त्रयः मान्त्रिकाः
पिङ्गलस्य अग्रजौ गृहस्य समग्रसम्पत्तिं परस्परं विभज्य स्वीकृतवन्तौ। किन्तु मन्त्रस्यूतविषये विवादः उत्पन्नः। वार्तां श्रुत्वा राजा उभौ अपि कारागारे स्थापितवान्। अन्यत्र पिङ्गलेन यस्यां नौकायां स्थितम् आसीत्, तस्याः नौकायाः अन्यनौकायाः च मध्ये युद्धम् आरब्धम्। नाविकनायकः सर्वेषाम् अपि दासानां हस्ते खड्गं दत्तवान्।
नाविकनायकस्य आज्ञानुसारं सर्वे दासाः बन्धनात् मोचिताः। नौकारक्षणार्थम् आदिश्य एकैकस्य हस्ते अपि धनुर्बाणादीनि आयुधानि दत्तानि। ‘इदानीं नौकायाः रक्षणार्थम् एते दासाः एव शरणम्’ इति नाविकनायकः चिन्तितवान्। अतः सः उक्तवान् — ‘एतत्क्षणात् एव भवन्तः न दासाः, अपि तु वीरयोद्धारः! अस्माकं नौकां वशीकर्तुं शत्रवः प्रयत्नं कुर्वन्तः सन्ति। यदि वयं पराजिताः भवामः, तर्हि आजीवनं अस्माभिः तेषां दास्यम् अङ्गीकरणीयं भवति। यदि विजयिनः भवामः, तर्हि स्वच्छन्दं जीवितुं शक्नुमः। अतः भवद्भिः स्वप्राणरक्षणार्थं तथा स्वातन्त्र्यार्थं च प्राणान् अपि अगणयित्वा युद्धं करणीयम्। अस्मिन् युद्धे जयः अस्माकम् एव। यदा जयः प्राप्यते तदा एकैकस्य अपि शतं दीनारान् उपायनरूपेण ददामि। अतः प्राणान् पणीकृत्य युद्धं कुर्वन्तु’ इति।
दासेषु कोऽपि नाविकनायकस्य वचनं न विश्वसिति। यतः नाविकनायकेन पूर्वं दत्तां पीडां कोऽपि न विस्मृतवान् अस्ति। तथापि अस्मिन् सन्दर्भे किं करणीयम्?
शत्रुनौकातः अग्निबाणाः आगच्छन्तः एव सन्ति। नाविकनायक-पक्षीयानां तु अग्नेः शमने एव बहु कष्टम्। ‘यदि अग्निना नौका दग्धा भवति तदा इतरैः सह आत्मनः अपि नाशः भविष्यति’ इति सर्वे दासाः जानन्ति। अतः आत्मनाशनिवारणार्थं वा युद्धम् अनिवार्यम् आसीत्।
दासानां मनोविप्लवं पिङ्गलः ज्ञातवान्। नाविकनायक-विषयक-कोपेन पिङ्गलस्य मनः अपि ज्वलति। नाविकनायकस्य आज्ञा तेन अपि श्रुता अस्ति। अतः सः चिन्तितवान् — ‘इदानीं कोऽपि निर्णयः स्वीकरणीयः एव। नौका यथा जले मज्जिता न भवेत् तथा रक्षणं तु प्रथमं कर्तव्यम्। बाह्यशत्रुणा सह युद्धं तु करणीयम् एव। किन्तु एतेन समस्या परिहृता न भविष्यति। नाविकनायकः यावत् जीवति, तावत्पर्यन्तं सौख्यं नास्ति। अतः नाविकनायकः अपि नाशनीयः। अनन्तरं सन्दर्भानुसारं ‘शत्रुभिः सह सन्धिः सम्पादयितुं शक्यते वा?’ इति चिन्तनीयम्। अन्यथा युद्धे प्राणार्पणं तु अस्ति एव’ इति।
पिङ्गलः एवं निश्चित्य स्वमित्राणां समीपे स्वकीयं विचारम् उपस्थापितवान्। ‘शत्रोः आक्रमणं विस्मृत्य प्रथमं नाविकनायकः नाशनीयः’ इति उक्त्वा एतदर्थं सर्वान् प्रोत्साहितवान्। सर्वे एतत् अङ्गीकृतवन्तः।
युवकः बुद्धिशाली साहसी धैर्यवान् च पिङ्गलः तत्क्षणे एव तेषां नायकः जातः। सर्वे दासाः नवोत्साहेन पिङ्गलस्य आदेशम् अनुसर्तुं सिद्धाः सञ्जाताः।
