॥ ॐ श्री गणपतये नमः ॥

अङ्गरक्षकः

चन्दनपुरस्य महाराजस्य एकः अङ्गरक्षकः आवश्यकः आसीत्। एतत् पदम् अपेक्षमाणाः बहवः आगतवन्तः। तेषु चत्वारः उत्तमत्वेन परिगणिताः। चत्वारः अपि पराक्रमेण समानाः। मन्त्री तु एतेषु अन्यतमं कार्यदक्षम् स्वीकर्तुम् इच्छति स्म।

अतः मन्त्री एकां लघुपरीक्षाम् आयोजितवान्। सः उक्तवान् — “भवन्तः चिन्तयन्तु — राजा कदाचित् परिवारेण सह मृगयार्थम् अरण्यं गच्छति। अटनेन श्रान्तः सः वृक्षस्य छायायाम् विश्रान्तिम् अनुभवति। तदा भवत्सु एकः तत्र अङ्गरक्षकरूपेण अस्ति। तदानीम् एकः व्याघ्रः महाराजस्य उपरि आक्रमणं करोति। एतस्यां परिस्थितौ भवन्तः किं कुर्वन्ति?”

एकः उक्तवान् — “अहं भयङ्करं गर्जनं कुर्वन् व्याघ्रं मारयामि” इति। द्वितीयः उक्तवान् — “अहं खड्गं स्वीकृत्य, व्याघ्रस्य पृष्ठतः गत्वा आक्रमणं करोमि।” तृतीयः उक्तवान् — “अहं व्याघ्रस्य महाराजस्य च मध्ये स्थित्वा अल्पे एव काले व्याघ्रं मारयामि।”

चतुर्थः मन्त्रिणः प्रश्नं श्रुत्वा हसन् उक्तवान् — “मयि विद्यमाने, व्याघ्रः महाराजस्य उपरि आक्रमणं कर्तुं न शक्नोति। अहं सर्वदा जागरूकः भूत्वा सर्वत्र पश्यन् भवामि किल?” इति।

मन्त्री चतुर्थम् एव युवकम् अङ्गरक्षकत्वेन स्वीकृतवान्।

समाप्तम्

संस्कृत चन्दमामा · नवेम्बर् १९८४ · पृ० २६ Chandamama India Limited