त्रयः मान्त्रिकाः
हसनगोरिः पिङ्गलेन सह दुर्गं प्राप्तवान्। द्वारम् उद्घाटयितुं तैः प्रयत्नः कृतः। तदानीं मरुभूमिचोरैः स्थापितं विस्फोटकं स्फुटितम्। तेन केचन ब्रणिताः, केचन मृताः च। अनन्तरं भैरवपक्षीयैः सह भीकरयुद्धं प्रवृत्तम्। तत्र अकस्मात् पद्मपादः दृष्टः।
‘पद्मपादस्य पुनर्मिलनं भवेत्’ इति पिङ्गलः कदापि न चिन्तितवान् आसीत्। अवन्तीनगरतः सहस्रयोजनदूरे कुत्रापि मरुभूमौ पर्वतमध्ये मिलनं भवति इति कः वा जानाति स्म?
पिङ्गलस्य मनसि कश्चन संशयः समुत्पन्नः — “एषः पद्मपादः एव वा? अथवा पद्मपादवेषेण आगतः कश्चित् वञ्चकः स्यात् वा?” इति। अतः सः हसनगोरिं अर्थगर्भया दृष्ट्या दृष्टवान्। हसनस्य मुखे अपि संशयः दृश्यते स्म।
सः पिङ्गलं समीपे आकृष्य तस्य कर्णे उक्तवान् — “पिङ्गल! एषः पद्मपादः कः? भैरवपक्षीयः कोऽपि न स्यात् किल?” इति।
अकस्मात् आगतेन पद्मपादस्य प्रश्नेन पिङ्गलः किञ्चित् सम्भ्रन्तः इव। तस्य स्थितिं दृष्ट्वा मन्दहासं प्रकटयन् पद्मपादः उक्तवान् — “पिङ्गल! किं, मम विषये भवतः संशयः उत्पन्नः वा?”
“किम् उत्तरं दातव्यम्?” इति पिङ्गलः न ज्ञातवान्। सः मौनेन तिष्ठन्, हसनस्य मुखं दृष्टवान्। हसनः परिस्थितिं किञ्चित् अनुकूलां कर्तुम् इच्छन् — “महाशय! भवान् कः इति अहं स्पष्टं न जानामि। किन्तु…” इति वदन् वाक्यम् अर्घे स्थागितवान्। हसनगोरिवचनं श्रुत्वा पद्मपादः उच्चैः हसितवान्।
अनन्तरं पिङ्गलस्य समीपं गत्वा तस्य स्कन्धस्य उपरि हस्तं स्थापयन् सः उक्तवान् — “पिङ्गल! मां पर्वतेषु निलीनं चोरनायकं न भावयन्ति भवन्तः — इति अहं चिन्तयामि। अवकाशे प्राप्ते मदीयं समग्रं वृत्तान्तं निवेदयिष्यामि। भवतः साहाय्येन अहं मम जीवनस्य लक्ष्यं साधितवान्। एतद्विषये अहं तृप्तः। वस्तुतः जीवनम् एव एकं नाटकम्।”
सूत्रधारस्य भगवतः इच्छानुसारं वयं अभिनयं कुर्मः। जीवने सर्वे साफल्यं प्राप्नुवन्ति इत्यपि वक्तुं न शक्यते। एतद्दृष्ट्या वयं भाग्यवन्तः। मरुभूमौ मां दृष्ट्वा भवान् चकितः किल? मद्विषये संशयः अपि उत्पन्नः भवेत् एव इति।
“न, पद्मपाद! एवं किमपि नास्ति” इति पद्मपादं वदन् पिङ्गलः हसनं प्रदर्शितवान् — “एषः राजपक्षीयः, उष्ट्रदलनायकः हसनगोरिः। भैरवनाथनामकं मरुभूमिचोरम् अन्विष्यन् एषः मरुभूमौ सञ्चारं कुर्वन् अस्ति।”
एतत् श्रुत्वा पद्मपादः हसनगोरिम् उक्तवान् — “महाशय! भवान् मरुभूमिराजस्य अधिकारी चेत् भवता इदानीम् एकं कार्यं त्वरया करणीयम्। पुरतः दृश्यमानासु गुहासु केचन वणिजः बन्धने सन्ति। एते इदानीम् एव विमोचनीयाः। दुष्टः भैरवनाथः एतान् लुण्ठयित्वा बद्ध्वा च गुहासु क्षिप्तवान्। असहायानाम् एतेषां धनादिकं तु गतम् एव। प्राणाः अपि अपाये सन्ति” इति।