पिङ्गलः सिंहगर्जनं कुर्वन् उच्चैः उक्तवान् — ‘अये, राक्षस! नाविकनायक! भवतः वचनानि कः विश्वसिति? पश्यतु, अद्य भवतः कथा समाप्ता’ इति। ‘एतम् एतदनुचरान् च मारयन्तु’ इति च वदन् सः अग्रे गतवान्। ते दासाः सर्वे पिङ्गलम् अनुसृतवन्तः। ते सिहगर्जन कुर्वन्तः खड्गम् आकृष्य नाविकनायकस्य तदनुचराणां च उपरि पतितवन्तः।
अनिरीक्षिततया उत्पन्नां विकट-परिस्थितिं दृष्ट्वा नाविकनायकः दिग्भ्रान्तः। किं प्रचलति? इदानीं किं करणीयम्? इति सः न ज्ञातवान्।
एकत्र शत्रवः अग्निवर्षणं कुर्वन्तः सन्ति। अपरत्र स्वनौकायां स्थिताः दासाः खड्गं स्वीकृत्य आक्रमणं कृतवन्तः सन्ति!
दासानां खड्गानां आहुतिं गच्छतः अनुचरान् दृष्ट्वा नाविकनायकस्य कोपः अत्युग्रः जातः। अनुचराणां सिद्धतायाः पूर्वम् एव दासानां खड्गाः एकैकं विच्छिद्रीकुर्वन्तः सन्ति। खड्गप्रहारैः आत्मानं रक्षयन् नाविकनायकः — ‘स्वामिद्रोहिणः, वञ्चकाः एते! मारयन्तु एतान्। एकोऽपि जीवितः न भवेत्’ इति आक्रोशनं कृतवान्। स्वयं खड्गम् आकृष्य दासानाम् उपरि पतितवान्। बलिष्ठस्य नाविकनायकस्य खड्गप्रहारेण पञ्चषाः दासाः गतप्राणाः जाताः। स साक्षात् यमदूतः इव दृश्यते स्म।
एतं दृष्ट्वा भीताः बहवः दासाः आत्मरक्षणार्थं पलायनसूत्रं पठितवन्तः। नौकायां कुत्र वा धावन्ति ते? केचन तत्रैव कोणेषु निलीनाः। पिङ्गलः एतत्सर्वं दृष्टवान्। झटिति खड्गम् आकृष्य आक्रमणं कुर्वन् — “शृण्वन्तु भ्रातरः! एतं नाविकनायकम् अहं बलिं स्वीकरोमि। यदि भवन्तः पलायनं कुर्वन्ति तर्हि समुद्रे पतन्ति। जीविताशां त्यक्त्वा युद्धं कुर्मः। स्वातन्त्र्यार्थम् एतान् सर्वान् नाशयामः। अस्माकं शक्तिम् एकवारं प्रदर्शयामः” इति उच्चैः उक्तवान्।
पलायनरताः दासाः इदानीं पुनः उत्साहिताः। पुनरपि धैर्यं सम्प्राप्य ते युद्धं कर्तुम् आरब्धवन्तः। पिङ्गलः साक्षात् नाविकनायकस्य उपरि आक्रमणं कृतवान्। प्रथमप्रहारेण एव नाविकनायकस्य उरस्थलं छिन्नम्। ‘हा भैरवी!’ इति सः उद्गारं कृतवान्। अनन्तरं सः दृष्ट्वा अग्निवर्षणं कुर्वन् पिङ्गलस्य उपरि पतितवान्। नाविकनायकः चिन्तितवान् — “बाह्यशत्रोः सम्मुखीकरणतः पूर्वम् आन्तरिकशत्रुः निवारणीयः” इति।
नाविकनायकस्य देहशक्तिं युद्धकौशलं च दृष्ट्वा पिङ्गलः ‘साक्षात् युद्धे नाविकनायकस्य नाशः कर्तुं न शक्यते एव’ इति चिन्तितवान्। शत्रोः खड्गप्रहारेण आत्मानं रक्षन् पार्श्वे उत्पतितवान्। नाविकनायकः किञ्चित् अग्रे आगतः। तदा तस्य पादे एका रज्जुः लग्ना। सः अधोमुखतया अधः पतितवान्।
अवकाशस्य सदुपयोगं स्वीकर्तुं पिङ्गलः अग्रे धावितवान्। यावत् सः खड्गप्रहारं कर्तुम् उद्युक्तः, तावति काले नाविकनायकः पार्श्वपरिवर्तनं कृतवान्। पिङ्गलस्य खड्गः नौकायाः काष्ठे लग्नः, छिन्नः च।
