विष्णुकथा — कृष्णस्य विजयः
यथा यथा कृष्णः वर्धितः तथा तस्य शत्रूणां सङ्ख्या अपि वर्धिता। तादृश-कृष्णविरोधिनां दुष्टराजानां प्रमुखौ शिशुपालः जरासन्धः च। पौण्ड्रकः करूरदेशस्य राजा। सः कृतकहस्तान् निर्माप्य तेषु शङ्खं चक्रं च धृत्वा बृहतीं गदाम् अपि धृत्वा “अहमेव विष्णुः, अहमेव वासुदेवः” इति सर्वत्र उद्घोषयति स्म।
साल्वः इति शिशुपालस्य भ्राता कश्चित् आसीत्। सः ‘सौभकम्’ इत्यस्मिन् विमाने द्वारकानगरस्य उपरि विहारं कुर्वन्, युद्धार्थम् अवकाशं प्रतीक्षते स्म। पूर्वदिशि नरकासुरः साटोपं विराजते स्म। दक्षिणदिशि विद्यमाने शोणपुरे बाणासुरः शासनं करोति स्म। बाणासुरः बलिचक्रवर्तिनः पुत्रः। साक्षात् शिवः एव तस्य राज्यस्य रक्षणं करोति स्म।
तेन गर्वितः सः स्वराज्यात् बहिः अपि शासनं कर्तुं प्रयत्नं करोति स्म।
कालान्तकः, काल्यवनस्य अनुजः। ‘केनापि जीविना भवतः मरणं न भवति’ इति कथन दैवज्ञः तम् उक्तवान् आसीत्। तेन वचनेन मदोन्मत्तः सः, म्लेच्छ-यवन-सैन्यसहितः सन् दारुणं रक्तपातं करोति स्म। विग्रह-शिल्पादीन् भञ्जयन् देशे सर्वत्र लुण्ठनं करोति स्म। कृष्णस्य मारणम् एव तस्य लक्ष्यम् आसीत्।
एवमेव सर्वत्र आक्रमणं कुर्वन् सः गान्धारदेशं प्राप्तवान्। तत्र एकं अमृतशिलानिर्मितं जगन्मोहकमोहिनीशिल्पम् आसीत्। तत् दृष्ट्वा कालान्तकः तस्य सौन्दर्येण व्यामुग्धः अभवत्। कृष्णः तत् शिल्पं विश्वकर्मद्वारा निर्माप्य तस्य अन्तः स्व-योगमायाग्निं प्रवेशितवान् आसीत्। परन्तु एतं विषयं कालान्तकः न जानाति स्म।
कालान्तकः तत् मोहिनीशिल्पं नीत्वा स्वन्तःपुरे स्थापितवान्। तत् पश्यन् प्रतिदिनं सः चिन्तयति स्म यत् ‘यदि एतस्य प्राणाः भवन्ति तर्हि कथं स्यात्?’ इति।
एकदा रात्रिसमयः। सुप्तः कालान्तकः मुरलीगानस्य लयानुगुणं नूपुरशब्दं श्रुत्वा जागरितः। उत्थाय सः दृष्टवान् यत् तस्य शिल्पस्य स्थाने एका अद्भुतसुन्दरी नाट्यं कुर्वती अस्ति! मोहावेशपीडितः कालान्तकः समीपं गत्वा तां सुन्दरीम् आलिङ्गितवान्। परन्तु तत्क्षणम् एव सा सुन्दरी पुनः शिल्परूपम् एव प्राप्तवती। शिल्पस्य हस्ताभ्यां बद्धः कालान्तकः तत्रैव दग्धः।
शिल्पस्य हस्तद्वयम् अपि भग्नम्। केवलं हस्तरहितं शिल्पम् अवशिष्टम्।
तदनन्तरं कालान्तकस्य सेनया सह कृष्णः युद्धं कृतवान्। भीता सा सेना बहुदूरं धाविता। तस्मिन् एव समये तत्र विद्यमानः अग्निपर्वतः स्फोटितः, यस्य ज्वालाभिः यवनराज्यम् एव भस्मीभूतम्।
