त्रयः मान्त्रिकाः
नाविकनायकः युद्धार्थं स्वदासान् दास्यमुक्तान् कृतवान्। किन्तु नाविकनायकस्य पीडाभिः उद्रिक्ताः दासाः विरोधम् आचरितवन्तः, नाविकनायकं मारितवन्तः च। अनन्तरं पिङ्गलः शत्रुनौकया स्वनौकां संघट्टितवान्। एतेन सर्वे समुद्रे पतिताः। पिङ्गलः अपि समुद्रे क्षिप्तः।
समुद्रे पतितः पिङ्गलः किञ्चित् कालं जले मज्जितः। अनन्तरम् उपरि आगतवान्। तदा सः चतुर्दिक्षु स्वदृष्टिं प्रसारितवान्। ‘नौकाद्वयम् अपि नष्टम् अस्ति। तयोः काष्ठ-खण्डानि समुद्रे प्लवमानानि सन्ति’ इति सः दृष्टवान्। समुद्रे पतितानां नाविकानाम् आर्तनादः श्रूयते स्म।
समुद्रस्य तत् दृश्यं भीकरम् आसीत्। सर्वत्र विकीर्णाः काष्ठखण्डादयः तिमिङ्गिलाः इव दृश्यन्ते स्म। असहायाः असङ्ख्याः नाविकाः प्राणरक्षणार्थम् आर्तनादं कुर्वन्तः आसन्। किन्तु तत्सर्वम् अरण्यरोदनम् इव व्यर्थं जातम्। सर्वे आपदि पतिताः! कस्य रक्षणं कः करोति? एतत्सर्वं दृष्ट्वा पिङ्गलस्य मनः उद्विग्नम्।
समुद्रे भीकरतरङ्गाणां मध्ये पिङ्गलः तरणं कुर्वन् आसीत् किल? अतः सः अतीव श्रान्तः। हस्तं पादं वा चालयितुम् अपि सः असमर्थः। समीपे कुत्रापि नौकादिकम् अपि न दृश्यते। अतः साहाय्यस्य आशा अपि नास्ति। बाहुबलं विश्वस्य तरणं कर्तुम् अपि तस्य धैर्यं नास्ति। यतः परितः अपारजलराशिं विना अन्यत् किमपि न दृश्यते!
एषा दुर्दशा केवलं पिङ्गलस्य एकस्य न। शत्रुजनाः मित्रजनाः सर्वेऽपि एतादृशे सङ्कटे पतिताः सन्ति। केचन एतावति काले एव मरणवशं गताः। अन्ये केचन मृत्युना युद्धं कुर्वन्तः सन्ति।
‘कस्यां दिशि तरणं कृतं चेत् प्राणाः रक्षिताः भवेयुः?’ इति पिङ्गलः चिन्तितवान्।
अपरक्षणे अन्या एव आलोचना आगता — ‘तरणम् अपि व्यर्थम् एव स्यात्। यतः कुत्रापि भूमिः न दृश्यते’ इति। समुद्रस्य तरङ्गाः पिङ्गलम् इतस्ततः क्षिपन्तः पीडयन्तः सन्ति। मृत्युमुखं प्रविष्टाः यथा अवीराः भवन्ति तथैव आसीत् पिङ्गलस्य परिस्थितिः अपि। क्रमशः जीविताशा क्षीणा भवन्ती आसीत्। यथाशक्ति हस्तपादचालनं विना पिङ्गलस्य मनसि अन्यः उपायः न स्फुरति स्म।
पिङ्गलः एकघण्टापर्यन्तं जले मज्जन् उत्प्लवमानः च तरङ्गैः सह युद्धं कुर्वन् आसीत्। ‘इतःपरं मरणम् निश्चितम् एव ‘इति चिन्तयित्वा सः निराशः। तावति काले जले प्लवमानस्य कस्यापि वस्तुनः स्पर्शः तेन अनुभूतः। सः झटिति स्वहस्ताभ्यां तत् वस्तु दृढं गृहीतवान्।’’
