विष्णुकथा — कृष्णपाण्डवीयम्
शकुनिः गान्धारदेशराजस्य सुबलस्य पुत्रः। दुर्योधनस्य माता गान्धारी शकुनेः अग्रजा।
ज्यौतिषिकाः राजानं सुबलं सूचितवन्तः आसन् यत् विवाहसमनन्तरम् एव गान्धार्याः पतिः मृतः भविष्यति इति। अतः सुबलः कस्यचित् अजस्य गान्धार्याः च विवाहं प्रथमं कारितवान्। अनन्तरं जन्मान्धेन धृतराष्ट्रेण सह तस्याः विवाहः अभवत्। जातकफलम् सत्यम् अभवत्। अल्पे एव काले सः अजः मृतः।
यदा विवादसमये भीमः “विधवापुत्र! गोलक!” इति सम्बोधितवान् तदा एव दुर्योधनः पूर्वोक्तं विषयं ज्ञातवान्।
एतेन दुर्योधनः कुपितः। सुबलं शकुनिं तत्क्षणे एव कारागारे स्थापितवान्। क्रूरदण्डनैः तौ दण्डयित्वा मनःसन्तोषं प्राप्तवान्।
सुबलः तपोब्लेन अपूर्वशक्तिं सम्पादितवान् आसीत्। मरणात् पूर्वं सः शकुनिम् उक्तवान् — “मम मरणानन्तरं मदीयैः अस्थिभिः अक्षान् कारयतु” इति।
दुर्योधनः कारागारस्य रक्षकाणां द्वारा, शकुनिसमीपे स्थितानाम् अद्भुतमहिमशालिनाम् अक्षाणां विषयं ज्ञातवान्। तद्दिने एव शकुनेः बन्धविमोचनं जातम्। शकुनिः मन्त्रिपदे नियोजितः च।
हस्तिनापुरे शकुनि-युधिष्ठिरयोः मध्ये द्यूतं प्रवृत्तम्। द्यूते युधिष्ठिरः पराजितः।
तथैव स्वसहोदरान्, पत्नीं द्रौपदीं च पणीकृत्य तथापि पराजयं प्राप्तवान्।
अस्मिन् एव समये द्वारकायां कृष्णः विनोदार्थं द्यूतं क्रीडन् पराजितः। रुक्मिण्यादि-सपत्न्यः अपि तत्समये पणत्वेन स्थापिताः आसन्।
परिहसन्ती सत्यभामा रुक्मिणीम् उक्तवती — “भगिनि! अस्मदीयः नाथः भवत्यः च इदानीं मम अधीनाः। इदानीं भवताम् उपरि मम सर्वाधिकारः अस्ति। विक्रयणं दानं वा यत्किमपि अहं कर्तुं शक्नोमि” इति। अनन्तरं रुक्मिण्याः अञ्चलम् स्वहस्ते गृहीतवती।
तदानीं श्रीकृष्णः अन्यत्र आसक्तः इव “अक्षया भवतु” इति उक्तवान्।
कृष्णस्य मुखतः एतत् शब्दद्वयम् अपि किमर्थं निर्गतम् इति कया अपि न ज्ञातम्।
अस्मिन् समये हस्तिनापुरे सभायां दुस्शासनः द्रौपद्याः वस्त्रापहरणं कर्तुं प्रवृत्तः आसीत्। असहाया द्रौपदी आत्मानः मानं रक्षितुम् असमर्था, करद्वयं योजयित्वा भक्त्या “श्रीकृष्ण!” इति कृष्णनाम स्मृतवती।
अस्यां सभायां भीमः प्रतिज्ञां कृतवान् यत् — “दुःशासनस्य उरःस्थलं विभिद्य रक्तं पिबामि। तथैव दुर्योधनस्य ऊरुभङ्गं करोमि” इति।
कृष्णस्य वरप्रसादतः द्रौपद्याः शाटिका अक्षया जाता। यथा यथा दुःशासनः शाटिकाम् आकर्षति तथा तथा सा दीर्घा भविष्यति!