एतावति काले नाविकनायकः अपि उत्थितः। विकटाट्टहासं कुर्वन् सः उक्तवान् — “ओ हो! भवान् एव वा दासानां नायकः? भवन्तं विश्वस्य वराकाः ते विद्रोहम् आचरन्तः सन्ति। इदानीं पश्यतु भवतः परिस्थितिम्। हस्तस्थितेन एतेन खड्गेन भवन्तं छित्वा समुद्रे क्षिपामि। अनन्तरं भवतः अनुचराणां विषयं पश्यामि” इति।
उद्विग्नः नाविकनायकः इदानीं युद्धस्य आवेगे अस्ति। अतः सः, पिङ्गलः किं कुर्वन् अस्ति इति न लक्षितवान्। यदा खड्गः छिन्नः तदा उपायं चिन्तयन् पिङ्गलः अन्यखड्गार्थम् अन्वेषणं कृतवान्। किन्तु कुत्रापि खड्गः न लब्धः। अनुचराः तु शत्रुभिः सह तीव्रं युद्धं कुर्वन्तः सन्ति।
पिङ्गलः विद्युच्चपलया गत्या पार्श्वे उत्प्लुत्य एकां रज्जुं स्वीकृतवान्। तस्याः अन्ते ग्रन्थि बद्ध्वा पाशं निर्मितवान्। अनन्तरं युद्धार्थं सज्जीभूय नाविकनायकस्य पुरतः स्थितवान्। क्रोधतप्तः नाविकनायकः वेगेन पिङ्गलस्य उपरि खड्गप्रहारं कृतवान्। तदा अवकाशं प्रतीक्षमाणः पिङ्गलः पाशं नाविकनायकस्य कण्ठे क्षिप्तवान्। पाशः लक्ष्ये लग्नः। पिङ्गलः रज्जुम् आकर्षन् ‘हो हो! क्रूरः नाविकनायकः जाले पतितः’ इति वदन् परिवृत्य धावितवान्।
पाशे बद्धः नाविकनायकः महावृक्षः इव सशब्दं पतितवान्। कण्ठे सुदृढं लग्नां रज्जुं खड्गेन छेत्तुं सः प्रयत्नं कृतवान्। एतत् दृष्ट्वा पिङ्गलः स्वसहचरान् शीघ्रम् आगन्तुम् आहूतवान्। झटिति द्वित्राः दासाः धावन्तः आगतवन्तः। पतितं नाविकनायकं दृष्ट्वा तस्य उपरि आक्रमणं कृतवन्तः। खड्गप्रहारेण एकक्षणे एव तस्य शरीरं विच्छिन्नं कृतवन्तः। तथापि तेषां कोपः न शान्तः।
पिङ्गलः नाविकनायकेन सह युद्धं कुर्वन् आसीत् इति कृत्वा परितः किं प्रवर्तते इत्यपि तेन न परिशीलितम् आसीत्। नाविकनायकस्य मरणानन्तरम् इदानीं सः एकस्य दासस्य हस्ततः खड्गम् एकं स्वीकृत्य, कोणे प्रचलत् युद्धं दृष्ट्वा तत्र धावितवान्। तत्र अङ्गुलिगणनीयाः नाविकनायकसहचराः आसन्। केचन खड्गप्रहारेण मृताः। अन्ये केचन व्रणिताः, बन्धने आगताः। एवं विरोधिनः सर्वे विनष्टाः। एतावति काले शत्रुनौकायां स्थिताः सैनिकाः कोलाहलं कुर्वन्तः एतस्याः नौकायाः समीपम् आगताः। इदानीम् अपि ते बाणप्रयोगं कुर्वन्तः एव सन्ति। शत्रुनौकायां प्रवृत्तः कलहः तैः अपि प्रायः ज्ञातः। अतः अग्निगोलप्रयोगः इदानीं न प्रचलति स्म।
इदानीं पिङ्गलः चिन्तामग्नः। शत्रुनौकया सह युद्धं कृत्वा जयम् प्राप्तुं तु कष्टम् अस्ति। यतः पिङ्गलस्य अनुचराः सङ्ख्यया अल्पाः, शत्रूणां शरणं गतं चेदपि लाभः न स्यात्। ते शत्रवः एतान् सर्वान् बन्धयित्वा पुनः दास्यवृत्तौ योजयेयुः। एतेन दास्यविमुक्ताः पुनः दासाः एव भवन्ति। वस्तुतः शत्रुनौकायां कति जनाः सन्ति? कीदृशाः ते? तेषां सामर्थ्यं वा कियत्?
