन् तत् वनं प्रविष्टवान्। राजकुमार्याः सख्यः भीताः सुदूरं धावितवत्यः। अस्मिन् कोलाहले राजकुमारी पद्मावती धावन्ती आगत्य श्रीनिवासस्य समीपे स्खलित्वा पतितवती।

श्रीनिवासः गजस्य आक्रमणं निरुन्धन् गजपद्मावत्योः मध्ये स्थितवान्। तदा मदगजः तत्रैव स्थित्वा शुण्डाम् उन्नीय श्रीनिवासं नमस्कृतवान्। श्रीनिवासः स्वहस्तसाहाय्यं यच्छन् पद्मावतीम् उत्थापितवान्।

पद्मावती वेदवतीनाम्ना पूर्वजन्मनि विष्णुम् पतिरूपेण प्राप्तुं तपः आचरन्ती आसीत्। रावणस्पर्शात् प्रक्षुब्धा सा योगाग्निं प्रज्वाल्य आत्मानम् आहुतिं दत्तवती आसीत्। अस्मिन् जन्मनि तया आकाशराजस्य पुत्रीभूय पद्मावतीनाम्ना जन्म प्राप्तम्।

पद्मावती-श्रीनिवासयोः मध्ये परस्परानुरागः समुत्पन्नः। एतं विषयं ज्ञात्वा वंकुलादेवी अरुन्धतीसहितैः सप्तर्षिभिः सह आकाशराजस्य प्रासादं गतवती। पद्मावती-श्रीनिवासयोः विवाहस्य प्रस्तावं कृतवती।

इतःपूर्वम् एव श्रीनिवासः भविष्यत्कथकस्य वेषं धृत्वा पद्मावतीसमीपं गत्वा उक्तवान् आसीत् — ‘भवती यं परिणेतुम् इच्छति, तेन सह भवत्याः विवाहः निश्चयेन भविष्यति’ इति।

पद्मावतीश्रीनिवासयोः विवाहः सवैभवं सम्पन्नः। ‘श्रीनिवासः पद्मावतीं परिणीतवान्’ इत्येतां वार्तां नारदः तपसि निरतां लक्ष्मीं निवेदितवान्। एतेन कुपिता लक्ष्मीः आश्रमं प्रस्थितवती।

आगच्छन्तीं लक्ष्मीं दूरतः एव दृष्ट्वा श्रीनिवासः पद्मावतीं तत्र एव त्यक्त्वा सप्तशिखरोपेतं शेषाद्रिम् आरूढवान्। सप्तमं शिखरं प्राप्य लक्ष्म्याः आगमनं प्रतीक्षमाणः तत्र स्थितवान्।

लक्ष्म्याः आगमनसमनन्तरम् एव श्रीनिवासः मन्दहासं प्रकटयन् श्यामशिलारूपेण परिवृत्तः। तस्य विग्रहस्य कण्ठे दिव्या तुलसीदलमाला विराजते स्म। अस्यां मूर्तौ विष्णोः शिवस्य शक्त्याः च अंशाः एकीभूताः। लक्ष्मीः विग्रहस्य वक्षस्थले अन्तर्हिता जाता। अनेकानि दिव्यरूपाणि अपि तत्र समाविष्टानि।

भक्तानाम् अभीष्टं पूरयन् अपेक्षितरूपेण दर्शनं यच्छन् एषः श्रीनिवासः वेङ्कटरमणः वेङ्कटेश्वरः इत्यादिनामभिः अपि ख्यातः। एवं प्रकारेण विष्णुः सप्तगिरेः अधिदेवतारूपेण तत्र स्थापितः अभवत्।

पद्मावती सप्तगिरेः समीपे एव आलमेलु मङ्गम्मा, नाम्ना विराजमाना वर्तते। लक्ष्मीः यत्र पूर्वं तपः आचरितवती आसीत्, तत्र एव महालक्ष्मीनाम्ना निवासं कृतवती।

भक्तानाम् आपदः क्षणमात्रेण निवारयन्, सम्पदः वर्धयन्, स्मृते सति सद्यः एव प्रत्यक्षीभवन्, वेङ्कटेश्वरनाम्ना विष्णुः शेषाद्रिशिखरे निवसति। “कलियुगस्य देवता” इति जनाः एतं मानयन्ति।

समाप्तम्

संस्कृत चन्दमामा · नवेम्बर् १९८४ · पृ० ५१ Chandamama India Limited