सभायां शाटिका राशिरूपेण पतिता। दुःशासनः वस्त्रापहरणेन श्रान्तः। स्वेदजलेन आर्द्रीभूतः सः तत्रैव भूमौ पतितः।
पूर्वं मयसभायां दुर्योधनस्य भ्रान्त्याक्रान्तं विपरीतं व्यवहारं दृष्ट्वा द्रौपदी उच्चैः हसितवती आसीत्। तदा एव दुर्योधनः द्रौपद्याः अपमानं करोमि एव इति प्रतिज्ञां कृतवान् आसीत्।
इदानीं तु, वस्त्रापहरणे सः असफलः। एतेन लज्जितः सः सभाभवनतः निर्गतः।
कर्ण-शकुनि-दुःशासनादयः अपि तम् अनुसृतवन्तः।
दुर्योधनः, शकुनिः, कर्णः, दुरशासनः इति एते चत्वारः दुष्टचतुष्टयत्वेन ख्याताः आसन्।
क्रोध-लोभ-मद-मत्सरादि-दुर्गुणानां तथा अधर्मस्य च आकरः कलिपुरुषः दुर्योधन-रूपेण जन्म प्राप्तवान् आसीत्।
नरनारायणाभ्यां सह प्रवृत्ते युद्धे सहस्रकवचेन, अवशिष्टेन अन्तिमकवचेन सह पलायनं कृत्वा सूर्यमण्डले आश्रयः प्राप्तः आसीत्। अनन्तरकाले सः अविवाहितायाः कुन्तीदेव्याः उदरे सूर्यस्य वरप्रसादेन कर्णरूपेण जन्म प्राप्तवान्।
कुन्ती यदा पाण्डुराजस्य पत्नी जाता, तदा नरनारायणयोः अन्यतरः नरः कुन्तीदेव्याः गर्भतः अर्जुनरूपेण जन्म प्राप्तवान्।
नारायणः तु साक्षात् कृष्णः एव। अर्जुनः कृष्णस्य पितृष्वसुः पुत्रः।
अविवाहिता कुन्ती कर्णं जले त्यक्तवती आसीत्। स च शिशुः सूतपत्न्या राधया प्राप्तः। सा कर्णस्य पालनं पोषणं च कृतवती।
अतः एव कर्णस्य ‘सूतपुत्रः’ इति ‘राधेयः’ इति च नाम। दुर्योधनः कर्णम् अङ्गदेशस्य आधिपत्ये नियोजितवान्। एतेन कर्णस्य आत्मग्लानिः दूरङ्गता। आत्मनि विश्वासः दृढः जातः। कर्णविषये दुर्योधनस्य महती श्रद्धा।
सः कर्णस्य मैत्रीं गौरवास्पदं मन्यते स्म।
कर्णः बहुधा शापैः पीडितः आसीत्। दानशूरः मः ब्राह्मणयाचक-रूपेण आगताय इन्द्राय स्वकीयं कवचकुण्डलादिकं दत्तवान् एव। तथापि स्वशक्तिविषये अचलं विश्वासं प्रदर्शयन् कर्णः दुर्योधनं सर्वदा प्रोत्साहितवान्।
“प्रतिद्वन्द्वी अर्जुनः जेतव्यः” इत्येव कर्णस्य इच्छा आसीत्। अतः सः दुर्योधनस्य पक्षम् आश्रितवान्।
द्यूते पराजिताः पाण्डवाः वनवासार्थं निर्गताः।
द्यूते विजितवती सत्यभामा, कृष्णं नारदाय दानरूपेण दत्त्वा ‘पुण्यक’ व्रतम् आचरितवती। तदा नारदः उक्तवान् — “कृष्णस्य यावान् भारः अस्ति तावान्मितानि सुवर्ण-रत्नानि दत्तानि चेत् कृष्णं प्रत्यर्पयामि” इति।
