॥ ॐ श्री गणपतये नमः ॥

विष्णुकथा — कृष्णावतारः

कृत-त्रेतायुगयोः अनन्तरं द्वापरयुगम् आरब्धम्। तस्मिन् युगे बहवः राक्षसाः मनुष्यरूपेण जन्म प्राप्तवन्तः। तदा एतेषां दुष्टानां कारणतः भूभारः अधिकः जातः। भूदेवी भारं निर्वोढुम् असमर्था, विष्णुसमीपं गत्वा स्वकीयं कष्टं निवेदितवती।

‘देवि! किञ्चित् कालं यावत् एतत् सोढव्यं भवत्या। अहं कृष्णरूपेण भूलोकम् अवतरामि। भवत्याः दुःखं दूरीकरोमि’ इति विष्णुः ताम् अभयवचनानि उक्तवान्।

कालनेमिः नाम एकः राक्षसः अनादिकालतः विष्णोः प्रबलशत्रुः। सः द्वापरयुगे कंसः इति नाम्ना जन्म प्राप्तवान्। मधुरानगरस्य महाराजः उग्रसेनः एव कंसस्य पिता।

देवासुराणां युद्धे दानवानां नायकः भूत्वा विष्णुना सह यः युद्धं कृतवान्, सः विप्रचित्तिमहाराजः एव मगधाधिपः जरासन्धः भूत्वा जन्म प्राप्तवान्। जरासन्धः महाकरी अतीव बलशाली च। एषः जरासन्धः सर्वान् महाराजान् बद्ध्वा आनीय, इष्टदेवाय भैरवाय बलिं ददाति स्म। कंसः एतस्य जरासन्धस्य जामाता आसीत्।

उग्रसेनस्य अनुजस्य पुत्री देवकी यदुवंशराजाय वसुदेवाय दत्ता। एतयोः विवाहसन्दर्भे एका विचित्रा घटना घटिता। नवविवाहितौ दम्पती रथे उपवेश्य कंसः गच्छन् आसीत्। तदा ‘एतस्याः देवक्याः अष्टमः गर्भः कंसं मारयिष्यति’ इति अशरीरवाणी श्रुता।

एतत् श्रुत्वा कुपितः कंसः देवकीं मारयितुम् उद्युक्तः। तदा वसुदेवः सदीनं प्रार्थितवान् — ‘देवक्याः अष्टमगर्भेण भवतः मरणं भविष्यति इति किल अशरीरवाणी श्रुता? अहं एतस्याः सर्वान् शिशून् जातमात्रान् भवतः कृते अर्पयामि। कृपया एतां न मारयतु’ इति।

कंसः एतत् अङ्गीकृतवान्। एतदनुसारं षट् शिशवः अपि कंसाय दत्ताः। कंसः तान् सर्वान् निर्दयं मारितवान्।

विष्णोः आज्ञानुसारम् आदिशेषः देवक्याः गर्भे स्वकीयम् अंशम् स्थापितवान्। किन्तु देवक्याः सप्तमः गर्भः न जीवितः। यतः नवमासतः पूर्वम् एव देवक्याः गर्भस्रावः जातः!

विष्णुः योगमायाम् — ‘भवती नन्दगोपस्य पत्न्याः यशोदायाः गर्भं प्रविशतु’ इति आज्ञप्तवान्। योगमाया तथैव आचरितवती।

देवकी अष्टमवारं गर्भिणी जाता। कंसः ‘एतस्याः एषः अष्टमः गर्भः एव मां मारयिष्यति। जातमात्रेण एषः नाशनीयः’ इति चिन्तयित्वा वसुदेवं देवकीं च कारागृहे स्थापितवान्।

श्रावणमासे कृष्णपक्षे अष्टमीतिथौ रोहिणीनक्षत्रे देवकी पुत्रं प्रसूतवती। तदा मध्यरात्रः आसीत्। रक्षकभटाः सर्वे गाढनिद्रायां निलीनाः आसन्।

एषः पुत्रः एव विष्णोः अवतारभूतः कृष्णः। एतस्य जननसमये ताल्बद्धं द्वारम् उद्घाटितम्।

महाविष्णोः प्रेरणानुसारं वसुदेवः शिशुं कृष्णम् उन्नीय गोकुलं गतवान्। मार्गे यमुनानदी पूर्णा प्रवहति स्म। किन्तु वसुदेवस्य गमनार्थं सा मध्ये मार्गं कल्पितवती। वसुदेवः निरातङ्कं गोकुलं प्राप्तवान्।

