वैद्यस्य त्वरा
वैद्यः कश्चित् पुत्र्याः विवाहविषये वार्तालापं कर्तुं पार्श्वग्रामं गतवान्। तत्र वैद्यस्य ग्रामीणः कश्चित् वैद्यं दृष्ट्वा उक्तवान् — “‘अस्माकं ग्रामस्य धनिकः भूपेन्द्रः अतीव ज्वरेण पीडितः।’”
श्रवणसमनन्तरम् एव वैद्यः यथेष्टं भाटकं दत्त्वा अश्वशकटम् आरुह्य स्वग्रामसमीपे अवतीर्य, अन्तर्मार्गे प्रस्थितवान्। मार्गे मध्ये नाविकाय अधिकधनं दत्त्वा जलेन पूर्णां नदीं समुत्तीर्णवान्।
त्वरितगतया गृहम् आगत्य औषधपेटिकां स्वीकृत्य भूपेन्द्रस्य गृहं गतवान्।
ज्वरेण पीडितस्य भूपेन्द्रस्य औषधोपचारं कृत्वा, यथा आगतवान् तथा एव त्वरितगतया पार्श्वग्रामं प्रत्यागतवान्।
एतत्सर्वं दृष्ट्वा तद्ग्रामीणाः केचित् श्लाघमानाः — ‘वैद्याचार्य! भवादृशः एतस्मिन् काले दुर्लभः। रोगिणां विषये भवतः श्रद्धा गौरवं च अन्यादृशम् एव’ इति उक्तवन्तः।
वैद्यः शिरः कम्पयन् उक्तवान् — ‘श्रद्धां गौरवं च एतत्काले कः आद्रियते? मम औषधं विना अपि भूपेन्द्रः रोगात् मुक्तः भविष्यति एव। इतःपूर्वं द्विवारं तथा जातम्। अतः एव शीघ्रं गत्वा औषधं दत्तवान्। ‘मम औषधेन एव रोगात् मुक्तः अहम्’ इति भूपेन्द्रः मन्यते। इदानीं तस्य समीपे धनं यथेष्टं प्रष्टुं शक्यते किल?’ इति उक्तवान्।
समाप्तम्