सत्यभामा एतत् अङ्गीकृतवती। स्वकीयानी स्वर्णाभरण-रत्नहारादीनि सर्वाणि तुलायां स्थापितवती। तथापि कृष्णः एव भारायते! तदा रुक्मिणी भक्त्या एकं तुलसीपत्रं तुलायां स्थापितवती। तदानीं भारः समः अभवत्। कृष्णः नारदात् मुक्तः।
तदा सत्यभामा रुक्मिणीम् उक्तवती — “भगिनि! अद्य आरभ्य अहं भवत्याः दासी। “श्रीकृष्णः भक्तानाम् अधीनः” इत्येतत्सत्यम् अद्य भवती ज्ञापितवती। बहुधा उपकृता अहम्” इति।
द्रौपदीसहिताः पाण्डवाः मत्स्यदेशे विराटराजस्य आस्थाने अज्ञातवासम् आचरितवन्तः।
तत्र भीमः वललनाम्ना पाचककार्यं कृतवान्। द्रौपदी सैरन्ध्रीरूपेण राज्ञ्याः दासी जाता। ताम् अपमानयन्तं कीचकं भीमः मारितवान्। एवं समत्रलेषु पञ्चसु त्रयः भीमस्य हस्तात् एव मृताः। इतःपरं केवलं दुर्योधनः एकः अवशिष्टः।
बृहन्नलानाम्ना अर्जुनः राजकुमारीम् उत्तरां नृत्यं पाठितवान्। उत्तरगोग्रहणसमये अर्जुनः निजरूपं प्रदर्शयन्, युद्धे असङ्ख्यमहारथिनः अपि निरायासं जितवान्।
श्रीकृष्णः यदा कंसं मारितवान्, तदा कालनेमिः कंसस्य शरीरं त्यक्त्वा अभिमन्युरूपेण सुभद्रायाः गर्भतः जन्म प्राप्तवान्।
कालनेमिः इदानीं कृष्णस्य वन्धुरूपेण जन्म प्राप्तवान् अस्ति। अतः कृष्णः चिन्तयति स्म यत् ‘अभिमन्युः युववीराणाम् आदर्शः भूत्वा शाश्वतं यशः प्राप्नोतु’ इति।
यदा सुभद्रा गर्भवती आसीत् तदा एकस्मिन् दिने अर्जुनः सुभद्राम् उद्दिश्य युद्धे पद्मव्यूहः कथं भेदनीयः? इति रहस्यं वदन् आसीत्। तदा तत्र आगतः कृष्णः अर्जुनम् उक्तवान् — “अये, अर्जुन! मम भगिन्याः मनः अतीव कोमलम्। तत्त्वापि गर्भिणी एषा। एतादृश्याः पुरतः किमर्थं वा युद्धरङ्गस्य वार्तां निवेदयति?” इति। अनन्तरं कार्यान्तरव्याजेन अर्जुनम् अन्यत्र नीतवान्।
गर्भस्थः अभिमन्युः अर्जुनस्य सर्वाणि वचनानि श्रुतवान् आसीत्। अतः पद्मव्यूहं प्रवेष्टुं सः ज्ञातवान्। किन्तु पद्मव्यूहतः बहिः आगन्तुं रहस्यं ज्ञातुं न शक्तवान्।
यौवनमदभरितः अभिमन्युः कदाचित् धर्मराजं वदन् आसीत् — “मातुलः कृष्णः इदानीम् अत्र न स्यात् नाम। तथापि इदं राज्यम् अस्मदीयम् एव। कौरवान् सर्वान् मारयितुम् अहम् एकः एव पर्याप्तः” इति।
तदा तत्र आगतः कृष्णः एतद्वचनं श्रुत्वा उक्तवान् — “वीर! अभिमन्यो! भवतः शौर्यम् असदृशम्। भवादृशस्य वीरस्य कीर्तिः चिरकालं स्थास्यति। माता सुभद्रा मदीया भगिनी अस्तीति कृत्वा अहम् अपि आनन्दं गर्वं च अनुभवामि” इति।