तस्मिन् काले अत्र गोकुले सर्वे मायानिद्रया आवृताः आसन्। निद्रामग्ना यशोदा निद्रायाम् एव एकां पुत्रीं प्रसूतवती। वसुदेवः यशोदायाः पार्श्वे शिशुं कृष्णं स्थापितवान्। गतप्राणप्रायं तं स्त्रीशिशुम् आनीय देवक्याः पार्श्वे स्थापितवान्। स च शिशुः अकस्मात् उच्चैः रोदनम् आरब्धवान्। एतत् श्रुत्वा रक्षकाः जागृताः। कंसाय वार्तां निवेदितवन्तः।

कंसः धावन् कारागारम् आगतवान्। शिशुं वध्यशिलासमीपं नीतवान्। तत्र यदा सः मारणार्थम् उद्युक्तः तदा तस्य हस्तात् च्युतेन शिशुना अन्तरिक्षे स्थित्वा ‘अये कंस! भवतः मारकः कुशली एव जीवति’ इति उक्तम्। दुर्गादेव्याः रूपं धृत्वा आकाशे विलीनं च।

गोकुले कृष्णस्य जन्मना सर्वे आनन्दतुन्दिलाः। कृष्णाष्टमीनाम्ना सर्वे तस्य जन्मोत्सवं आचरितवन्तः। कृष्णस्य जन्मतः पूर्वम् एव रोहिण्याः गर्भतः बलरामः अपि जन्म प्राप्तवान् आसीत्।

एकदा नारदः कंसस्य समीपम् आगत्य ‘कंस! भवान् उग्रसेनस्य पुत्रः चेदपि मूलतः कालनेमिः एव। भवतः मारणार्थं जातः विष्णुः कुत्रापि जीवति इति श्रुतं किल? अतः तूष्णीं न तिष्ठतु। इदानीं एव कार्यशीलः भवतु’ इति उक्तवान्।

एतेन कंसः जागरितः। स्वपितरम् उग्रसेनं कारागारे स्थापयित्वा सः सिंहासनम् आरूढवान्।

निरङ्कुशः कंसः सर्वान् राक्षसान् आहूय, तान् आत्मीयान् कृतवान्। जगति विद्यमानानां सर्वेषां शिशूनां मारणार्थं कंसः पूतनीं प्रेषितवान्। सा पूतनी एतत् कार्यं सन्तोषेण अङ्गीकृतवती। नगरे सर्वान् शिशून् मारयन्ती सा, मानवस्त्री-वेशं धृत्वा गोकुलम् अपि गतवती। विषक्षीरं पाययितुम् इच्छन्ती सा कृष्णम् उन्नीतवती। कृष्णः तु तस्याः प्राणान् एव पीतवान्।

अनन्तरं कंसेन प्रेषितः तृणावर्तनामकः राक्षसः चण्डमारुतरूपं धृत्वा कृष्णम् आकाशं नीतवान्। कृष्णः तम् अपि मारितवान्। शकटरूपेण आगतं शकटासुरम् अपि कृष्णः मारितवान्। एवं कृष्णः दिने दिने वर्धमानः आसीत्।

बालः कृष्णः स्वभावतः अतीव चटुलः। सः गृहं गृहं गच्छति। तत्र नवनीतं चोरयित्वा खादति।

कृष्णस्य लीलाविनोदाः असङ्ख्याः। कदाचित् सः दौष्ट्यम् अपि आचरति स्म। तथापि कृष्णस्य बाललीलां दृष्ट्वा सर्वे गोकुलवासिनः तुष्यन्ति स्म।

कृष्णस्य पीडा कदाचित् सोढुम् अशक्या भवति स्म। एकदा यशोदा कृष्णम् उलूखले बन्धितवती। कृष्णः उलूखलम् एव आकर्षन् द्वयोः वृक्षयोः मध्ये गतवान्। वृक्षद्वयम् अपि समूलं पातितवान्। तन्निमित्तेन गन्धर्वयोः शापविमोचनं कृतवान्।

‘कृष्णेन मृत्तिका भक्षिता’ इति श्रुत्वा यशोदा परीक्षार्थं मुखम् उद्घाटयितुम् उक्तवती। कृष्णः मुखं विशालं उद्घाटितवान्। तत्र विश्वरूपं दृष्ट्वा यशोदा आश्चर्यचकिता।

कालिङ्गसर्पस्य फणानां उपरि ताण्डवनृत्यं कृत्वा कृष्णः तस्य मर्दनम् अपि कृतवान्।

कदाचित् गोकुलनिवासिनः सर्वे वृन्दावनं गतवन्तः। तत्र गोवर्धनपर्वतं पूजितवन्तः। ‘मम पूजा न कृता’ इति चिन्तयित्वा इन्द्रः मुसलधारया जलवृष्टिं कृतवान्। गोकुले सर्वत्र हाहाकारः समुत्पन्नः। तदा श्रीकृष्णः कनिष्ठिकया गोवर्धनपर्वतम् उद्धृत्य गोपालकान् गाः च संरक्षितवान्। एतेन इन्द्रस्य अहङ्कारः भग्नः।

