त्रयः मान्त्रिकाः
परस्परसङ्घट्टनेन नौकाद्वयम् अपि जले निमग्नम्। पिड्डलः काष्ठफलकस्य साहाय्येन मरुभूमिं प्राप्तवान्। तत्र सः हसनगोरिं मिलितवान्। उभौ अपि अनुचरैः सह मरुभूमिचोरस्य भैरवनाथस्य अन्वेषणं कुर्वन्तौ इफीदुर्गं प्राप्तवन्तौ
हसनगोरी अङ्गुलि-सङ्केतपूर्वकम् एकां दिशां प्रदर्शितवान्। पिड्डलः तस्यां दिशायां स्वदृष्टिं प्रसारितवान्। अल्पे एव काले ते एकस्य प्राचीनदुर्गस्य समीपम् आगतवन्तः।
दुर्गस्य पार्श्वे एकः पर्वतः आसीत्। ततः एका नदी प्रवहति स्म। नद्याः उभयपार्श्वयोः खर्जूरवृक्षाः विलसन्ति स्म। समग्रं वातावरणं शान्तम् आसीत्। दुर्गस्य उपरि द्वारे वा मनुष्याणां चिह्नम् अपि न दृश्यते स्म।
पिड्डलः हस्तेन दुर्गं प्रदर्शयन् हसनगोरिं पृष्टवान् — “एतत् एव किल भवदुक्तं दुर्गम्?” इति।
“आम् आम्, पश्यतु। दुर्गस्य पार्श्वे पर्वतेषु निलीनः एकः मार्गः दृश्यते किल?। एषः मार्गः टेहरान्-कैरो नगरयोः मध्ये सम्बन्धं कल्पयति। मार्गमध्ये स्थितम् एतत् दुर्गं प्रवासिनां वणिजां कृते च विश्रान्तिस्थानम्। मरुभूमिचोरेभ्यः वणिजः यात्रिकाः च रक्षणीयाः इति उद्देशेन एतत् दुर्गं निर्मितम्। एतस्य रक्षणार्थं द्विशतं सैनिकाः सदा अत्र निवसन्ति। दुर्गं रक्षन्तः ते वणिजां यात्रिकाणां च भयम् अपि दूरीकुर्वन्ति। किन्तु आश्चर्यस्य विषयः यत् इदानीम् अत्र सर्वत्र मौनं विलसति। दुर्गस्य उपरि समीपे वा एकः अपि सैनिकः न दृश्यते।”
तावति काले ते दुर्गस्य समीपम् आगतवन्तः आसन्।
“प्रायः लुण्ठाकनायकः भैरवनाथः दुर्गस्य उपरि आक्रमणं कृत्वा सैनिकानां संहारं कृतवान् स्यात्। दुर्गस्य प्रवेशेन एव वयं वस्तुस्थितिं ज्ञातुं शक्नुमः” इति पिङ्गलः स्वसन्देहं प्रकटितवान्।
“भवतः वचनं सत्यम् एव स्यात्। दुर्गस्य उपरि लुण्ठाकपक्षीयः अपि कोऽपि न दृश्यते किल?” इति वदन् हसनगोरिः स्वस्य उष्ट्रस्य खलीनम् आकृष्टवान्। तथैव दुर्गस्य तत्परिसरस्य च उपरि स्वदृष्टिं प्रसारितवान्।
पिङ्गलः उष्ट्रम् अग्रे चालयन् उक्तवान् — “महोदय! अत्र एव स्थित्वा वस्तुस्थितिं कल्पयितुं न शक्नुमः वयम्। दुर्गस्य द्वारसमीपं गतं चेत् किमपि ऊहितुं शक्येत। यतः शत्रुजनैः सह युद्धं प्रवृत्तं चेत् तत्र किमपि चिह्नादिकम् अवश्यं दृश्यते” इति।
स्वकीयम् उष्ट्रम् अपि अग्रे चालयन् हसनगोरिः पिङ्गलम् अनुसृतवान्।
“भवतः आशङ्का सत्यम् स्यात्। द्वारसमीपे घोरं युद्धं प्रवृत्तं स्यात् एव। युद्धं विना अस्मदीयाः सैनिकाः शत्रून् अन्तः प्रवेष्टुं न त्यजन्ति। किन्तु एतत् तु निश्चितं यत् लुण्ठाकाः शतसङ्ख्यया आगताः भवेयुः।”
पिङ्गलः हसनगोरी च क्रमशः दुर्गस्य द्वारसमीपम् आगतवन्तौ।
तत्र द्वारं पिहितम् आसीत्। “अन्तः केनापि कीलितं स्यात्” इति स्पष्टं ज्ञातुं शक्यते स्म। तत्रत्यः परिसरः अतीव शान्तः आसीत्। सहस्रवर्षेभ्यः अत्र जनाः न उषितवन्तः वा? इति संशयः उद्भवति स्म। युद्धस्य मरणस्य वा चिह्नम् लेशमात्रम् अपि अदृष्ट्वा हसनगोरी एकवारं हसितवान्।