सुभद्रार्जुनयोः पुत्रस्य अभिमन्योः विवाहः उत्तरया सह सम्पन्नः। पाण्डवानां वनवाससमये सुभद्रा अभिमन्युः च द्वारकायाम् एव स्थितवन्तौ।
बलरामः स्वपुत्र्याः शशिरेखायाः विवाहं, दुर्योधनस्य पुत्रेण लक्षणेन सह कर्तुं निश्चितवान्। अभिमन्यवे उत्तरा यत् दत्ता तत्र बलरामस्य विरोधः आसीत्।
कदाचित् अभिमन्युः स्वमात्रा सह द्वारकातः निर्गतः अरण्यमार्गेण कुत्रापि गच्छन् आसीत्। मार्गे हिडिम्बा-भीमसेनयोः पुत्रः घटोत्कचः मिलितः।
घटोत्कचः शशिरेखायाः विवाहस्थलं गतवान्। तत्र स्वमायया वरपक्षीयान् सर्वान् पीडितवान्। अनन्तरं शशिरेखाम् उन्नीय गतवान्। अभिमन्युना सह शशिरेखायाः विवाहं कारितवान्।
पाण्डवानाम् अज्ञातवासः सफलतापूर्वकं समाप्तः। अनन्तरं कौरवाणां नाशार्थं पाण्डवाः, पाण्डवानां समूलनाशार्थं कौरवाश्च सिद्धाः जाताः। कौरव-पाण्डवयोः युद्धं निश्चितम्।
कदाचित् युद्धार्थं साहाय्यं प्रार्थयमानः अर्जुनः कृष्णस्य समीपम् आगतवान्। तदा दुर्योधनः अपि तेन एव उद्देशेन तत्र आगतवान्। निद्रातः जागरितः कृष्णः पादसमीपे उपविष्टम् अर्जुनं दृष्टवान्। अनन्तरं शिरसः पार्श्वे उपविष्टस्य दुर्योधनस्य उपरि दृष्टिं प्रसारितवान्।
कृष्णः द्वौ अपि उद्दिश्य उक्तवान् — “युद्धे अहम् अस्त्रशस्त्रादीनि न गृह्णामि। एकाकी सन् अहम् उभयोः अन्यतरस्य पक्षं प्रवेष्टुं शक्नोमि। अन्यपक्षे च समग्रा यादवसेना तिष्ठति। अहं प्रथमम् अर्जुनं दृष्टवान्। अतः सः एव प्रथमं स्वकीयम् इच्छां प्रकटयतु” इति।
अर्जुनः “कृष्णः एव मम पक्षे भवतु” इति उक्तवान्। “समग्रा यादवसेना मम पक्षे भविष्यति” इति सन्तुष्टः दुर्योधनः ततः निर्गतः।
सञ्जयः धृतराष्ट्रस्य आदेशानुसारं दूतरूपेण पाण्डवानां समीपम् आगतवान्। युद्धेन उभयपक्षस्य अपि हानिः एव। सन्धिः एव गरीयान् इति उपदेशवाक्यानि उक्तवान्।
पाण्डवाः श्रीकृष्णं दूतरूपेण प्रेषितवन्तः। कौरवसभायां कृष्णः उक्तवान् — “अर्धराज्यं न दीयते चेत् मास्तु नाम। न्यूनातिन्यूनं इन्द्रप्रस्थादिपञ्चग्रामान् वा ददातु। उभयोः पक्षयोः मध्ये शान्तिः स्थापनीया इति उद्देशेन अहम् आगतवान्। दायादकलहः राष्ट्रस्य नाशाय भवेत्। अतः यथाकथञ्चित् सन्धिः अङ्गीकरणीयः” इति।
दुर्योधनः कृष्णस्य हितवचनानि तिरस्कृतवान्। सः स्पष्टवचनैः उक्तवान् यत् “पञ्चग्रामाः किं, सूच्यग्रमिता भूमिः अपि पाण्डवानां कृते न दीयते” इति।