एवं पश्चिमदिशि स्थितानां म्लेच्छानां यवनानां च विद्रोहः स्थगितः। परन्तु पूर्वदिशि विद्यमानस्य प्राग्ज्योतिषपुरस्य महाराजस्य नरकासुरस्य प्रजापीडनकार्यं तु तथैव प्रचलति स्म।
यदा विष्णुः वराहावतारं धृतवान् आसीत् तदा तेन भूदेव्याम् उत्पन्नः पुत्रः एव नरकासुरः। सः प्राग्ज्योतिषपुरं स्व-राजधानीं कृत्वा शासनम् आरब्धवान्। असुरसेनाभिः सह देवलोकम् आक्रम्य युद्धं कृतवान्। युद्धे तेन एव जयः प्राप्तः। सः देवमातुः अदितेः कर्णकुण्डलद्वयं बलात्कारेण आनीतवान्। अनन्तरं सः ऋषीन् साधुजनान् च निर्दयं पीडयति स्म। सः षोडशसहस्रकन्याः बद्ध्वा आनीय कारागृहे स्थापितवान् आसीत्।
नरकासुरस्य दुराचारैः सन्तप्ताः देवताः मुनयः च कृष्णं शरणम् गतवन्तः। कृष्णः तेषाम् अभयदानं कृतवान्। नरकासुरस्य वधार्थं सः प्रस्थितः। तेन सह सत्यभामा अपि प्रस्थिता। नरकासुरेण वरं प्राप्तम् आसीत् यत् ‘यदि स्वमात्रा भूदेव्या व्रणितः भवति, तर्हि एव तस्य मरणम्’ इति। सत्यभामा तु भूदेव्याः अंशतः एव उत्पन्ना आसीत्।
कृष्णः सत्यभामया सह गरुडवाहनेन प्राग्ज्योतिषपुरं प्राप्तवान्। असुरसेनायाः उपरि आक्रमणं कृत्वा बहून् असुरान् मारितवान्।
अन्ते नरकासुरः मदगजम् आरुह्य युद्धार्थम् आगतवान्। तेन सह युद्धं कुर्वन् यदा कृष्णः श्रान्तः, तदा सत्यभामा घोरयुद्धं कर्तुम् आरब्धवती।
युद्धे सा सर्वबलम् अपि उपयुज्य एकं बाणं प्रयुक्तवती। तेन बाणेन नरकासुरस्य वक्षस्थलं छिन्नम्। “अम्ब!” इति वदन् नरकासुरः भूमौ पतितवान्। पुनः उत्थाय सर्वसाहसेन गदां गृहीत्वा कृष्णं मारयितुं प्रयत्नं कृतवान्। तदा कृष्णः चक्रायुधेन तस्य शिरच्छेदनं कृतवान्। तत् च छिन्नं शिरः विष्णुस्तुतिं कृत्वा कृष्णं वरं प्रार्थयते यत् ‘लोकस्य सर्वे अपि जनाः मां स्मरेयुः’ इति।
“तथास्तु” इति कृष्णः वरं दत्तवान्। ततः आरभ्य नरकासुरस्य संहारदिने ‘नरकचतुर्दशी’ इति उत्सवस्य आचरणम् आरब्धम्। तदनन्तरदिने नरकपरिपालनस्य अन्त्यम् अभवत् इति कृत्वा दीपावली उत्सवस्य अपि आचरणम् आरब्धम्।
भगदत्तः नरकासुरस्य पुत्रः। कृष्णः भगदत्तस्य अभिषेकं कृतवान्। अनन्तरं सः अदितेः कुण्डलद्वयं गृहीत्वा सत्यभामया सह द्वारकाम् आगतवान्।
एकस्मिन् दिने कृष्णः रुक्मिणीदेव्याः मन्दिरे आसीत्। तदा तत्र आगतः नारदः एकं पारिजातपुष्पं कृष्णस्य हस्ते दत्तवान्। कृष्णः तेन पुष्पेण रुक्मिण्याः केशालङ्कारं कृतवान्।