अनन्तरं उष्ट्रतः अवतरन् सः उक्तवान् — “पिङ्गल! भवान् विनाकारणं भीतिं प्रदर्शितवान्। भैरवनाथः बलवान् चतुरः च स्यात् नाम। किन्तु अस्माकं सैनिकैः सह युद्धं कर्तुं तस्य धैर्यं नास्ति। किन्तु अस्मदीयाः सैनिकाः अपि न दृश्यन्ते। अत्र किमपि अन्यकारणं स्यात्।”
एवं वदन् हसनगोरी तृप्त्या मन्दहासं प्रकटितवान्। पिङ्गलः प्रश्नार्थकदृष्ट्या हसनगोरिं दृष्टवान्।
पिङ्गलः अपि उष्ट्रतः अवतीर्णः आसीत्। उभौ अपि मुख्यद्वारस्य समीपम् आगतवन्तौ। हसनः पिङ्गलस्य स्कन्धस्य उपरि हस्तं स्थापयन् उक्तवान् — “पिङ्गलः! मम तु भीतिः, अस्मदीयाः सैनिकाः सुरां पीत्वा मत्ताः सन्तः अन्तः सुत्ताः भवेयुः इति।”
पिङ्गलः एतं विषयं न विश्वसिति। सः सन्देहं प्रकटयन् उक्तवान् — “यदि एतत् सत्यं तर्हि कथं वा भवदीयः पुरुषः मारयित्वा हस्तपादौ बद्ध्वा गृध्रणाम् आहारत्वेन समर्पितः स्यात्? यतः सः अपि अस्य एव दुर्गस्य रक्षकभटः आसीत् किल?”
“एतत् अपि सम्भाव्यम् यत् सः सैनिकः पानमत्तः सन् बहिः कस्यापि खर्जूरवृक्षस्य अधः सुत्तवान् स्यात्। तदा भैरवस्य अनुचराः आगत्य तम् आक्रान्तवन्तः भवेयुः।”
हसनस्य एतत् वचनं श्रुत्वा पिङ्गलः किञ्चित्कालं मौनं स्थितवान्। इदमित्यम् इति निर्णयतः पूर्वम् सः परिस्थितिं सम्यक् विवेक्तुं मुख्यद्वारं परिशीलयितुं च इच्छति स्म।
अतः सः किमपि अनुक्त्वा जागरूकतया द्वारसमीपं गतवान्। द्वारम् अन्तः कीलितम् अस्ति इति मत्वा सः सम्पूर्णशक्त्या द्वारं पृष्ठतः नोदितवान्।
घडाम्! घडाम्! घडाम्! महान् विस्फोटः समुद्भूतः!
भीत्या कम्पितः पिङ्गलः पृष्ठतः उत्प्लुतवान्। तस्य मुखतः दीर्घः चीत्कारः बहिः आगतः। विस्फोटकारणतः द्वारं छिन्नविच्छिन्नम् अभवत्। दुर्गस्य कश्चन भागः अपि ध्वस्तः।
“द्वारम् अन्तः न कीलितम् आसीत्। द्वारसमीपे एव विस्फोटकं स्थापितम् आसीत्” इति पिङ्गलः ज्ञातवान्। यदा द्वारम् उद्घाटितं तदा कवाटविस्फोटकयोः मध्ये घर्षणम् उत्पन्नम्। तेन च विस्फोटः सञ्जातः आसीत्।
विस्फोटनेन सर्वे भीताः। सैनिकेषु केचन द्वारखण्डैः ताडिताः सन्तः ब्रणिताः। उष्ट्राः केचन भीत्या पलायिताः। केचन सैनिकाः पतनेन ब्रणिताः।
विस्फोटकारणतः सर्वत्र धूमः व्यापृतः आसीत्। कुत्र किं जातम्? किं प्रचलति? इति कोऽपि न ज्ञातवान्।
धूमस्य सान्द्रता यदा न्यूना जाता तदा पिङ्गलः तत्रत्यं दृश्यं दृष्ट्वा भीत्या कम्पितः।
केचन स्थले एव मृताः सन्ति। अन्ये केचन भूमौ पतिताः, धावताम् उष्ट्राणाम् पादाघातेन तीव्रतरं ब्रणिताः सन्ति। उष्ट्राः अपि केचन मृताः। ब्रणितानां करुणापूर्णः चीत्कारः श्रूयते स्म। ब्रणितानां मृतानां च मध्ये हसनगोरी कुत्र स्यात् इति पिङ्गलः अन्विष्टवान्।
विस्फोटवेगतः सुदूरं क्षिप्तः हसनः एकस्य खर्जूरवृक्षस्य अधः पतितः आसीत्। यदा पिङ्गलः तम् अन्विष्यन् तत्र आगतवान् तदा सः आत्मानं सम्भालयन् उत्थातुं प्रयत्नं कृतवान्।
पिङ्गलः हस्तसाहाय्यं यच्छन् पृष्टवान् — “तीव्रतरं ब्रणितः न किल भवान्?”