तदा श्रीकृष्णः कौरवसभाम् उद्दिश्य गम्भीरवाण्या उक्तवान् — “अहम् अर्जुनस्य सारथिः भविष्यामि। तस्य रथस्य उपरि आञ्जनेयचित्राङ्किता पताका विलसिष्यति। अर्जुनः गाण्डीवधनुषं हस्ते गृहीत्वा सर्वान् भवत्पक्षीयान् तृणवत् छेत्स्यति। तदानीं भवतां पक्षे कर्णसदृशाः दशसहस्राणि महारथिनः भवन्तु नाम। तथापि युद्धरङ्गं प्रविष्टः भवदीयः यः कोऽपि ततः सजीवं न निर्गमिष्यति। इति तु निश्चितम् एव। अतः इदानीम् एवं जागरिताः भवन्तु” इति।
कृष्णस्य वचनानि श्रुत्वा कुपितः दुर्योधनः गर्जितवान् — ‘रे कृष्ण! दूतरूपेण आगतः भवान्, इदानीं पाण्डवानां पक्षस्य शौर्यं प्रशंसन् अस्मान् निन्दति वा? कियत् धैर्यं भवतः? अहम् इदानीं भवन्तं रज्ज्वा बद्ध्वा स्थापयामि। कः भवन्तं विमोचयति इति पश्यामि’ इति।
एवं वदन् दुर्योधनः रज्जुं गृहीत्वा आगतवान्। एतत् दृष्ट्वा कृष्णेन सह आगतैः सात्यकिः कोपेन खड्गं बहिः आकृष्टवान्।
तदा कृष्णः सात्यकिं समाश्वस्य दुर्योधनम् उक्तवान् — “सन्धिं सम्पादयितुम् इच्छन् अहं दूतरूपेण रिक्तहस्तः आगतवान्। एतादृशस्य मम बन्धनम् अनुचितम्। भवतः पक्षः बलशाली अस्ति। अहं तु एकाकी। यदि मां बन्धयितुम् इच्छति, तर्हि तथा करोतु नाम” इति।
अनन्तरं दुष्टचतुष्टयेन कृष्णं परितः आगत्य तं बन्धयितुं चेष्टा कृता। तदा कृष्णः स्वमहिमानं दर्शयन् विश्वरूपं धृतवान्। एतत् दृष्ट्वा भीताः दुर्योधनादयः ततः पलायितवन्तः।
सामदानादिभिः उपायैः कृष्णः कौरवपाण्डवयोः मध्ये सन्धिं सम्पादयितुं यत् प्रयत्नं कृतवान् तत् असफलं जातम्। अन्ते अनिवार्यतया युद्धं घोषितम्।
स्वकीयेन समस्तसेनाबलेन सह सर्वे राजानः कुरुक्षेत्रे सम्मिलिताः। उभयपक्षे अपि युद्धस्य सिद्धता विशेषतया प्रवृत्ता आसीत्। रथानां घण्टानादैः, सैनिकानां जयघोषैः, रणवाद्यानां शब्दैः च रणरङ्गं व्याप्तम्।
सञ्जयः दिव्यदृष्टिं प्राप्तवान् आसीत्। तद्द्वारा सः धृतराष्ट्रस्य पुरतः कुरुक्षेत्रयुद्धस्य समग्रं चित्रणं करोति स्म। जन्मान्धः पूर्वप्रेमवशीभूतः च कौरवचक्रवर्ती धृतराष्ट्रः युद्धं निवारयितुम् असमर्थः आसीत्। सः सञ्जयस्य वचनानि शृण्वन् मौनम् उपविष्टः।
पतिः अन्धः इति कृत्वा स्वयम् अपि नेत्रयोः बन्धनं कृतवती गान्धारी धृतराष्ट्रस्य पार्श्वे आसीत्। पुत्राणां विनाशस्य सम्भावनया व्यथिता सा अपि मौनं युद्धवार्तां शृणोति स्म।
समाप्तम्