॥ ॐ श्री गणपतये नमः ॥

विष्णुकथा — भगवद्गीता

श्रीकृष्णः अर्जुनस्य रथं युद्धभूमिं नीत्वा द्वयोः सेनयोः मध्ये स्थापितवान्।

अर्जुनः एकवारं शत्रुसेनाम् अवलोकितवान्। युद्धार्थं पितामहाः, पितृतुल्याः गुरुजनाः पूज्याः आचार्याः, बान्धवाः मित्राणि च सज्जीभूय उपस्थिताः सन्ति। एतान् सर्वान् दृष्ट्वा अर्जुनस्य मनः शिथिलम् अभवत्। सः चिन्तितवान् “राज्यार्थं किम् अहं प्रियजनानां वधं करोमि? बान्धवानां रक्तैः लिप्तं राज्यं स्वीकृतं चेत् निश्चयेन नरकप्राप्तिः भविष्यति। एतादृशं राज्यं मम मास्तु। अहं राज्यार्थं कदापि युद्धं न करिष्यामि” इति।

एवं चिन्तयन् अर्जुनः रथे उपविष्टवान्। हस्ततः धनुर्बाणादीनि पतितानि। तस्य मनः किङ्कर्तव्यतामूढतां गतम्।

अकाले आपतिताम् अर्जुनस्य दुरवस्थां दृष्ट्वा श्रीकृष्णः उक्तवान् — “हे अर्जुन! युद्धक्षेत्रे अविवेकेन शस्त्रत्यागः, क्षत्रियकुलोत्पन्नस्य भवतः न उचितः। देशकालानुसारं स्वकर्तव्यपालनम् एव युक्तः धर्मः।”

वस्तुतः परमेश्वरः एव अद्वितीयः जगतः कर्ता। मनुष्याः केवलं निमित्तभूताः। अधर्मान्यायादीनां दूरीकरणपूर्वकं धर्मन्याययोः स्थापने मनुष्यः भगवतः साधनमात्रम्।

लोके यदा यदा दुष्टाः प्रबलाः भवन्ति, यदा च सत्यस्य धर्मस्य च हानिः सम्भवति, तदा तदा दुष्टानां नाशनार्थं धर्मसंस्थापनार्थं च नारायणः प्रत्येकयुगे युगानुगुणम् अवतारं करोति। भगवतः अवताररूपेण स्थितं मां स्मरतु। मां शरणं गच्छतु। मम आदेशम् अनुसरतु।

भवान् श्रद्धया भवतः कर्तव्यम् आचरतु। फलविषये मा चिन्तयतु। उत्तमक्षत्रियेण यत् करणीयं तदेव करोतु भवान्। गाण्डीवं धनुः गृहीत्वा पुनरपि युद्धार्थं सिद्धः भवतु इति।

एतादृशम् उपदेशं श्रुत्वा अपि “कृष्णः एव नारायणस्य अवतारभूतः” इत्येतस्मिन् विषये अर्जुनस्य सन्देहः एव आसीत्। कृष्णः अर्जुनस्य सन्देहं समूलं निवारयितुम् इच्छन् स्वकीयं विश्वरूपं धृतवान्।

भगवतः विश्वरूपे अन्तर्गतं सृष्टि-स्थिति-लयादिकं सर्वम् युगपत् एव दृष्टवान् अर्जुनः। जगतः सृष्टौ, पालने, संहारे च एका एव प्रभुलीला तेन दृष्टा। सर्वदेवताः विश्वरूपे समाविष्टाः आसन्।

एतत् विश्वरूपं दृष्ट्वा अर्जुनस्य प्रक्षुब्धं मनः शान्तम् अभवत्। तस्य सन्देहाः निवृत्ताः, चिन्ताः परिहृताः। मनसि एकः एव भावः प्रतिध्वनति स्म — “श्रीकृष्णः सर्वेषाम् इव मम अपि प्रेरकः। अहं तदधीनः कश्चित् सामान्यः।”