तदा पिङ्गलः ‘दैवं भवन्तं सर्वदा रक्षति’ इति मातुः वचनं स्मृतवान्। प्राणापाय-परिस्थितौ पतितः सः मातुः स्मरणेन पुनरपि खिन्नः। ‘मम अनुपस्थितौ वृद्धायाः मातुः रक्षणं पोषणं च कः कुर्यात्? मातुः समीपे अपारां सम्पत्तिः दत्ता आसीत्। मन्त्रस्यूतः अपि तस्याः समीपे एव आसीत्। अतः भोजनादिविषये तु तस्याः समस्या नास्ति। किन्तु सहोदरौ न विश्वासार्हौ। कस्मिन् क्षणे ताभ्यां मातुः द्रोहः क्रियेत इति वक्तुं न शक्यते’ इति सः चिन्तितवान्।
प्लवमानम् किञ्चित् वस्तु पिङ्गलेन दृढं गृहीतम् आसीत् किल? तत् नौकायाः संघट्टनेन सुदूरं क्षिप्तं काष्ठफलकम् आसीत्। पिङ्गलस्य जीविताशा इदानीम् उज्जीविता। जले पतितस्य तृणसाहाय्यम् अपि महते लाभाय भवति किल? सः मनसा एव देवाय हृत्पूर्वकं कृतज्ञताम् उक्तवान्। काष्ठफलकं समीपे आकृष्य तस्य उपरि अधोमुखं शयनं कृतवान्। ‘समुद्रस्य तरङ्गाः कदाचित् मां कुत्रापि भूमिं प्रापयन्ति’ इति तस्य मनसि आशा दृढा जाता। प्राणभय-कारणतः सः असहनीयां बुभुक्षां, शैत्यं सर्वम् अपि विस्मृतवान्।
काष्ठफलकं तु तरङ्गानां गत्यनुसारं प्लवमानं मन्दं गच्छति स्म। पिङ्गलः तत् फलकं यथा हस्तच्युतं न भवेत् तथा सुदृढं गृहीतवान् आसीत्। भीतः सः ‘परितः किं प्रचलति’ इति ज्ञातुं प्रयत्नम् अपि न कृतवान्।
काश्चन घण्टाः अतीताः। पश्चिमे तीरे सूर्यः क्रमशः अस्तङ्गतः। अन्धकारः मन्दं मन्दं प्रसरति। पिङ्गलः एतत्सर्वं न ज्ञातवान् एव। यतः तस्य कर्णयोः केवलं समुद्रस्य निर्घोषः एव परिपूर्णः आसीत्। नेत्रयोः अनन्तनीलिमानं विना अन्यत् किमपि न प्रतिफलति स्म। शैत्यवशात् अङ्गानि काष्ठवत् जडानि आसन्।
पिपासया पिङ्गलस्य जिह्वा शुष्का जाता। अजानन् एव सः लवणमयं समुद्रजलं किञ्चित् पीतवान्। तदा उदरे पीडा आरब्धा। हस्तपादं शिथिलीकृत्य सः फलकस्य उपरि एव शयनं कृतवान्। एकत्र पिपासा! अपरत्र बुभुक्षा!! अन्यत्र आयासः प्राणभीतिः च!! अस्याम् एव अवस्थायां सः निद्रावशं गतः। बहुकालपर्यन्तं सः गाढनिद्रायां विलीनः आसीत्।
यदा पिङ्गलः नेत्रे उन्मीलितवान् तदा स्वच्छः नीलाकाशः दृष्टः। शरीरस्य उपरितनः भागः ज्वलति इव। अधस्तनभागः तु शैत्यवशात् जडः। ‘अहं कुत्र अस्मि? कस्याम् अवस्थायां अस्मि?’ इति सः न ज्ञातवान्।
परिसरं परीक्षितुम् इच्छन् सः प्रयत्नेन नेत्रे उन्मील्य परितः दृष्टवान्। एकवारं सः आश्चर्यचकितः, बहु सन्तुष्टः च। यतः तेन भूमिः प्राप्ता अस्ति। अहो! आश्रयभूता दृढा भूमिः प्राप्ता!