कृष्णः वेणुगोपालः भूत्वा गोपालनं कृतवान्। स्ववेणुवादनेन गाः गोपिकाः च परवशीकृतवान्। छद्मवेशेन आगतानां बहूनां राक्षसानां वधं कृतवान्। बलरामः अपि केषाञ्चित् राक्षसानां संहारं कृतवान्।

‘कृष्ण-बलरामौ एव मम प्रबलवैरिणौ’ इति कंसः निश्चितवान्। अतः तयोः मारणार्थम् ‘धनुर्यागव्याजेन तौ आनयतु’ इति उक्त्वा अक्रूरं प्रेषितवान्। अक्रूरेण सह तौ मथुरां आगतवन्तौ।

बालः कृष्णः सिंहासने उपविष्टं कंसं शिखाग्रहणपूर्वकम् आकृष्य अधः पातितवान्। मुष्टिप्रहारेण मारितवान् च।

अनन्तरं कृष्णः वसुदेव-देवक्योः उग्रसेनस्य च बन्धविमोचनं कृतवान्। उग्रसेनं पुनः सिंहासने उपवेशितवान्।

जरासन्धः कृष्णस्य प्रबलशत्रुः। प्रतीकारम् इच्छन् जरासन्धः त्रयोविंशति-अक्षोहिणी-सैन्येन सह मथुरायाः उपरि आक्रमणं कृतवान्। कृष्णः जरासन्धं पराजितवान्। पराजितः जरासन्धः जीविताशया पलायितवान्।

दुष्टः जरासन्धः यवनम्लेच्छानां राजानं कालयवनं युद्धार्थं प्रेरितवान्। सः कालयवनः विनाकारणं कलहम् उत्पादयन् कृष्णस्य उपरि आक्रमणं कृतवान्।

कृष्णः ततः पलायमानः एकां गुहां प्रविष्टवान्। तत्र मुचुकुन्दः निद्रां करोति स्म।

मुचुकुन्दः इक्ष्वाकुवंशीयस्य मान्धातृचक्रवर्तिनः पुत्रः। सः विख्यातः सम्राट् अपि आसीत्।

मुचुकुन्दः देवासुरसङ्ग्रामे देवानां साहाय्यं कृतवान् आसीत्। तुष्टाः देवाः तस्मै वरं दत्तवन्तः। तेन वरेण मुचुकुन्दः मोक्षम् इष्टवान्। देवाः उक्तवन्तः — ‘द्वापरयुगे कृष्णावतारस्य दर्शनानन्तरं भवतः मोक्षः सिध्यति’ इति।

तदा मुचुकुन्दः उक्तवान् — ‘तर्हि तावत्पर्यन्तं निद्रां करोमि। एतन्मध्ये यः मम निद्रां नाशयति सः तत्क्षणम् एव भस्मीभवतु’ इति। देवाः तथैव वरम् अनुगृहीतवन्तः।

कृष्णम् अनुधावन् कालयवनः गुहां प्रविष्टवान्। सुप्तं मुचुकुन्दं कृष्णं मन्यमानः पादेन ताडितवान्। निद्राभङ्गात् उत्थितः मुचुकुन्दः तीक्ष्णदृष्ट्या कालयवनं दृष्टवान्। तत्क्षणे एव कालयवनः दग्धः सन् भस्मीभूतः।

अनन्तरं कृष्णः मुचुकुन्दस्य पुरतः प्रत्यक्षः जातः। ‘भवान् बदरिकाश्रमं गत्वा तपः आचरतु। तेन मोक्षः सिध्यति’ इति उक्त्वा तं प्रेषितवान्।

शापग्रस्तौ जयविजयौ स्वतृतीयजन्मनि शिशुपालदन्तवक्त्रनाम्ना कृष्णशत्रुरूपेण जन्म प्राप्तवन्तौ। चेदिदेशस्य महाराजस्य दमघोषस्य पुत्रः भूत्वा शिशुपालः जन्म प्राप्तवान्। जातस्य अस्य शिशोः चत्वारः हस्ताः, त्रीणि नेत्राणि च आसन्।

येन उन्नीतं चेत् शिशोः हस्तद्वयं तृतीयं नेत्रं च अदृश्यं भवति, तेनैव शिशुपालस्य मरणम् अपि भविष्यति इति अशरीरवाण्या ज्ञाता।

शिशुपालस्य माता सात्वती आगतानां सर्वेषां हस्ते स्वशिशुं ददाति स्म। सात्वती कृष्णस्य हस्ते अपि पुत्रं दत्तवती। तत्क्षणम् एव शिशुपालस्य हस्तद्वयं तृतीयं नेत्रं च अदृश्यतां गतम्।