इदानीम् अर्जुनस्य प्रतिकणेषु अपि स्फूर्तिः उद्भूता। सः उत्साहेन उत्थितवान्। गाण्डीवं सज्जीकृत्य, बाणान् हस्ते गृहीत्वा, शङ्खोद्घोषं कृतवान्।

कौरव-पाण्डव-सेनयोः मध्ये घोरं युद्धं प्रवृत्तम्। अष्टादशदिनपर्यन्तं युद्धं प्रचलितम्। अन्ते पाण्डवैः एव जयः प्राप्तः।

पूर्वं शान्तिदूतरूपेण गतः श्रीकृष्णः यत् उक्तवान् आसीत् तत् सर्वं सत्यम् एव संवृत्तम्। भीमः स्वप्रतिज्ञां पूरितवान्। द्रौपदी पुनरपि विकीर्णानां केशानां बन्धनं कृतवती।

अभिमन्युरूपेण स्थितः कालनेभिः वीरस्वर्गं प्राप्तवान्। कर्णरूपेण स्थितः सहस्रकवचस्य अंशः पुनरपि शिवस्य अन्तः प्रविष्टः। अर्जुनकृष्णरूपेण स्थितयोः नरनारायणयोः अवतारः अपि समाप्तप्रायः आसीत्। कृष्णः भूदेव्याः कृते यत् वचनं दत्तवान् आसीत् तदनुसारं भूदेव्याः उपरि स्थितः पापभारः निवारितः अभवत्।

दुर्योधनस्य मरणेन धृतराष्ट्रस्य मनः प्रक्षुब्धम् आसीत्। “पुत्रमरणस्य प्रतीकारः करणीयः” इति चिन्तयन् सः भीमं द्रष्टुम् इच्छां प्रकटितवान्। कृष्णः धृतराष्ट्रस्य हृदयभावं जानाति स्म। अतः सः भीमस्य लोहप्रतिमां निर्माप्य धृतराष्ट्रस्य पुरतः स्थापितवान्। धृतराष्ट्रस्य आलिङ्गनेन सा प्रतिमा चूर्णीभूता।

पुत्रशोकेन सन्तप्ता गान्धारी कृष्णम् उद्दिश्य शापं दत्तवती — “कौरवाणां वंशस्य इव यादवानां वंशस्य अपि सर्वनाशः शीघ्रम् एव भवतु” इति।

श्रीकृष्णः मन्दहासं प्रकटयन् उक्तवान् — “गान्धारि! भवती पतिव्रता। भवत्याः वचनं कदापि व्यर्थं न भविष्यति। विधिनिर्णयः एव भवत्याः मुखेन प्रकटितः अस्ति।”

पाण्डवानां वंशं निर्मूलयितुम् इच्छन् अश्वत्थामा उत्तरायाः गर्भे स्थितस्य शिशोः उपरि अपि अस्त्रप्रयोगं कृतवान् आसीत्। अतः उत्तरायाः गर्भतः शिशुः मृतः एव बहिः आगतः। श्रीकृष्णः तस्य शिशोः उपरि पादं स्थापयित्वा प्राणान् परीक्षितवान्, जीवदानं कृतवान् च। अतः तस्य शिशोः नाम ‘परीक्षितः’ इत्येव जातम्। एषः एव पाण्डववंशोद्धारकः सञ्जातः।

निद्रावस्थायां स्थितान् द्रौपद्याः पञ्चपुत्रान् अपि द्रोणाचार्यस्य पुत्रः अश्वत्थामा मारितवान्। अतः कुपितः अर्जुनः कृष्णः च द्रौपद्याः वचनानुसारं अश्वत्थामानं बद्ध्वा आनीय, द्रौपद्याः पुरतः स्थापितवन्तौ।

“नरकवाससदृशं जीवनम् एव भवतः कृते उचितः दण्डः। मृत्युना मोक्षः सिध्यति। अत. भवान् चिरञ्जीवी भूत्वा पीडाम् अनुभवतु” इति शापं दत्त्वा द्रौपदी तं प्रेषितवती।