भूमिं दृष्ट्वा पिङ्गलस्य शरीरे शक्तिसञ्चारः जातः। सः उत्साहेन हस्तपादं इतस्ततः चालितवान्। तदा जडभूतेषु अपि अङ्गेषु एकवारं चैतन्यम् आगतम्। सः सावधानतया उत्थातुं प्रयत्नं कृतवान्।
भूमिं दृष्ट्वा एकवारं सन्तोषः जातः, सत्यम्। किन्तु सद्यः एव मनसि निराशा उत्पन्ना। एकत्र अपारः सागरः। अपरत्र विशाला मरुभूमिः! इतःपरं का गतिः?
पिङ्गलः उत्थाय स्खलन् द्वित्राणि पदानि अग्रे गतवान्। सूर्यकिरणाः नेत्रे पीडयन्ति स्म। तदर्थं नेत्रयोः उपरि हस्तं संस्थाप्य सः सुदूरं दृष्टिं प्रसारितवान्।
तदा तेन समीपे एव उड्डयमानाः गृध्राः दृष्टाः। ते सर्वे अन्यत्र गन्तुं प्रवृत्ताः इव न दृष्टाः। यतः ते वलयाकारेण एकत्र एव परिभ्रमन्तः अधः अवतरन्ति स्म।
पिङ्गलस्य मनसि आशा उदिता। सः चिन्तितवान् — ‘यत्र गृध्राः उड्डयनं कुर्वन्ति तत्र जनाः ग्रामः वा अवश्यं भवति एव’ इति। अनया आलोचनया शरीरे नवस्फूर्तिः आगता। यस्यां दिशि गृध्राः दृश्यन्ते स्म, ताम् एव दिशम् उद्दिश्य सः मन्दं मन्दं चलितुम् आरब्धवान्।
अल्पे एव काले पिङ्गलः तत् प्रदेशं प्राप्तवान्। तत्र भूमिम् आगताः ते गृध्राः किञ्चित् वस्तु आवृतवन्तः आसन्। हन्त! तत् एकं मानवशरीरम्! एतत् दृष्ट्वा पिङ्गलः भीत्या आश्चर्येण च रोमाञ्चितः।
तत्र कश्चित् पुरुषः एकस्याः शिलायाः उपरि स्थापितः आसीत्। तस्य हस्तौ पादौ च बद्धाः आसन्। तस्य पुरुषस्य चलनवलनं किमपि न दृश्यते स्म। गृध्राः मांसस्य आशया तं परितः सम्मिलन्तः आसन्।
एकक्षणं पिङ्गलः एतत्सर्वं दृष्टवान्। अनन्तरं समीपे स्थितम् एकं पाषाणं स्वीकृत्य गृध्राणाम् उपरि क्षिप्तवान्। एतेन केचन गृध्राः भीत्या आकाशम् उड्डयितवन्तः। अन्ये किञ्चित् दूरं गत्वा स्वकीयम् आहारं पश्यन्तः उपविष्टवन्तः। पिङ्गलः तस्य पुरुषस्य समीपं गतवान्। शरीरे नेत्रयोः वा कुत्रापि स्पन्दनं न दृश्यते। तथापि ‘प्राणाः भवेयुः’ इति आशया पिङ्गलः तस्य वक्षस्थले हस्तं स्थापयित्वा परीक्षितवान्। हृदयम् अपि चलनरहितम् आसीत्। निश्चयेन सः पुरुषः मृतः एव!