इदानीम् अपि हसनगोरिः पद्मपादविषये संशयितः एव। एतत् ज्ञात्वा पिङ्गलः उक्तवान् — “हसनमहोदय! पद्मपादः मया सह भवतु। एतेन सह अहं वार्तालापं कर्तुम् इच्छामि। यदि एषः एव भैरवः, तर्हि अहम् एतं बन्धयित्वा भवतः वशे अर्पयामि। अतः भवान् निश्शङ्कं गच्छतु” इति।
पिङ्गलस्य वचनेन हसनस्य मनसि विद्यमानः संशयः निर्गतः। अनन्तरं हसनः कैश्चित् सैनिकैः सह पद्मपादेन प्रदर्शितम् दिशम् उद्दिश्य गतवान्।
“पिङ्गल! अपरिचितायाम् अस्यां मरुभूमौ भवतः मिलनं तु अनिरीक्षितम् व मम। अवन्तीनगरं त्यक्त्वा कथम् एतावद् दूरम् आगतवान्?” इति पृष्टवान् पद्मपादः।
“पद्मपाद! मम कथा तु विलक्षणा। भवता दत्तः मन्त्रस्यूतः धनसम्पत्तिः इत्यादयः सर्वे अपि नष्टाः। अत्र मूलकारणं मदीयौ दुष्टसहोदरौ! भवतः गृहतः प्रस्थितः अहं यत् यत् कष्टम् अनुभूतवान् तत्सर्वं वक्तुं महान् समयः अपेक्षितः। तत्सर्वं कालान्तरे कथयिष्यामि। भवान् किमर्थम् अत्र आगतः? कश्चित् मान्त्रिकं जेतुम् आगतः चेत् तत्कार्ये मया अवश्यं सहकारः दीयते। भवतः कृते साहाय्यं मम प्रथमकर्तव्यम् इति अहं भावयामि” इति उक्तवान् पिङ्गलः।
पिङ्गलस्य वचनेन पद्मपादः बहु सन्तुष्टः। किन्तु पिङ्गलेन प्राप्तां दुरवस्थां श्रुत्वा बहु खिन्नः अपि। मन्त्रस्यूतः धनसम्पत्तिः इत्यादिकं सर्वम् अपि नष्टम् इति ज्ञात्वा सः व्यथाम् अनुभूतवान्। भल्लूकपर्वते महामायं जेतुं पिङ्गलेन यत् साहाय्यं कृतम् आसीत् तत् कथं वा विस्मरेत् पद्मपादः?
“पिङ्गल! अहम् अत्र न कश्चिदपि मान्त्रिकं जेतुम् आगतवान्। महामायगुहातः मया याः शक्तयः प्राप्ताः, ताः यावत् मम समीपे तिष्ठन्ति तावत् मम कुतः अपि भीतिः नास्ति। लक्ष्यप्राप्तेः अनन्तरं मानवः सामान्यतः अन्तर्मुखः भविष्यति। केचन विलासे मग्नाः भवेयुः नाम। वस्तुतः ये विलासे मग्नाः भवन्ति ते वास्तविकं सुखं प्राप्तुं न शक्नुवन्ति। अतः एव अहं वास्तविकं सुखम् आत्मसन्तोषं च प्राप्तुम् देशाटनार्थं प्रस्थितः। तत्र तत्र तीर्थक्षेत्राणि पश्यन् देवदर्शनं कुर्वन् सञ्चारं कृतवान्। इदानीं तु सामान्यस्य यात्रिकस्य वेषं धृत्वा वणिग्भिः सह अटन् एतत्प्रदेशम् आगतवान्। अद्य सायङ्काले एव लुण्ठकानाम् एकं दलम् अस्माकम् उपरि आक्रमणम् अकरोत्। धनकनकादीनि वशीकृत्य, वणिजः सर्वे पुरतः दृश्यमानायां गुहायां स्थापिताः तैः। तेषु केचन अवन्तीनगरीयाः अपि सन्ति। प्रायः भवतः परिचितः अपि कश्चित् स्यात्” इति।