एतं विषयं ज्ञात्वा सत्यभामा क्रुद्धा। तदा कृष्णः तां सान्त्वयन् उक्तवान् — ‘चिन्तां न करोतु। एकपारिजातपुष्पेण किम्? पारिजातवृक्षम् एव आनीय भवत्याः मन्दिरे आरोपयामि’ इति।
अदितेः कुण्डलप्रत्यर्पणव्याजेन कृष्णः सत्यभामया सह, गरुडवाहनेन देवलोकं गतवान्। अदितिं दृष्ट्वा कुण्डलद्वयं समर्पितवान्। अनन्तरं नन्दनवनम् आगतवान्। तत्र स्थितं पारिजातवृक्षं दृष्ट्वा तत् उत्पाट्य गरुडस्य उपरि स्थापितवान्। भूमिं प्रति गन्तुं प्रस्थितः च।
एतां पारिजातापहरणवार्तां श्रुत्वा देवेन्द्रः युद्धार्थम् आगतवान्। सः कृष्णस्य उपरि वज्रायुधं प्रयुक्तवान्। तेन गरुडस्य पक्षः ताडितः। गरुडः तु वज्रायुधं अधः पातितवान्।
एवं देवेन्द्रस्य गर्वभङ्गः अभवत्। सः उक्तवान् — ‘यावत् पर्यन्तं कृष्णः भूमौ तिष्ठति, तावत् पर्यन्तम् अपि पारिजातवृक्षः भूमौ तिष्ठतु’ इति।
सत्यभामायाः अन्तःपुरस्य उद्यानं पारिजातपुष्पाणां सुगन्धेन पूरितम्।
श्रीकृष्णस्य पुत्राः न आसन्। अतः सः कैलासं गत्वा तपः आचरितवान्। शिवस्य अनुग्रहं प्राप्तवान्। तस्मिन् समये साल्वः पौण्ड्रकः च द्वारकाजनान् पीडयन् आसीत्। कृष्णः तयोः संहारं कृतवान्। यदा दन्तवक्त्रः मृतानाम् अन्तिमसंस्कारं कुर्वन् आसीत् तदा कृष्णः तस्य पुरतः गतवान्। दन्तवक्त्रः गदां गृहीत्वा कृष्णं मारयितुम् उद्युक्तः। परन्तु कृष्णः तस्य एव संहारं कृतवान्। तदा तस्य देहे यः विजयस्य अंशः आसीत् सः कृष्णस्य देहे विलीनः अभवत्।
कृष्णस्य प्रद्युम्नादयः अनेके पुत्राः जाताः। प्रद्युम्नस्य कुमारः अनिरुद्धः। बाणासुरस्य पुत्री उषा स्वप्ने एतम् अनिरुद्धं दृष्टवती। तेन मोहिता च। तस्याः सखी चित्रलेखा ‘शाम्बरि’विद्याप्रभावतः अनिरुद्धं उषायाः अन्तःपुरम् आनीतवती। अनन्तरं गान्धर्वविधिना उषा-अनिरुद्धयोः परिणयः अभवत्।
बाणासुरः स्वपुत्र्याः अन्तःपुरे स्थितम् अनिरुद्धं नागपाशेन बद्ध्वा कारागृहे स्थापितवान्। पुत्रस्य रक्षणार्थं कृष्णः बाणासुरेण सह युद्धे कृतवान्। बाणासुरे रक्षयितुं शिवः कृष्णेन सह युद्धं कृतवान्। परन्तु शिवः पराजितः।
बाणासुरस्य सहस्त्रं हस्ताः आसन्। तेषु केवलं हस्तद्वयं त्यक्त्वा अन्यान् हस्तान् कृष्णः छेदितवान्। अनन्तरं बाणासुरः कृष्णं शरणम् आगतवान्। उषा-अनिरुद्धयोः विवाहः वैभवेन अभवत्।