‘अस्यां मरुभूमौ कः केन कारणेन एतं पुरुषम् एवं क्रूररीत्या मारयित्वा गतवान्?’ इति पिङ्गलः ऊहितुम् अपि न शक्तवान्। किन्तु तदा अन्यः एकः विचारः स्फुरितः — ‘निर्जनायाम् अस्यां मरुभूमौ समीपे कुत्रापि जनवसतिः अवश्यं अस्ति एव। किन्तु जनाः स्वभावतः क्रूराः भवेयुः’ इति।
‘इदानीम् अग्रे किं करणीयम्?’ इति पिङ्गलः बहुधा चिन्तितवान्। सर्वप्रथमं तु पिपासानिवरणार्थं जलम् अन्वेष्टव्यम्। अनन्तरम् आहारः अपि अन्वेष्टव्यः। जलेन आहारेण च विना मरणं भवेत्। मूर्च्छा तु भवति एव। तदा अत्रत्याः प्राणिनः आक्रमणं कृत्वा मारयेयुः। अतः आत्मरक्षणार्थं शक्तिः सम्पादनीया। एवं तर्हि जलार्थम् आहारार्थं च कुत्र गन्तव्यम्? सागरसदृश्यां मरुभूमौ कस्यां दिशि जनाः मिलेयुः? जनाः मिलिताः चेदपि ते दयापराः भवेयुः। अन्यथा दुर्गतिः एव शरणम्!
एवं समस्याभिः ग्रस्तः पिङ्गलः इतस्ततः पश्यन् आसीत्। तदा मरुभूमौ सञ्चारं कुर्वाणः कश्चित् उष्ट्रदलस्य नायकः दूरदर्शकसाहाय्येन पिङ्गलं दृष्टवान्। तथैव मृतं पुरुषं परितः उड्डयमानान् गृध्रान् अपि दृष्टवान्।
नायकस्य आज्ञानुसारम् उष्ट्रदलीयाः जनाः वेगेन पिङ्गलसमीपम् आगतवन्तः। उष्ट्राणां वेगगत्या सर्वत्र धूलिः व्याप्ता।
दूरे उत्पद्यमानां धूलिं दृष्ट्वा पिङ्गलः एकक्षणं चकितः। यदा उष्ट्रदलं समीपे आगतं, तदा सः वस्तुस्थितिं ज्ञातवान्। तान् जनान् दृष्ट्वा तस्य मनसि उत्साहः। किन्तु ते लुण्ठाकाः चेत् किं करणीयम् इति भीतिः। कुत्रापि निलीनः भवितुम् अपि मरुभूमौ तत्र गुप्तस्थलं किमपि नास्ति। अस्ति चेदपि धावितुं शक्तिः अपि नास्ति। वस्तुतः सः इदानीम् एकं पदम् अपि चलितुं न समर्थः।
उष्ट्रदलं पिङ्गलस्य समीपम् आगत्यस्थितम्। नायकस्य आज्ञानुसारं सर्वे उष्ट्रात् अवतीर्य पिङ्गलं परितः स्थितवन्तः। मौनेन स्थितं पिङ्गलं पश्यन् उष्ट्रदलस्य नायकः गम्भीरस्वरेण पृष्टवान् — ‘अये, भवान् मरुभूमिचोरस्य भैरवस्य अनुचरः न किल’? इति।
अनन्तरं मृतं पुरुषं समीपतः पश्यन् सः स्वसहचरान् उद्दिश्य उक्तवान् — ‘मृतः एषः अस्मदीयः एव दुर्गरक्षकः। अन्ये कुत्र गताः? अस्मदीयं दुर्गं भैरवस्य वशंगतं न स्यात् किल?’ इति।
एतन्मध्ये उष्ट्रदलीयः कश्चित् सैनिकः शूलं पिङ्गलस्य पृष्ठे स्थापयित्वा गर्जितवान् — ‘सत्यं वदतु, भवतः नायकः भैरवः कुत्र अस्ति?’ इति।
पिङ्गलः अस्य प्रश्नस्य अर्थम् एव न ज्ञातवान्। प्रायः भैरवनामकः पुरुषः लुण्ठकजनानां नायकः स्यात्। एवं चेत् एते के? किं सैनिकाः उत देश-विदेशं सञ्चरन्तः वणिजः?