“भाग्यवशात् अहं दुर्मरणतः रक्षितः। यदि विस्फोटजातेन वायुना अहम् एतावद्दूरं न क्षिप्तः स्याम्, तदा मम मरणं एव अभविष्यत्” इति वदन् हसनः उत्थाय तथैव उपविष्टवान्।
“वस्तुतः भाग्येन एव आवां उभौ अपि रक्षितौ। तत्र पश्यतु, अस्माकम् अर्धाधिकाः सैनिकाः गतप्राणाः सन्ति। अवशिष्टेषु बहवः तीव्रतरं ब्रणिताः हाहाकारं कुर्वन्ति” इति उक्तवान् पिङ्गलः।
एकक्षणानन्तरं सः पुनः उक्तवान् — “द्वारस्पर्शनसमये एव, अत्र काऽपि वञ्चना अस्ति इति अहं ज्ञातवान्। अतः द्वारं नोदयित्वा झटिति पृष्ठतः धावितवान्। वस्तुतः मया द्वारं सर्वशक्त्या न नोदनीयम् आसीत्। यतः तत् अन्तः न कीलितम् आसीत्। द्वारस्य समीपे स्थापितेन स्फोटकेन सह घर्षणेन एव एषः स्फोटः सञ्जातः।”
हसनगोरी इदानीम् अपि ब्रणजातां वेदनाम् अनुभवति स्म। अतः सः उत्थाय चलितुं न तथा समर्थः। वस्त्रेषु लग्नाः सिकताः अपसारयन् सः उक्तवान् — “दुष्टभैरवस्य एव एतत् कार्यम्। अस्माकं सैनिकानां लुण्ठाकानां च मध्ये युद्धं दुर्गस्य अन्तः एव प्रवृत्तम्। सः भैरवः सैनिकान् सर्वान् मारयित्वा, अस्मान् अपि मारयितुं योजनां कृतवान् आसीत्। इदानीम् अस्माभिः प्रथमं भैरवनाथः अन्वेष्टव्यः। यथाकथम् अपि सः नाशनीयः।”
अनन्तरं हसनगोरी पिङ्गलेन सह, पतितानां सैनिकानां समीपं गतवान्। ब्रणितानां कृते यथासाध्यं प्रथमोपचारं कृतवान्। ब्रणानाम् उपरि पट्टिकाः बन्धितवान्। अनन्तरम् अवशिष्टैः सैनिकैः सह उभौ अपि दुर्गं प्रविष्टवन्तौ।
अन्तस्थं दृश्यं तु बहु भीकरम् आसीत्। सर्वत्र मृतशरीराणि पतितानि आसन्। कुत्रचित् रक्तप्रवाहे पतिताः दृश्यन्ते स्म। अन्यत्र कुत्रचित् खड्गादयः दृश्यते स्म। तत्रत्यानि उपभवनानि अग्निना ज्वालितानि आसन्। अतः दुर्गस्य अन्तर्भागः श्मशानम् इव दृश्यते स्म।
“अस्मदीयाः सर्वे सैनिकाः मृताः सन्ति। एतत् कथं जातम् इति अहं न जानामि। ते लुण्ठाकाः कथम् अन्तः प्रविष्टाः? बहिः अस्मदीयाः सैनिकाः विरोधं न प्रकटितवन्तः वा? प्रायः अस्मदीयेषु कश्चित् तेषां साहाय्यं कृतवान् स्यात्। अन्यथा लुण्ठाकाः अस्मदीयान् कदलीवृक्षान् इव मारयितुं समर्थाः न भवन्ति स्म” इति हसनगोरी स्वशङ्कां प्रकटितवान्।
“प्रवृत्तं तु यथाकथमपि स्यात्। किन्तु इदानीम् अस्माभिः किं करणीयम्?” इति पिङ्गलः पृष्टवान्। किञ्चित्कालपर्यन्तम् उभौ अपि मौनं सन्तौ प्रवृत्तं सर्वनाशं परिशीलितवन्तौ। पिङ्गलः स्वसूचनाम् उपस्थापितवान् — “अस्माभिः इदानीम् एकः क्षणः अपि व्यर्थं न यापनीयः। शीघ्रातिशीघ्रं लुण्ठाकाः अन्वेष्टव्याः। किन्तु विशालायाम् अस्यां मरुभूमौ तेषाम् अन्वेषणं शक्यं वा इति मम संशयः।”