श्रीकृष्णस्य वचनानुसारम् अर्जुनः अश्वत्थाम्नः शिरसि विद्यमानं मणिं निष्कासितवान्। एतेन अश्वत्थामा मानसिकरोगी सञ्जातः। सः मतिभ्रान्तः इव इतस्ततः अटितुम् आरब्धवान्।

शरशय्यायां शयितः इच्छामरणी भीष्मः उत्तरायणस्य प्रतीक्षायाम् आसीत्। मृत्युशय्यायां एव भीष्मः युधिष्ठिरं राज्यधर्मम् उपदिष्टवान्। उत्तरायणे प्राप्ते सति, सः देहत्यागं कृतवान्। भीष्मस्य प्राणाः भवगति लीनाः जाताः।

युधिष्ठिरस्य राज्याभिषेकः जातः। अश्वमेधयागस्य सिद्धता अपि विशेषतया प्रवृत्ता।

श्रीकृष्णः यादवप्रमुखाः च यदा महाभारतयुद्धार्थं निर्गताः आसन्, तदा द्वारकायां समर्थः नायकः कोऽपि न आसीत्। अतः यादवाः सर्वे गर्वशालिनः स्वेच्छाचारिणः च सञ्जाताः। युद्धस्य आरम्भतः पूर्वम् एव बलरामः तीर्थयात्रार्थं निर्गतः आसीत्।

कदाचित् महर्षिः विश्वामित्रः द्वारकाम् आगतवान्। उद्धण्डस्वभावाः यादवाः साम्बेन गर्भिणीवेषं धारितवन्तः। तं विश्वामित्रसमीपं नीत्वा परिहासेन पृष्टवन्तः — “मुनिवर! एतस्याः गर्भतः पुत्रः जनिष्यति वा, उत पुत्री? कृपया कथयतु” इति।

असभ्यचेष्टया कुपितः विश्वामित्रः शापं दत्तवान् — “रे मूर्खाः दुष्टयादवाः! एतस्य गर्भतः मुसलः उत्पद्यते। तस्य कारणतः समग्रः यदुवंशः समूलं नष्टः भविष्यति।”

अनन्तरम् अपि यादवाः विश्वामित्रं उपहासेन बहु पीडितवन्तः। यदा साम्बः स्त्रीवेषं निष्कासितवान् तदा वस्तुतः एकः मुसलः उत्पन्नः आसीत्। एतत् दृष्ट्वा यादवाः सर्वे भीताः।

युद्धं समाप्य श्रीकृष्णः द्वारकां प्रत्यागतवान्। तदा यादवाः कृष्णं सर्वं वृत्तान्तं निवेदितवन्तः।

कृष्णः उक्तवान् — “मुसलं खण्डशः कृत्वा समुद्रे क्षिपन्तु” इति।

एवं क्षिप्तम् एकं खण्डं कश्चन मीनः गिलितवान्। तं मीनं व्याधः गृहीतवान्। मीनस्य उदरे स्थितं तं मुसलभागं स्वबाणाग्रे नियोजितवान्। कालान्तरे तेन एव बाणेन कृष्णस्य देहान्त्यं सञ्जातम्।

मुसलस्य अन्यकणाः तीरं प्राप्तवन्तः। तेभ्यः एव कुशनामकानि तृणानि तत्र समुत्पन्नानि।

कानिचन वर्षाणि अतीतानि। एकदा यादवाः सर्वे विनोदविहारम् इच्छन्तः समुद्रतीरम् आगतवन्तः। तत्र यथेष्टं मदिरां पीतवन्तः।

मदिरापानेन मत्ताः ते विवेकशून्याः सञ्जाताः। मत्ताः ते आत्मश्लाघनं कर्तुम् आरब्धवन्तः। एतन्निमित्तः परस्परविवादः ताडनपर्यन्तं प्रवृद्धः। विवेकरहिताः ते कुशतृणैः एव युद्धं कृतवन्तः। तेनैव सर्वे अपि मरणं प्राप्तवन्तः।