एवं चिन्तयित्वा पिङ्गलः उक्तवान् ‘अहं यस्य कस्यापि पक्षस्य सम्बन्धी न। अहं कश्चित् हतभाग्यः जनः। झञ्झावातकारणतः अस्माकं नौका समुद्रे भग्ना। भगवतः कृपया अहं जीवितः, एतत् तीरं प्राप्तवान् च। अहं दूरतः एतं मृतपुरुषं दृष्टवान्। कदाचित् जीवितः स्यात् इति चिन्तयित्वा रक्षणार्थम् आगतवान्। एषा मरुभूमिः का? एषः कः देशः। इत्यादिकम् अहं किमपि न जानामि’ इति।
एतत् श्रुत्वा उष्ट्रदलस्य नायकः पुनः एकवारं पिङ्गलं परीक्षादृष्ट्या पश्यन् उक्तवान् — “भवतः वचनं सत्यम् अस्ति चेत् भीतिः मास्तु। किन्तु भवतः वचनम् असत्यं चेत्, व्यवहारः कपटतापूर्णः चेत्, सद्यः एव भवान् गृध्राणाम् आहारः भविष्यति। इदानीं भवान् यत्र अस्ति, सः एषः प्रदेशः आफ्रिका समुद्रतीरे स्थितः अरबप्रदेशः। अहं महाराजस्य उष्ट्रदलस्य नायकः। इदानीं भवान् निर्भयेन — ‘भवतः नौका कथं भग्ना? भवान् कथम् अत्र आगतः’ इत्यादिकं वदतु” इति।
एते जनाः न लुण्ठाकाः, अपितु राजपक्षीयाः इति ज्ञात्वा पिङ्गलस्य महान् सन्तोषः जातः। महाराजस्य तत्पक्षीयाणां च स्वभावः यथाकथम् अपि भवन्तु नाम, इदानीं मरणभीतिः तु दूरं गता। अतः सः चिन्तितवान् — ‘अहं मदीयां सर्वां कथां वदामि। अग्रजयोः नाविकनायकस्य वञ्चनां वदामि चेत् एते विश्वसन्ति’ इति।
पिपासाकारणतः पिङ्गलस्य मुखं शुष्कम् अस्ति। अतः सः किमपि वक्तुं न शक्नोति-स्म। तदर्थम् एकेन सैनिकेन दत्तं जलं पीत्वा सः, नाविकनायकेन कृतां वञ्चनां, शत्रूणाम् आक्रमणं, नौकायाः नाशं, सर्वं सविस्तरम् उक्तवान्।
तदा सः सेनानायकः तूष्णीं प्रकटयन् पुनरपि पृष्टवान् — ‘तर्हि एतत् तु सत्यं यत् आक्रमणकारिणां नौकायाम् अपि दासाः आसन्’ इति।
‘आम्, तत्र संशयः एव नास्ति। अहं यदा आक्रमणकारिभिः सह सन्धिं सम्पादयितुं सम्भाषणं कृतवान्, तदा तेषाम् उत्तरेण ज्ञातं यत् साऽपि नौका दासविक्रेतॄणाम् इति। अतः एव ते मया सह सन्धिं निराकृतवन्तः’ इति।
