वाणिज्यरहस्यम्
एकस्मित् ग्रामे भूषणः नाम एकः वणिक् आसीत्। राहुलः तस्य स्नेहितः। एकदा भूषणस्य वाणिज्यार्थं धनस्य अतीव आवश्यकता अभवत्। अतः सः स्वीयं अश्वशकटं विक्रीतवान्। राहुलः तं शकटं गृहीत्वा शतंरूप्यकाणि दत्तवान्। किन्तु शकटस्य मूल्यम् अतीव न्यूनं जातम् इति भूषणस्य मनसि सन्देहः जातः। अतः सः एकसप्ताहतः पूर्वमेव द्विशतंरूप्यकाणि दत्त्वा तं शकटं पुनः स्वयमेव क्रीतवान्।
किञ्चित्कालानन्तरं राहुलः अवश्यकायर्थं नगरं गन्तुं निश्चिन्तवान्। तदर्थं सः त्रिशतं रूप्यकाणि दत्त्वा शकटं पुनः क्रीतवान्।
एवंरीत्या तस्य अश्वशकटस्य तयोः मध्ये एव पुनः पुनः क्रयणं विक्रयणं च भवति स्म। यदा तस्य मूल्यम् अष्टशतरूप्यकाणि आसीत् तदा अन्यग्रामस्य कश्चित् वणिक् तत्र आगत्य सहस्ररूप्यकाणि दत्त्वा भूषणस्य हस्ततः शकटं प्राप्य स्वग्रामं गतवान्।
एतां वार्तां ज्ञात्वा राहुलः भूषणस्य समीपम् आगत्य “रे भूषण! भवान् महान् अज्ञः। वाणिज्यव्यवहस्तुं भवान् न जानाति। अश्वशकटेन भवतः मम च तदा तदा धनलाभः भवति स्म। तादृशं शकटं दत्त्वा भवान् नूनं मूर्खः जातः” इति भर्त्सितवन्।
समाप्तम्