तदा आश्चर्यं प्रकटयन् पिङ्गलः उक्तवान् — “पद्मपाद! भवान् तु महामान्त्रिकः। यदा दुष्टाः लुण्ठाकाः वणिजाम् उपरि आक्रमणं कृतवन्तः तदा भवान् किमर्थं तूष्णीं स्थितवान्? भवान् तु तान् सर्वान् एकस्मिन् एव क्षणे पराजेतुं शक्नोति स्म। तान् मारयितुम् अपि शक्नोति स्म किल? भवनः वशे विद्यामानाः शक्तयः केनापि कारणेन नष्टाः तु न किल? तत्रापि महामायतः वशीकृतानि वस्तूनि भवतः समीपे एव सन्ति किल?” इति।
पिङ्गलस्य वचनं श्रुत्वा मन्दहासं प्रकटयन् पद्मपादः उक्तवान् — “पिङ्गलः! अहं यदा वणिक्समूहेन सह प्रस्थितः तदा “अहम् एकः सामान्यः यात्रिकः” इति मम परिचयम् उक्तवान् आसम्। अहं मां मान्त्रिकं वदेयं तर्हि ते स्वैः सह मां न नयन्ति स्म। अतः एव तान् लुण्ठाकेषु पीडयत्सु, अहं आत्मानं गोपयितुम् इच्छन् मन्त्रतन्त्रप्रयोगं न कृतवान्। शिलासु निलीय स्थितवान् च। यद्यपि तस्मिन् समये मम मनसि व्यथा उद्भवति स्म। तथापि अहं यथाकथञ्चित् मनः निगृह्य तूष्णीं स्थितवान्।”
“पद्मपाद! भवतः व्यवहारः विचित्रः इव भाति। भवतः समीपे अद्भुतशक्तिशालि अङ्गुलीयकम्, खड्गः इत्यादयः सन्ति एव। एतेषु यस्य कस्यापि एकस्य साहाय्येन भवान् सर्वाणि तीर्थानि गृहे उपविश्य एव द्रष्टुं शक्नोति स्म। एवं स्थिते, सामान्ययात्रिकः भूत्वा अन्यवाणिग्भिः सह अटता किमर्थं कष्टम् अनुभोक्तव्यम् आसीत्? विना प्रयत्नेन इष्टं साधयितुं शक्ये सति, किमर्थं वा एतादृशः प्रयासः? वृथा भवान् शारीरिकीं मानसिकीं च पीडाम् अनुभूतवान्। मध्ये मध्ये एतादृश्यः पीडाः अपि पुनः आगच्छन्ति! अतः भवतः प्रयासः केन उद्देशेन, इति तु मया न ज्ञातम् एव। कीदृशम् एतत् भवतः विलक्षणं वैराग्यम्!” इति उक्तवान् पिङ्गलः।
‘रे पिङ्गलः! इदानीम् अपि भवान् मां लुण्ठाकनायकं भैरवनाथम् एव चिन्तयन् अस्ति इति भाति’ इति वदन् पद्मपादः मन्दहासं प्रकटितवान्। पुनः उक्तवान् च — “सर्वदेशेषु भ्रमणं कृत्वा पुण्यतीर्थानि सेवितानि चेत् एव पुण्यफलानि लप्स्यन्ते। अतः मया सामान्ययात्रिकेण भूत्वा भ्रमणं कृतम्। अद्भुतशक्तिसाहाय्येन प्रवासं करोमि चेत्, अथवा गृहे एव उपविश्य सर्वाणि तीर्थानि पश्यामि चेत् किं वा प्रयोजनम्? पुण्यफलं तु न लभ्यते एव। प्रपञ्चजाताः वयं सर्वे समानाः इति भावना सर्वदा भवेत्। अहम् एकः उत्तमः इति भावना यदा उत्पद्यते तदा अधःपतनं निश्चितम्। एषा नीतिः भवता अपि ज्ञातव्या, सर्वदा अनुस्मरणीया च।”
तयोः वार्तालापः एवम् एव प्रचलन् आसीत्। तदा हसनगोरिसैनिकानां कोलाहलः, वणिजां करुणक्रन्दनं च श्रुतम्। क्रमशः वर्धमानः एषः ध्वनिः सर्वत्र प्रतिध्वनितः। पिङ्गलः पद्मपादः च वार्तालापं स्थगयित्वा तस्यां दिशि स्वदृष्टिं प्रसारितवन्तौ।