“किमर्थं न शक्यम्?” इति वदन् हसनगोरी काञ्चन सैनिकान् किमपि सूचितवान्। ते झटिति दुर्गात् बहिः निर्गताः।
तेषु एकैकः अपि एकैकस्यां दिशि गत्वा अल्पे एव काले प्रत्यागतः।
आगतैः सैनिकैः सह वार्तालापं कृत्वा हसनगोरी पिङ्गलम् उक्तवान् — “सद्योजातैः उष्ट्राणां पदचिह्नैः वयं ज्ञातुं शक्नुमः यत् लुण्ठाकाः क्रोशद्वयमिते दूरे पर्वते कुत्रापि निलीनाः सन्ति। ते इदानीं प्रायः विजयोत्सवम् आचरन्तः सुरां पीत्वा मत्ताः सन्तः सुत्ताः भवेयुः” इति।
पिङ्गलः मरुभूमिविषये किमपि न जानाति किल? अतः सः हसनगोरिवचनानि सर्वाणि मौनं श्रुत्वा अङ्गीकारं प्रदर्शयति। हसनगोरिवचनं सत्यं मन्यमानः सः उक्तवान् — “भवतः वचनं सत्यम् चेत् अस्माभिः इदानीम् एव गत्वा तेषाम् उपरि आक्रमणं करणीयम्। अस्माकं आक्रमणं तेषां तु अनिरीक्षितम्। अतः वयं सुलभतया जयं प्राप्तुं शक्नुमः।”
पिङ्गलस्य सूचनाम् अङ्गीकुर्वन् हसनगोरी तत्क्षणम् एव पर्वतस्य दिशायां गन्तुं सर्वान् सैनिकान् आज्ञापितवान्। तेषां पृष्ठतः पिङ्गलेन सह सः स्वयम् अपि प्रस्थितः।
एकघण्टानन्तरं ते पर्वतस्य समीपम् आगतवन्तः। यस्मिन् मार्गे ते आगतवन्तः स च मार्गः पर्वतयोः मध्ये अग्रे गच्छति स्म।
पिङ्गलः तत्रैव स्थित्वा पर्वतप्रदेशम् एकवारं सम्यक् परिशीलितवान्। अनन्तरं सः हसनगोरिम् उक्तवान् — “समूहगमनेन इदानीं प्रयोजनं नास्ति। वयं विभज्य गच्छामः। एकः गणः वामतः, अपरः गणः दक्षिणतः च गच्छतु। उष्ट्रान् सर्वान् अत्र एव त्यक्त्वा पद्भ्याम् एव गच्छामः। जागरूकतया पर्वतकन्दरेषु तान् अन्वेष्टुं प्रयत्नं कुर्मः।”
हसनः पिङ्गलस्य सूचनाम् अङ्गीकृतवान्। उभौ अपि सैनिकानाम् अर्धार्धभागेन सह पर्वतम् आरूढवन्तौ। भैरवस्य अन्वेषणं कुर्वन्तौ तौ शिखरपर्यन्तं गतवन्तौ। तथापि कुत्रापि भैरवः न दृष्टः।
अकस्मात् पिङ्गलः पर्वतस्य मध्यभागे उत्पद्यमानम् अस्पष्टं कोलाहलध्वनिं श्रुतवान्। सर्वान् सैनिकान् निश्शब्दं स्थातुम् आदिश्य सः शिलायाः पार्श्वे निलीनः भूत्वा अधः दृष्टिं प्रसारितवान्।
पर्वतस्य मध्यभागे शिलाभिः वृक्षैः च आवृतः कश्चन समतलप्रदेशः आसीत्। तत्र केचन उपविष्टाः, केचन नृत्यन्तः च आसन्। पिङ्गलः एतान् दृष्टवान्। ‘एते एव लुण्टाकाः’ इति पिङ्गलः निश्चितवान्।
“भैरवपक्षीयाः मया दृष्टाः” इति हसनगोरिं सूचयितुम् इच्छन् पिङ्गलः काहलं मुखे स्थापयित्वा विशिष्टं सङ्केतं कृतवान्।