एतेन उत्तरदेशीयेन राज्ञा सह अपि कृष्णस्य सम्बन्धः वर्धितः। अतः समग्रे देशे ऐक्यं सम्पादितम्।
कृष्णः धर्मात्मनां पाण्डवानां सहायकः आसीत्। सः स्व-भगिन्या सुभद्रया सह अर्जुनस्य विवाहं कृतवान्।
खाण्डववन-दहनसमये कृष्णार्जुनौ तत्र स्थितं राक्षसशिल्पिनं मयं रक्षितवन्तौ। तेन सन्तुष्टः मयः पाण्डवानां कृते अद्भुतं सभाभवनम् एकं निर्माप्य ददामि इति वचनं दत्तवान्। अग्निदेवः कृष्णस्य कृते सुदर्शनचक्रं, पाञ्चजन्यनामकं शङ्खं अर्जुनस्य कृते गाण्डीवनामकं धनुः, अक्षयतूणीरं, देवदत्तनामकं शङ्खं च दत्तवान्।
युधिष्ठिरः राजसूययागस्य शुभारम्भं कृतवान्। इदानीं जरासन्धस्य संहारसमयः सन्निहितः।
कृष्णः, भीमः, अर्जुनः च वेषान्तरं धृत्वा अतिथीनां रूपेण जरासन्धस्य गिरिव्रजनगरं प्रविष्टवन्तः।
तस्मिन् काले बकासुरः, दुर्योधनः, कीचकः भीमः, जरासन्धः एते समानशक्तिशालिनः आसन्। कृष्णः जानाति स्म यत् एतेन अन्यतमेन अन्येषां चतुर्णां वधः भवति इति। भीमः पूर्वमेव बकासुरस्य वधं कृतवान् आसीत्। अतः भीमः एव जरासन्धस्य वधं कर्तुं समर्थः। इति कृष्णः चिन्तितवान्। अस्त्रेण शस्त्रेण वा तस्य मारणं न शक्यम् आसीत्। परन्तु तस्य शरीरस्य द्वेधा विदारणेन एव शक्यम् आसीत्।
कृष्णः जरासन्धम् उक्तवान् — “वयं भवतः अतिथयः। भवान् अस्मासु अन्यतमेन सह मल्लयुद्धं करोतु। तदेव अस्माकम् आतिथ्यम्” इति।
जरासन्धः उक्तवान् — “भोः कृष्ण! भवान् पूर्वम् एव मया पराजितः सन्, प्रवर्षणगिरिं धावितवान्। अर्जुनः तु इतोडपि दुर्बलः। भीमः एव मया सह युद्धं करोतु” इति।
भीमजरासन्धयोः मध्ये महत् मल्लयुद्धं संवृत्तम्। घोरयुद्धे भीमः जरासन्धम् अधः पातितवान्। अनन्तरं कृष्णस्य संज्ञानुसारं जरासन्धस्य शरीरं द्वेधा विदारितवान्। तत् भागद्वयम् अपि दूरे क्षिप्तवान्। एवं जरासन्धस्य वधः अभवत्।
युधिष्ठिरः राजसूययागं कृतवान्। तस्मिन् यागे भीष्मस्य सूचनानुसारं, कृष्णस्य अग्रपूजाताम्बूलं दत्तम्।
तस्यां सभायाम् उपस्थितः शिशुपालः एतत् असहमानः धृष्टवचनैः कृष्णं निन्दितुम् आरब्धवान्। खड्गं गृहीत्वा कृष्णं पाण्डवान् च मारयितुं सः सिद्धः। शिशुपालस्य शतं निन्दनवाक्यानि अपि कृष्णः मौनं सोढवान्। परन्तु शिशुपालस्य मुखतः यदा अनन्तरवाक्यं निर्गतं तदा कृष्णः तस्य उपरि सुदर्शनचक्रं प्रयुक्तवान्। शिशुपालस्य शिरच्छेदः अभवत्। तदा शिशुपालस्य शरीरे यः जयस्य अंशः आसीत् सः बहिः आगत्य कृष्णस्य शरीरे विलीनः अभवत्। एवं जयविजययोः तृतीयं जन्म समाप्तम्। तौ वैकुण्ठं गतवन्तौ।