तस्मिन् समये एकः सैनिकः धावन् आगतवान्। पिङ्गलसमीपम् आगत्य सः उक्तवान् — “भैरवनाथस्य अन्वेषणे हसनः भवतोः साहाय्यम् इच्छति” इति।
पिङ्गलः दैन्यं प्रकटयन् पद्मपादम् उक्तवान् — “पद्मपाद! अस्यां मरुभूमौ अन्नपानीयैः विना म्रियमाणं माम् एषः हसनः रक्षितवान्। एतादृशस्य साहाय्यं न करोमि चेत् अहं दोषी भवेयम्।”
अस्मिन् अन्धकारे मरुभूमिचोराणां ग्रहणं मनुष्यमात्रेण न शक्यम्। एते मरुभूमिचोराः, तेषां नायकः भैरवनाथः च निर्दयाः। समीपस्थे एकस्मिन् दुर्गे विद्यमानान् शताधिकान् सैनिकान् मारयित्वा, अस्मान् अपि नाशयितुम् ते एकं कुतन्त्रं कृतवन्तः आसन्। एतादृशानां बन्धनार्थं भवान् यदि अद्भुतशक्तीनां प्रयोगं करोति तर्हि वयं सर्वे उपकृताः भवेम। एनेन अस्मिन् प्रदेशे सञ्चरन्तः यात्रिकाः वणिजः च चोरभीतितः मुक्ताः भविष्यन्ति। भवतः उपकारं ते कदापि न विस्मरिष्यन्ति। एतस्य राज्यस्य महाराजः अपि निश्चयेन सन्तुष्टः भविष्यति।
“पिङ्गल! भवदीयां प्रार्थनां कथं वा निराकरोमि? किन्तु एका एव आपत्तिः यत् वणिजः सर्वे ‘अहं मान्त्रिकः’ इति विषयं ज्ञास्यन्ति। अनन्तरम् अहं तैः सह स्थातुम् अशक्तः भविष्यामि। तथापि चिन्ता मास्तु। तीर्थक्षेत्राणां दर्शनार्थं बहवः मार्गाः सन्ति” इति उक्त्वा पद्मपादः एकां शिलां हस्तेन स्वीकृतवान्। छुरिकया तां शिलां खण्डशः कर्तुम् आरब्धवान्।
पद्मपादस्य एतां चेष्टां दृष्ट्वा पिङ्गलः आश्चर्यचकितः। सः पद्मपादस्य स्कन्धं कम्पयन् उक्तवान् — “पद्मपाद्! भवान् किं कुर्वन् अस्ति? मरुभूमिचोराः त्वरितगत्या पलायमानाः सन्ति। भवान् तु शिलाछेदनं करोति! कृपया चोराणां ग्रहणे कमपि उपायं चिन्तयतु।”
पद्मपादः मन्दहासं प्रकटयन् शिलाखण्डान् हस्ते गृहीत्वा पिङ्गलाय दर्शयन् उक्तवान् — “अस्मिन् अन्धकारे तेषां चोराणां ग्रहणं मानवमात्रेण न शक्यम् इति भवता एव उक्तम्। एतादृशपरिस्थितौ मया मन्त्रस्य तन्त्रस्य वा साहाय्यं स्वीकरणीयम् एव किल! चोराः यथा अस्माकं समीपम् आगच्छेयुः तथा कर्तुम् अहं वृकानां व्याघ्राणां च सृष्टिं कुर्वन् अस्मि। ते तु रात्रौ अपि द्रष्टुं शक्नुवन्ति! अत्र पश्यतु। हस्ते ये बृहत्खण्डाः सन्ति ते व्याघ्राः। लघुखण्डाः ये सन्ति ते वृकाः। मम मन्त्रप्रभावेण एते एव शिलाखण्डाः वृकव्याघ्ररूपेण सजीवाः भवन्ति। निमेषमात्रेण एव लुण्ठाकान् अत्र आनयन्ति। अतः इतःपरं लुण्ठाकानां ग्रहणविषये चिन्तां न करोतु” इति। एवम् उक्त्वा तान् शिलाखण्डान् चतसृषु दिशासु क्षिप्तवान्।