एतत्सर्वं सत्यम् इति अङ्गीकुर्वन् सेनानायकः उक्तवान् — “मम नाम हसन् गोरी। भवान् अपि अनेकेषु युद्धेषु नायकत्वं निरूढवान्। अतः भवान् मां नाम्ना एव आह्वातुं शक्नोति। भैरवनाथनामकः कश्चित् लुण्ठाकः अत्र अस्ति। तं नाशयितुं वयं सर्वे अत्र मरुभूमौ सभां कुर्वन्तः स्मः। एषः मृतः पुरुषः अपि अस्मदीयः एव। सः अस्यां मरुभूमौ स्थितस्य एकस्य दुर्गस्य रक्षकेषु अन्यतमः आसीत्। भैरवः एतं कथं बन्दिनं कृतवान् इति अहं न जानामि। दौर्भाग्यवशात् दुर्गं भैरवस्य वशे आगतं स्यात् वा? इति मम संशयः” इति।
अनन्तरं सैनिकान् उद्दिश्य सः उक्तवान् — “एतत्क्षणात् आरभ्य एषः अपि अस्मासु एकः। मन्दभाग्यः एषः बुभुक्षितः अस्ति। अतः प्रथमं भोजनार्थं पानार्थं च व्यवस्थां कुर्वन्तु। प्रथमम् एषः किञ्चित् बलं प्राप्नोतु” इति।
हसनस्य वचनं श्रुत्वा पिङ्गलः आनन्दतुन्दिलः अभवत्। सैनिकाः खादनार्थं रोटिकाः आनीय, पिङ्गलस्य पुरतः प्रीत्या आदरेण स्थापितवन्तः। पातुं मधुरं जलम् एकेन कुम्भेन आनीय पिङ्गलस्य हस्ते दत्तवन्तः। बुभुक्षितः च पिङ्गलः रोटिकाः मधुरं जलं च दृष्ट्वा अतीव सन्तुष्टः अभवत्। देवं मनसा एव अभिवन्दितवान्। अहो! देवस्य गतिः विचित्रा इति मनसि एव पुनः पुनः उक्तवान्। सद्यः काले तु एष हसनः एव मम देवः इति तम् अपि मनसा अभिनन्दितवान्। अनन्तरं सः सैनिकैः दत्तम् आहारं खादित्वा जलं यथेष्टं पीतवान्। ततः उत्साहितः सः प्रयाणार्थं सिद्धः अभवत्।
तदा हसनगोरी एकम् उष्ट्रं प्रदर्श्य पिङ्गलम् उक्तवान् — “इतः परं एषः उष्ट्रः भवतः वाहनम्। वयम् इदानीम् इतः गच्छामः। भैरवः दुर्गं वशीकृतवान् वा? इति मम संशयः”
अनन्तरं सः एकं सैनिकम् आज्ञापितवान् “एतं शवम् उष्ट्रस्य उपरि स्थापयन्तु। अस्मदीयः शवः गृध्राणाम् आहाराय न भवेत्” इति।
सैनिकाः शवम् एकस्य उष्ट्रस्य उपरि स्थापितवन्तः। सः शवः गमनसमये पतितः भवेत् इति अपरः उष्ट्रम् आरुह्य शवं हस्तेन गृहीतवान्। अन्ये सर्वे अपि स्वीयान् उष्ट्रान् आरूढवन्तः। पिङ्गलः अपि एकेन सैनिकेन आनीय दत्तम् उष्ट्रम् आरूढवान्। एवं सर्वे अपि प्रयाणार्थं सिद्धाः अभवन्।
शीघ्रम् एव तत् दलं ततः प्रस्थितम्। ते सैनिकाः मरुभूमौ कष्टेन प्रयाणं कुर्वन्तः सूर्यास्तसमये दुर्गस्य समीपम् आगताः। यत्र सर्वेषां जनानां गमनागमनम् अविरतं दृश्यते स्म तत्र इदानीं भीकरं मौनं व्याप्तम् अस्ति।
हसनगोरी परितः दृष्ट्वा भ्रुकुटिम् आकुञ्चयन्, दुर्गस्य दिशि हस्तं प्रदर्शितवान्।
अनुवर्तते