किमपि न जानाति पिङ्गलः। पिङ्गलः नाविकनायकतः वशीकृतस्य दूरवीक्षकस्य साहाय्येन शत्रुनौकां परिशीलितवान्। तस्यां नौकायां असङ्ख्याः जनाः दृष्टाः। एतैः सह युद्धेन किमपि प्रयोजनं नास्ति इति पिङ्गलः निश्चितवान्। “प्रथमं श्वेतपताकां प्रदर्श्य अस्माकं परिस्थितिः मनोगतिः च शत्रूणां कृते सूचनीया। अनन्तरम् सन्धिं संसाध्य यथाकथञ्चित् इतः दूरगमनम् एव श्रेयस्करम्” इति सः चिन्तितवान्।
इदानीं शत्रुनौका अनतिदूरे एव अस्ति। विलम्बः चेत् ते इतोऽपि समीपम् आगच्छन्ति! तावति काले कोऽपि निर्णयः आश्रयणीयः एव। पिङ्गलस्य आज्ञानुसारं नौकायाः प्रधानस्य आधारस्तम्भस्य उपरि श्वेता पताका स्थापिता। शत्रवः एतत् दृष्टवन्तः। शत्रुनौकायां क्रियमाणः जयोद्घोषः स्पष्टं श्रुतः।
पिङ्गलः ध्वनिवर्धिकाम् एकां काहलां मुखे स्थापयित्वा नौकायां सञ्जातस्य कोलाहलस्य विवरणं दत्त्वा उक्तवान् — “भोः भ्रातरः! भवतां नौकायाः उपरि यः आक्रमणं कृतवान्, तेन सह अस्माकं कोऽपि सम्बन्धः नास्ति। सः इदानीं अस्माभिः मारितः च। भवतां नौकां वशीकर्तुं वयं न इच्छामः। इदानीं वयं कुत्राऽपि नौकास्थानं गन्तुम् इच्छामः। ततः स्वस्वदेशं गच्छामः च। अतः कृपया भवन्तः सहकुर्वन्तु। अस्माभिः सह मैत्र्या व्यवहरन्तु। भवन्तः स्वमार्गं गच्छन्तु। वयम् अपि अस्मदीयमार्गम् अनुसरामः। एतेन उभयपक्षयोः अपि क्षेमः” इति।
एषा वार्ता शत्रुनौकया प्राप्ता। अनन्तरं तत्र कश्चन कोलाहलः आरब्धः। अल्पे एव काले सः कोलाहलः अपि शान्तः। शत्रुनौकातः एकः कठोरः कण्ठध्वनिः श्रुतः — “दासानां भवतां समुद्रे स्वेच्छया नौकां चालयितुम् अधिकारः नास्ति एव। एतदतिरिच्य भवन्तः नाविकनायकं तदनुचरान् च निर्दयं मारितवन्तः। अक्षम्यम् अपराधं कृतवन्तः। एतस्य दण्डनं भवेत् एव। अन्यथा भवताम् अनुकरणं कृत्वा अस्माकं नौकायाः दासाः अपि अस्मान् मारयेयुः। अतः विरोधं विना अस्माकं शरणं गच्छन्तु। सर्वाणि वस्तूनि अस्माकं कृते समर्पयन्तु। अन्यथा परिणामः विपरीतः भवेत्” इति।
एतत् श्रुत्वा पिङ्गलः निर्विण्णः। “शत्रुनौका न वाणिज्यनौका, अपि तु समुद्रचौराणां नौका सा” इति पिङ्गलः निश्चितवान्। एतेषां क्रूराणां वशगमनं नाम पुनः दास्यस्य अङ्गीकरणम् एव। एतत् पिङ्गलः अपि न इच्छति। तदीयाः अनुचराः अपि न इच्छन्ति।
पिङ्गलः सङ्क्षेपतया परिस्थितिम् अनुचरान् निवेदितवान्। शत्रुभिः सह युद्धं कर्तुं सर्वे एकमत्येन सिद्धाः सञ्जाताः। पिङ्गलस्य धैर्यदृढचित्ततादयः तेषु अपि प्रतिफलिताः आसन्।
