मूर्खौ वणिजौ
अनूपनगरे एकः उदारः भूस्वामी आसीत्। वाणिज्यार्थं मूलधनं ये इच्छन्ति तादृशानां कृते सः साहाय्यं करोति स्म। साहाय्यं सम्प्रार्थ्य आगतानां बुद्धिपरीक्षां कृत्वा सः धनं ददाति स्म।
एकदा कुक्कुटाण्डानां वाणिज्यं कर्तुम् इच्छन्तौ मन्देशः मूर्खेँशः च भूस्वामिसमीपम् आगतवन्तौ।
तदा भूस्वामी पृष्टवान् — “कुक्कुटाण्डानां विषये अज्ञातः विषयः यदि कोऽपि अस्ति, उच्यताम्” इति।
तदा मन्देशः उक्तवान् — “प्रकाशं वायुं च विना कुक्कुटशावकाः कथम् अण्डे बहुकालं निवसन्ति इति अहं न जानामि” इति।
तदा मूर्खेँशः उक्तवान् — “इतोऽपि आश्चर्यकरः विषयः अन्यः अस्ति। शावकः बहिः आगमनसमये अण्डं भित्वा आगच्छति किल? किन्तु प्रवेशसमये अण्डम् अभित्वा सः कथं प्रविशति?” इति।
तदा भूस्वामी हसन् — “अण्डानां वाणिज्ये साफल्यं प्राप्तुं भवन्तौ असमर्थौ। अतः अन्यवाणिज्यं किमपि चिन्तयन्तु” इति उक्त्वा तौ प्रेषितवान्।
समाप्तम्