धर्मकार्याणि
नागपुरस्थः चन्द्रगुप्तः इति कश्चित् वणिक् समुद्रमार्गेण रत्नवाणिज्यम् अपि करोति स्म। सः अतीव कृपणः। धर्मकार्यार्थं किञ्चिदपि न ददाति स्म।
एवं सत्यपि सः “अहं कृपणः इति मा भावयन्तु। दानधर्मादिसत्कार्याणि कर्तुं भवि-ष्यत्काले मम महान् अवकाशः अस्ति एव” इति पुनः पुनः वदति स्म।
एकदा कश्चित् अर्चकः चन्द्रगुप्तस्य समीपम् आगत्य “शिथिलस्य देवालयस्य परिष्कारं कर्तुं धनसाहाय्यं करोतु” इति प्रार्थितवान्। धनं दातुं चन्द्रगुप्तस्य इच्छा न आसीत्। तथापि अर्चकस्य विषये करुणया शतदीनारान् आनीय दत्तवान्।
तस्मिन्नेव समये चन्द्रगुप्तस्य लिपिकारः धावन् तत्र आगतवान्। ‘चण्डमाहतेन भवतः नौका बहुमूल्यवस्तुभिः सह समुद्रतलं प्राप्तवती’ इति दुर्वार्तां उक्तवान् च।
तदा चन्द्रगुप्तः अर्चकं दृष्ट्वा “अन्यथा न भावयतु” इति सम्प्रार्थ्य साहाय्यार्थं दत्तान् शतदीनारान् पुनः गृहीत्वा प्रकोष्ठस्य अन्तः गतवान्। इदानीं सन्दर्भः अनुकूलः नास्ति इति चिन्तयन् अर्चकः प्रतिगन्तुं उद्युक्तः। तदा चन्द्रगुप्तः पुनः बहिः आगत्य सहस्रदीनारयुक्तां प्रनिधिम् अर्चकस्य हस्ते दत्वा उक्तवान् — “यदा सम्पत्तिः अस्ति तदा एव-सत्कार्यम् अवश्यं करणीयम् इति भगवान् मां पाठयन् अस्ति” इति।
समाप्तम्