एतत् दृष्ट्वा सात्वती भीता। ‘शिशुपालेन शतापराधाः कृताः चेदपि सः क्षन्तव्यः’ इति सा कृष्णं प्रार्थितवती। ‘तथैव अस्तु’ इति अङ्गीकृतवान् कृष्णः।

कालान्तरे जरासन्धः राजा जातः। सः मथुरायाः उपरि पुनः पुनः आक्रमणं करोति स्म। कृष्णः अपि सर्वदा तं पराजित्य प्रेषयति स्म।

कृष्णः समुद्रं स्थलार्थं प्रार्थितवान्। समुद्रराजः स्थलं दत्तवान्। तत्र समुद्रमध्ये विश्वकर्मणः साहाय्येन कृष्णः विशालां, सुरक्षितां, वैभवोपेतां च द्वारकां निर्मापितवान्। यादवान् सर्वान् तत्र स्थापितवान्।

जरासन्धः अन्तिमतया युद्धार्थं शिशुपाल-दन्तवक्त्र-पौण्ड्रक-साल्वादिभिः स्वसहचरैः सह पुनरपि आक्रमणं कृतवान्।

इतः पूर्वम् एव बलरामेण कृष्णेन च यादवाः मथुराजनाः च द्वारकां प्रापिताः आसन्। एतौ उभौ अपि प्रवर्षणगिरिं गत्वा तस्य शिखरम् अधिरूढवन्तौ।

एतत् दृष्ट्वा कुपिताः जरासन्धादयः प्रवर्षणगिरिं परितः अग्निं ज्वालितवन्तः। कृष्णः तु बलरामेण सह गरुडम् आरुह्य आकाशमार्गेण द्वारकां प्राप्तवान्।

जरासन्धादयः ‘कृष्णबलरामौ दग्धौ’ इति सन्तोषेण प्रतिगन्तुं सिद्धाः। किन्तु तदा कृष्णेन द्वारकायाम् उद्घोषितः पाञ्चजन्यशङ्खध्वनिः श्रुतः। एतत् श्रुत्वा जरासन्धादीनां मुखं विच्छायम् अभवत्। ते इदानीं परस्परं मुखं पश्यन्ति!

क्रुद्धः शिशुपालः तत्क्षणम् एव गत्वा मथुरानगरम् अग्नेः आहुतित्वेन समर्पितवान्।

जरासन्धः द्वारकां वशीकर्तुं नौकया असङ्ख्यसैनिकान् प्रेषितवान्। समुद्रे उत्पन्नेन झंझावातेन सैनिकानां सर्वाः नौकाः जले निमग्नाः। जरासन्धः अपरतीरे स्थित्वा एतत्सर्वं पश्यन् अस्ति। तदा कृष्णः “अये जरासन्धमहाराय! द्वारकां जेतुं समुद्रराजः अवकाशं न ददाति एव। मम हस्ते मरणं प्राप्तुं भवतः भाग्यं नास्ति। अन्येन समबलेन वीरेण भवतः मरणं भविष्यति। केषाञ्चित् दिनानाम् अनन्तरम् आवां पुनः मिलिष्यावः।” इति उक्तवान्।

विदर्भराजस्य भीष्मकस्य पुत्री रुक्मिणी। सा रूपेण साक्षात् लक्ष्मीः एव। बाल्यतः एव सा कृष्णस्य अद्भुतकार्याणि श्रुतवती। अतः तम् एव मनसि परिणीतवती। “कृष्णः एव मम पतिः” इति वदति स्म अपि।

रुक्मिण्याः अग्रजः रुक्मः कृष्णस्य शत्रोः पक्षे प्रविष्टः। सः शिशुपालाय एव स्वसहोदरीं दातुं निश्चितवान्। तदर्थं सर्वसिद्धताः अपि कृतवान्।

रुक्मिणी कृष्णं प्रति “‘मां भवान् एव परिणयतु’ इति वार्तां प्रेषितवती। विवाहतः पूर्वं सा दुर्गापूजार्थं मन्दिरं गतवती। तत्र आगत्य कृष्णः तां स्वरथे उपवेश्य प्रस्थितः।”

कृष्णम् अवरोद्धुं रुक्मिजरासन्धशिशुपालादयः आगताः। युद्धम् आरब्धम्। इतः बलरामः सेनया सह आगत्य कृष्णं मिलितवान्। युद्धे शिशुपालादयः सर्वे पराजिताः। रुक्मिः कृष्णस्य बन्दी जातः।

कृष्णः रुक्मिराजस्य मुण्डनं कारयित्वा श्मश्रु निष्कास्य तं त्यक्तवान्। अपमानितः सः पुनः कदापि कृष्णस्य विरोधं न कृतवान्। द्वारकायां कृष्णरुक्मिण्योः विवाहः महता वैभवेन सम्पन्नः।

समाप्तम्

संस्कृत चन्दमामा · जुलाई १९८४ · पृ० ५१ Chandamama India Limited