सद्यः एव श्वेतपताका अवतारिता। सर्वे पिङ्गलस्य नायकत्वे विश्वासं प्रकटयन्तः जयघोषं कृतवन्तः।
“सङ्ख्याबलेन अधिकाः शत्रवः यदि अस्माकं नौकाम् आरोहन्ति, तदनन्तरं किमपि कर्तुं न शक्यते। अतः यावच्छीघ्रं शत्रुनौकातः सुदूरं गन्तव्यम्! तदर्थं बाणयुद्धं कुर्वद्भिः शत्रवः यथा समीपं न आगच्छेयुः तथा प्रयत्नः करणीयः। यदि सर्वे उपायाः असफलाः भवन्ति, तर्हि उद्देशपूर्वकं नौकयोः मध्ये सङ्घट्टनं करणीयम्। द्वयोः अपि सर्वनाशः भवेत्” इति पिङ्गलः चिन्तितवान्।
पुनः युद्धम् आरब्धम्। पिङ्गलस्य अनुचराः शत्रुनौकायाः उपरि निरन्तरं बाणप्रयोगं कुर्वन्तः आसन्। पिङ्गलः अपि बाणप्रयोगं कुर्वन् नौकां प्रतिनिवर्तयितुम् उक्तवान्। किन्तु शत्रुनौकां समीपम् आगतां दृष्ट्वा ‘एषा योजना न फलकारिणी’ इति सः ज्ञातवान्। शत्रुनौका तु द्विगुणितवेगेन आगच्छन्ती अस्ति! इतःपरं देवः एव शरणम्!
पिङ्गलः तत्क्षणे एव अन्तिमनिर्णयं स्वीकृतवान्। “विजयः मरणं वा, किमपि एकं निर्णीतं भवेत् एव” इति निर्णीय पिङ्गलः स्वसहचरान् आज्ञापितवान् — “अस्मदीयां नौकां वेगेन नीत्वा शत्रुनौकया सह सङ्घट्टनं कुर्वन्तु” इति।
अनुचराः सर्वे पिङ्गलस्य आज्ञां शिरसा वहन्तः, जीविताशां त्यक्त्वा स्वनौकां शत्रुनौकायाः दिशि वेगेन चालितवन्तः। एतत् दृष्ट्वा शत्रवः एकक्षणं चकिताः। किन्तु सद्यः एव पिङ्गलस्य योजनां ते ज्ञातवन्तः। शत्रुनौकायाम् इदानीं भीतिजनितः हाहाकारः समुत्पन्नः।
शत्रवः स्व-नौकां प्रतिनिवर्तयितुं प्रयत्नं कृतवन्तः। किन्तु तेषां नौका वेगेन धावन्ती आसीत् किल? तत्क्षणे तस्याः प्रतिनिवर्तनं कर्तुं न शक्तम् एव। एवं तेषां प्रयत्नः असफलः सञ्जातः। पिङ्गलः तु स्वनौकां वेगेन नेतुं प्रोत्साहयन् एव आसीत्।
सर्वेषु पश्यत्सु एव, पिङ्गलस्य नौका महता वेगेन शत्रुनौकां घर्षितवती एव। अपरस्मिन् क्षणे शताधिककण्ठानाम् आर्तनादः समुद्रे प्रतिध्वनितः।
नौकयोः परस्पर-सङ्घट्टनेन नौकायां महान् कम्पः उद्भूतः। कुत्र किं जातम्? का गतिः? इति केनापि न ज्ञातम्। नौकायाः सर्वाणि अङ्गानि भग्नानि सन्ति। केचन समुद्रे पतिताः। केचन तत्रैव प्राणं त्यक्तवन्तः। अन्ये केचन भीत्या मूर्च्छां गताः।
पिङ्गलः तु महाबलवता पुरुषेण सवेगं क्षिप्तः इव, नौकाकम्पवशात् आकाशम् उत्पतितः सन्, समुद्रजले सुदूरे कुत्रापि पतितवान्।
—
अनुवर्तते