पश्यति पिब्रले, शिलानां मध्यतः भयङ्करगर्जनं कुर्वन्तः व्याघ्राः वृकाः च समुद्भूताः। कूर्दन्तः ते सर्वत्र व्याप्ताः।
एतत् अद्भुतं दृश्यं दृष्ट्वा पिब्रलः स्तम्भीभूतः। हसनगोरिणा मोचिताः वणिजः व्याघ्रान् वृकान् च दृष्ट्वा भीत्या धावन्तः, एतयोः समीपम् आगतवन्तः। हसनः अपि स्वसैनिकैः सह तत्र आगतवान्।
वणिजः तु चिन्तितवन्तः आसन् — “महभूमिचोराणां बन्धने स्थितानाम् अस्माकं मोक्षः नास्ति एव। चोराणां हस्तैः एव अस्माकं मरणं इति तु निश्चितम्। भैरवनाथं पराजित्य अस्मान् मोचयितुं कः वा अत्र आगच्छेत्? इतःपरं जन्मनि कदापि वयं पत्नीपुत्रादीन् द्रष्टुं न शक्नुमः। ‘पुण्यं सम्पादनीयम्’ इति वयं तीर्थयात्रार्थं प्रस्थिताः। किन्तु दौर्भाग्यवशात् एषा दुर्गतिः प्राप्ता। दैवम् एव विपरीतं चेत् केन किं वा कर्तुं शक्यते?” इति। किन्तु अकस्मात् प्राप्तं मोक्षं दृष्ट्वा ते सर्वे सन्तुष्टाः।
हसनः आश्चर्यं प्रकटयन् उक्तवान् — “पिब्रल! कीदृशम् आश्चर्यम् एतत्! अस्मिन् प्रदेशे बहुकालतः निवसन् अहं कदापि एकम् अपि व्याघ्रं न दृष्टवान्। अद्य एते व्याघ्राः वृकाः च कथम् आगताः? अस्यां मरुभूमौ मानवाः एव जीवितुं कष्टम् अनुभवन्ति। एवं स्थिते एते व्याघ्राः वृकाः च कथम् एवं पुष्टाः वर्धिताः? एतावत्या सङ्ख्यया एते कथम् अत्र सम्मिलिताः? किम् आश्चर्यम् एतत्! मम मनसि तु किमपि न स्फुरति” इति एवं वदन् हसनः तदेकदृष्ट्या पिब्रलं दृष्टवान्।
पिब्रलः पद्मपादं पृष्टवान् — “पद्मपाद! इतःपरं विषयगोपनेन किमपि प्रयोजनं नास्ति। अतः सत्यं सर्वान् प्रति वदामि वा? एतेन भवतः किमपि कष्टं नास्ति किल?” इति।
पद्मपादः शिरश्चालनपूर्वकम् अनुमतिं सूचितवान्। अनन्तरं महामायपतः वशीकृतम् अङ्गुलीयकं निष्कास्य उन्नतशिलायाः उपरि स्थापितवान्। तदानीम् अङ्गुलीयकस्य तीक्ष्णप्रकाशतः समग्रः प्रदेशः व्याप्तः।
पिब्रलः तत्र सम्मिलितान् सर्वान् उद्दिश्य सङ्क्षेपेण पद्मपादस्य परिचयम् उक्तवान्।
अनन्तरं हसनम् उद्दिश्य उक्तवान् — “हसनमहोदय! इतःपरं भैरवनाथग्रहणविषये चिन्तां न करोतु। पद्मपादेन सृष्टाः व्याघ्राः वृकाः च अल्पे एव काले भैरवनाथं तदनुचरान् च अत्र आनयन्ति।”
पिब्रलस्य वचनं यावत् न समाप्तं तावति काले एव पर्वतस्य कन्दरेषु कोलाहलध्वनिः उत्पन्नः। तेनैव सह व्याघ्राणां वृकानां च गर्जनध्वनिः अपि श्रुतः।
क्रूरप्राणिनां आक्रमणतः आत्मानं रक्षयन्तः मरुभूमिचोराः इतस्ततः धावितुम् आरब्धवन्तः। किन्तु परितः व्याघ्राः वृकाः च आगच्छन्तः सन्ति। अतः भीताः ते अन्यमार्गम् अप्राप्य, आक्रोशनं कुर्वन्तः, पद्मपादः पिब्रलः च यत्र स्थितवन्तौ, ताम् एव दिशम् अनुसृतवन्तः।
अनुवर्तते