मयः पाण्डवानां कृते एकम् अद्भुतसभाभवनं निर्माप्य दत्तवान् आसीत्। तत् दृष्ट्वा दुर्योधनः आश्चर्यचकितः। तत् द्रष्टुं यदा गतवान्, तदा सः तत्रत्य-भ्रमजनक-रचनादिभिः अपमानितः। जलं स्थलम् इति भ्रान्तवान्! स्थलं जलम् इति भ्रान्तवान्। तस्य भ्रान्तिं दृष्ट्वा द्रौपदी हसितवती। अनेन दुर्योधनः बहु व्याकुलः। शकुनिः तं समाश्वस्य उक्तवान् — “वयम् अपिमार्गान्तरेण पाण्डवानाम् अपमाननं कुर्मः” इति। अनन्तरं तस्य सूचनानुसारम् एव द्यूतप्रसङ्गः संवृत्तः।
कुचेलः कृष्णस्य बाल्यमित्रम्। कृष्णः बलरामः कुचेलः च बाल्ये सान्दीपिनिमहर्षेः गुरुकुले सहाध्यायिनः आसन्।
कुचेलस्य बहुजनाः पुत्राः पुत्र्यः च। सः तु इदानीं बहुदरिद्रः आसीत्। एकदा तस्य पत्नी तम् उक्तवती — “कृष्णस्य समीपं गत्वा साहाय्यं प्रार्थयतु” इति। ‘अस्तु’ इति कुचेलः अङ्गीकृतवान्। कृष्णस्य कृते दातुं पत्न्या दत्तं किञ्चित् पृथुकं स्वीकृत्य सः प्रस्थितवान्।
कुचेलस्य आगमनसमये कृष्णः द्वारकानगरस्य सौधाग्रे अष्टपत्नीभिः सेव्यमानः क्रीडन् आसीत्। कुचेलं दूरतः दृष्ट्वा सः उत्थाय पादाभ्याम् एव तस्य समीपं गतवान्। कुचेलं गाढम् आलिङ्गितवान्। तमानीय स्व-सिंहासने उपवेशितवान्।
कृष्णस्य अष्टपत्न्यः अपि कुचेलस्य सत्कारं कृतवत्यः। तासाम् उपचारेण, कृष्णस्य आदरेण च आनन्दितः कुचेलः आगमनकार्यम् एव विस्मृतवान्। परन्तु कृष्णः तस्य हस्ते विद्यमानं पृथुकस्य स्यूतं दृष्टवान्। सः तं स्यूतं स्वीकृत्य मुष्टिपरिमितं पृथुकं आनन्देन खादितवान्। अवशिष्टान् पृथुकान् पत्नीनां कृते दत्तवान्।
कृष्णस्य आतिथ्येन कुचेलः बहु सन्तुष्टः। सः कृष्णं किमपि साहाय्यं न पृष्टवान् एव। केवलं कृष्णस्य सद्गुणान् स्मरन् प्रतिनिवृत्तः। परन्तु इदानीं तस्य गृहम् एतावत् परिवर्तितम् आसीत् यत् सः एव स्वगृहं ज्ञातुं कष्टम् अनुभूतवान्।
तस्य गृहम् इदानीं रजतकनकादि-सकलैश्वर्ययुक्तं बृहत् भवनम् इव परिवर्तितम्। तस्य पत्नी-पुत्रादयः सर्वे अपि नूतनवस्त्राणि आभरणानि च धृत्वा आनन्देन तस्य प्रतीक्षां कुर्वन्ति स्म। कुत्रापि दारिद्र्यस्य नाम अपि न आसीत्।
अनन्तरं ते सर्वे अपि अनुदिनं कृष्णस्य कृपातिशयं स्मरन्तः बहुकालपर्यन्तं सुखेन जीवितवन्तः। दानधर्मादिभिः अन्येषाम् अपि साहाय्यं कृतवन्तः।
समाप्तम्