एवं प्रकारेण मुनिशापः सत्यः सञ्जातः। मुसलः एव समग्रस्य यदुवंशस्य नाशम् अकरोत्।

यदुवंशनाशस्य वार्तां श्रुत्वा बलरामः अतीव खिन्नः। संसारात् एव विरक्तः सः अरण्यं गत्वा समाधिस्थः जातः। योगबलेन शरीरं त्यक्त्वा पुनः अपि आदिशेषरूपेण वैकुण्ठं प्राप्तवान्।

द्वारकानिर्माणार्थं समुद्रराजेन या भूमिः दत्ता आसीत् सा सप्तदिनेभ्यः पूर्वं कृष्णेन प्रत्यर्पणीया आपतिता। अतः श्रीकृष्णः अर्जुनाय वार्तां प्रेषितवान् — ‘भवान् शीघ्रम् एव आगत्य द्वारकानगरे स्थितान् बालान्, वृद्धान्, स्त्रियः च इन्द्रप्रस्थं नयतु’ इति।

अनन्तरं श्रीकृष्णः उद्धवं तत्त्वम् उपदिष्टवान्। तस्मै स्वकीयं वास्तविकं रूपं प्रदर्शितवान् च।

यदुकुलं यदा समाप्तं तदा एव कृष्णावतारेण उद्दिष्टं सर्वं समाप्तम् आसीत्।

अन्ते श्रीकृष्णः समुद्रतटस्य समीपे उपविश्य दिव्यं वेणुवादनं कृतवान्। नादमाधुर्येण प्रकृतिः पुलकिता। समुद्रः शान्तः। अनन्तरं श्रीकृष्णः एकस्य वृक्षस्य अधः, शिलायाः उपरि विश्रान्तिमुद्रायां स्थितवान्। दूरतः पश्यन् कश्चित् व्याधः कृष्णं हरिणं मन्यमानः बाणप्रयोगं कृतवान्।

बाणः कृष्णस्य पादाङ्गुष्ठे लग्नः। बाणस्य अग्रभागे, मत्स्यस्य उदरात् प्राप्तः मुसलखण्डः योजितः आसीत्। यस्य मुसलस्य कारणतः यदुवंशस्य नाशः जातः तेनैव मुसलेन कृष्णस्यापि अन्त्यं जातम्।

पूर्वं कदाचित् दूर्वासाः भ्रमन् द्वारकाम् आगतवान् आसीत्। सः कृष्णं पायसं प्रार्थितवान्। कारणान्तरेण कुपितः सः पायसं स्वशरीरे लेपयितुम् आज्ञापितवान्। श्रीकृष्णः तस्य शरीरं पायसेन लेपितवान्। तदा प्रमादवशात् पादङ्गुष्ठः एकः न लिप्तः आसीत्। तदा दुर्वासाः उक्तवान् — ‘अङ्गुष्ठः एव भवतः मरणकारणं भविष्यति’ इति।

बाणस्पर्शेन अङ्गुष्ठतः रक्तं स्रोतुम् आरब्धम्। व्याधः समीपम् आगत्य दृष्टवान् — श्रीकृष्णः वेदनया पीडाम् अनुभवति! एतत् दृष्ट्वा पश्चात्तापं प्रकटयन् व्याधः रोदितुम् आरब्धवान्।

तदा श्रीकृष्णः व्याधम् उक्तवान् — “भवान् मम विषये दुःखं न अनुभवतु। रामावतारसमये अहं वृक्षेषु निलीय वालिनं मारितवान्। तदा भवान् अङ्गदः आसीत्। अस्मिन् जन्मनि पूर्वकृतस्य फलं मया प्राप्तम्। कर्मफलं सर्वैः अनुभोक्तव्यम् एव। अतः भवान् चिन्तां न करोतु” इति।

एवं उक्त्वा श्रीकृष्णः व्याधाय स्वकीयं रामावतारं प्रदर्शितवान्। रामदर्शनेन व्याधः पूर्वजन्मस्मरणं प्राप्तवान्। भक्त्या परवशः सः तस्याम् एव स्थितौ शरीरत्यागं कृतवान्।