एषः शब्दः लुण्टाकपक्षीयैः अपि श्रुतः। झटिति नृत्यं गानं सर्वं स्थगितम्। “लुण्टाकाः अपि जागरिताः। अतः एकक्षणस्य अपि विलम्बः न करणीयः” इति चिन्तयित्वा पिङ्गलः एकां बृहतीं शिलां, लुण्टाकान् उद्दिश्य नोदितवान्। त्वरितगत्या शिलाः नोदयितुं सैनिकान् अपि आदिष्टवान्।
एकक्षणम् अपि न अतीतम्। तावति काले सशब्दम् आगतः एकः बाणः पिङ्गलस्य पार्श्वतः निर्गतः।
पिङ्गलः शिलया अन्तरितः आसीत् इति कृत्वा सः रक्षितः। लुण्टाकाः शूलं धनुः च गृहीत्वा तस्याम् एव दिशायाम् आगतवन्तः।
एतत् दृष्ट्वा पिङ्गलः एकक्षणं किङ्कर्तव्यतामूढः जातः। किन्तु तदा अन्यपार्श्वतः प्रेरिताः शिलाः लुण्टाकानाम् उपरि आपतिताः। “दत्तः सङ्केतः हसनगोरिणा प्राप्तः” इति पिङ्गलः सन्तुष्टः। शिलाः प्रेरयन्तः एव हसनगोरीसैनिकाः अपि लुण्टाकानाम् उपरि आक्रमणं कृतवन्तः।
उभयपार्श्वतः अपि आगच्छतः सैनिकान् दृष्ट्वा भीताः लुण्टाकाः इतस्ततः विकीर्णाः।
हसनगोरिणा सह विद्यमानाः सैनिकाः उत्साहेन लुण्टाकानाम् उपरि शिलाः प्रेरयन्तः अधः आगतवन्तः, समतलप्रदेशं प्राप्तवन्तः च।
पिङ्गलः अपि बाणैः आत्मानं रक्षन् सैनिकैः सह अधः आगतवान्। एवम् उभयपार्श्वतः अपि आगत्य सैनिकाः लुण्टाकानाम् उपरि आक्रमणं कृतवन्तः।
प्रथमं एव लुण्टाकाः पानमत्ताः। प्रकाशः अस्पष्टः अपि! एतदुपरि सैनिकानाम् अनिरीक्षितम् आक्रमणम्!! लुण्टाकाः किं वा कुर्युः? ते किञ्चित् विरोधं प्रकटितवन्तः। तथापि पुरतः आगतान् लुण्टाकान् सर्वान् हसनस्य सैनिकाः मारितवन्तः।
तत्र बृहत्तरशिलाभिः निर्मिताः अनेकाः गुहाः आसन्। तासु गुहासु अन्धकारः व्याप्तः आसीत्। भैरवस्य अन्वेषणे तत्परः पिङ्गलः अविचार्य गुहां प्रवेष्टुं प्रवृत्तः। तदा पर्वतस्य उपरि हसनस्य ध्वनिः श्रुतः — “रे पिङ्गल! तिष्ठतु तत्र एव। गुहासु अन्धकारः व्याप्तः अस्ति। अन्धकारे गुहाप्रवेशः अपायकरः। अद्य रात्रौ अत्र एव शिबिरं स्थापयामः। श्वः प्रातः भैरवम् अन्विष्य समूलं नाशयामः।”
एवं वदन् हसनगोरी पिङ्गलसमीपम् आगच्छन् आसीत्।
पिङ्गलः हसनस्य वचनम् अङ्गीकृत्य तत्र एव एकस्याः शिलायाः उपरि उपविष्टवान्।
तदा सुपरिचितः कश्चन ध्वनिः श्रुतः — “अरे! भवान्! पिङ्गलः वा? भवान् सः एव पिङ्गलः वा — यस्य अवन्तीवटुः इति नामान्तरम् आसीत्?”
“एषः तु निश्चयेन पद्मपादस्य ध्वनिः” इति चिन्तयन् पिङ्गलः आश्चर्यचकितया दृष्ट्या परितः दृष्टवान्। तदानीं समीपे एव एकस्याः शिलायाः पार्श्वतः एकः पुरुषः मन्दहासं प्रकटयन् पिङ्गलसमीपम् आगतवान्।
अनुवर्तते