एकम् एव दुर्व्यसनम्
एकस्मिन् ग्रामे आनन्दः नाम महान् पण्डितः आसीत्। तस्य सुधामः नाम तरुणः पुत्रः। किन्तु तस्मिन् ग्रामे कोऽपि तस्मै कन्यां दातुं न सिद्धः। कदाचित् गोविन्दः नाम सहपाठी आनन्दस्य गृहम् आगतवान्। सः स्वपुत्र्याः विवाहार्थं वरान्वेषणं कुर्वन् आसीत्।
वहोः कालात् अनन्तरम् आगतं मित्रं दृष्ट्वा आनन्दस्य बहु सन्तोषः अभवत्। द्वावपि वाल्यदिनानि स्मृत्वा वार्तालापं कृतवन्तौ।
तदा गोविन्दः पुत्र्याः विषयम् उक्त्वा “भवतः पुत्रः एव मम पुत्र्याः पाणिग्रहणं करोति चेत् समीचीनम्। तथापि सुधामस्य कोऽपि कन्यां न ददाति इति वार्ता श्रुता। तत्र किं कारणम्? सुधामस्य दुर्व्यसनादिकम् अस्ति वा?” इति आनन्दः पृष्टवान्।
“भवान् एव केनापि व्याजेन तं पृष्ट्वा आगच्छतु” इति उक्तवान् आनन्दः।
सायङ्काले गोविन्दः सुधामम् एकान्ते पृष्टवान् — “एकः सामान्यः विषयः। अन्यथा मा भावयतु। भवतः यत्किमपि दुर्व्यसनम् अस्ति वा?”।
“नैव, दुर्व्यसनं किमपि नास्ति” इति सुधामः उक्तवान्।
गोविन्दः एतं विषयम् आनन्दस्य समीपं उक्तवान्। तदा आनन्दः हसन् “मम पुत्रस्य एकमेव दुर्व्यसनं यत् असत्यकथनं नाम” इति उक्तवान्।
समाप्तम्