श्रीकृष्णस्य सारथिः स्वयजमानम् अन्विष्यन् तत्र आगतवान्। कृष्णस्य विकटपरिस्थितिं दृष्ट्वा सः विलपितुम् प्रवृत्तः। तदा कृष्णः तं सान्त्वयित्वा उक्तवान् — “भवान् शीघ्रं द्वारकां गत्वा सर्वान् यादवान् ‘नगरं त्यक्तव्यम्’ इति वदतु। “यादवस्त्रियः सर्वाः नेतव्याः” इति अर्जुनं स्मारयतु। उद्धवम् अक्रूरं च मम आशीर्वादान् निवेदयतु” इति।

सारथिः अश्रूणि विमुञ्चन् हृदयेन दुःखं वहन् ततः निर्गतः।

श्रीकृष्णः पुनः एकवारं वेणुनादं कृतवान्। गानमाधुर्यं तत्र सर्वत्र व्याप्तम्। श्रीकृष्णः स्वकीयां दैहिकलीलां समापितवान्। विष्णुरूपेण वैकुण्ठे शेषशय्याम् अधिरूढवान्।

श्रीकृष्णस्य मरणसमनन्तरम् एष सागरः उपरि आगतः। समग्रः द्वारकाप्रदेशः जले विलीनः अभवत्। एतदनन्तरं ‘कलियुगम्’ इति नवीनं युगम् आरब्धम्।

कृष्णस्य मरणानन्तरम् उद्धवः सर्वत्र गत्वा कृष्णतत्त्वानां प्रसारं कृतवान्।

विष्णोः अवतारभूतः श्रीकृष्णः स्वलीलया सर्वान् बोधयितुम् एव अवतारं प्राप्तवान् आसीत्। तेन सर्वेषु मानवेषु ईश्वरभक्तेः उद्बोधनं कृतम्।

दुष्टशिक्षणं, शिष्टपरिपालनम् एतत् द्वयम् अपि अवतारस्य उद्देशः आसीत्। तच्च साधितं कृष्णेन।

तथैव लोके एकः नवीनः आदर्शः अपि स्थापितः यत् कृष्णः उन्नतान् विचारान् स्वकीये आचरणे प्रदर्श्य, सर्वेषां मार्गदर्शकः अभवत्।

कृष्णः मानवरूपधारी चेदपि मानवीयकामनाभिः मुक्तः आसीत्। मानवीयसीमाम् अतिक्रान्तः आसीत्। तेन यद्यत् कृतं तत् सर्वं कर्म निष्कामम् आसीत्! फलस्य आशा तेन कदापि न कृता।

तस्य निर्गमनानन्तरं अत्र कलियुगस्य प्रवेशः जातः। कलियुगे पापस्य प्रभावः अत्यधिकः।

तपःशक्तिः सर्वथा क्षीणा। अतः एव मनुष्याणां मुक्तये साधनरूपेण भक्तिबीजानि लोके आरोपितानि।

कृष्णेन अनुगृहीतः एकः अमूल्यः ग्रन्थः “भगवद्गीता”। आकारेण अल्पः चेदपि एषः ग्रन्थः अपारं तत्त्वं सरलतया प्रतिपादयति। कृष्णार्जुनयोः संवादरूपेण लिखितः एषः ग्रन्थः समग्रे प्रपञ्चे पूज्यते। सार्वकालिकं तत्त्वम् अत्र प्रतिपादितम् अस्ति।

मोक्षप्रतिपादकः एषः ग्रन्थः दैनन्दिनजीवतस्य अपि मार्गदर्शकः। अतः इदानीम् अपि आबालवृद्धाः, गृहस्थाः सन्यासिनः, मुमुक्षवः सर्वे अपि प्रेरणां प्राप्नुवन्ति। वेदवेदान्तानां रहस्यं सर्वम् अत्र निहितम् अस्ति।

सर्वोपनिषदः गावः दोघ्धा गोपालनन्दनः। पार्थः वत्सः सुधीः भोक्ता दुग्धं गीतामृतं महत्॥

समाप्तम्

संस्कृत चन्दमामा · अक्टूबर १९८४ · पृ० ५१ Chandamama India Limited