॥ ॐ श्री गणपतये नमः ॥

त्रयः मान्त्रिकाः

पिङ्गलः अग्रजयोः वचनानुसारं नाविकनायकं स्वगृहम् आनीय सत्कृतवान्। पूर्वयोजनानुसारं नाविकनायकः अनुचराणां साहाय्येन पिङ्गलं बद्ध्वा नौकां नीतवान्। जीवदत्तलक्षदत्तौ तु गृहम् आगत्य मातरं तर्जयित्वा पिङ्गलेन सम्पादितं धनं मन्त्रस्यूतं च बलात्कारेण वशीकृतवन्तौ।

सन्तुष्टः जीवदत्तः लक्षदत्तः च पिङ्गलेन आनीतं धनस्यूतं त्वरया उद्घाटितवन्तौ। तत्रत्यानि अमूल्यानि वज्ररत्नमाणिक्यादीनि दृष्ट्वा तौ आश्चर्यचकितौ। जीवने अदृष्टपूर्वम् अतुलैश्वर्यम्!

‘पिङ्गलः बहु धनं सम्पाद्य आगतवान्’ इति तु तयोः विश्वासः आसीत्। किन्तु एतावत् ऐश्वर्यम् आनीतं स्यात् इति तु तौ स्वप्ने अपि कल्पयितुम् अशक्तौ आस्ताम्।

ऐश्वर्यराशिं लुब्धदृष्ट्या पश्यन् जीवदत्तः उक्तवान् — ‘एतेन ऐश्वर्येण न केवलम् अस्माकम्, अपि तु भाविन्याः सप्तपरम्परायाः अपि दारिद्र्यं निवारितं भविष्यति’ इति।

‘आम्, अस्माकं समीपे एतावत् ऐश्वर्यम् अस्ति इति अवन्तिनगरस्य राजा यदि जानाति तर्हि सः स्वयम् अस्माकं समीपम् आगमिष्यति। ‘पुत्रीं ददामि’ इति उक्त्वा विवाहार्थम् आग्रहं करोति। महाराजस्य जामातृत्वं नाम किं सामान्यम्?’ इति उक्तवान् सन्तोषोन्मत्तः लक्षदत्तः।

माता पुत्रयोः सम्भाषणं सर्वं श्रुतवती। सा भविष्यविषयकं सुन्दरस्वप्नं कल्पयन्ती, स्वपुत्रयोः दुराचारं ताडनं निन्दनम् सर्वं विस्मृतवती। ‘प्रियपुत्रौ! एषा तु सन्तोषस्य वार्ता। इतःपरं वा भवन्तः दुष्टबुद्धिं त्यजन्तु। धनस्य वृथाव्ययम् अकृत्वा योग्यरीत्या जीवन्तु। सुखसन्तोषपूर्वकं गृहस्थजीवनं यापयन्तु। अहम् अपि भवतोः आश्रये स्थित्वा पौत्रप्रपौत्राणां लालनं कुर्वती शेषजीवनं निरातङ्कं यापयामि’ इति! मातुः एतद्वचनं श्रुत्वा उभौ अपि कुपितौ। जीवदत्तः कोपेन उक्तवान् — ‘वयं यथाकथमपि जीवामः। वयं विवाहिताः वा भवेम, संन्यासं वा स्वीकुर्मः। अस्माकं विषये भवत्याः वात्सल्यं तु नास्ति एव। भवत्याः व्यवहारः कपटतापूर्णः। वयं सर्वं जानीमः। पिङ्गलः एव भवत्याः सर्वस्वम्। नयवचनैः अस्मान् वञ्चयित्वा, पित्रार्जिते ऐश्वर्ये भागं स्वीकर्तुम् इच्छति भवती’ इति।

‘एतत् ऐश्वर्यं भवतोः पित्रार्जितं न। अपि तु पिङ्गलेन महता कष्टेन सम्पादितम्। भवन्तौ इदानीं तदपि वशीकृतवन्तौ। वृद्धा अहम् अत्र किमपि कर्तुं न शक्नोमि। अहम् एतावत् एव इच्छामि यत् ‘मन्त्रसूतं मम कृते दत्त्वा गच्छन्तु’ इति। यदि मम समीपे मन्त्रसूतः भविष्यति तर्हि मम गृहं गृहं गत्वा भिक्षाटनं न भविष्यति। भवन्तौ यदा अपेक्षितं तदा आगत्य भोजनं कर्तुं शक्नुतः। वृद्धायाः मम उपकारः कृतः चेत् भगवान् अपि सुप्रीतः भविष्यति। अतः कृपया मन्त्रसूतः दीयताम्’ इति उक्तवती माता।

एतत् श्रुत्वा क्रुद्धः जीवदत्तः उक्तवान् — ‘भवती भिक्षाटनं वा करोतु, मरणं वा प्राप्नोतु। तेन आवयोः किम्? अद्य आरभ्य भवती आवयोः माता न। इतःपरं भवत्याः आवयोः च सम्बन्धः एव नास्ति’ इति।

लक्षदत्तः अग्रजस्य वचनं पुष्टीकुर्वन् — ‘अग्रज! सत्यम् एव उक्तवान् भवान्। पित्रार्जितां सम्पत्तिं रहस्यं स्थापयित्वा पिङ्गलाय दातुं सिद्धा एषा सर्वदा आवाभ्यां सह वञ्चनापूर्णम् एव व्यवहारं कृतवती। किम् एतत् आवां विस्मरावः? समग्रा सम्पत्तिः आवयोः वशे आगता इति ज्ञातवती। अतः मधुरवचनैः आवयोः सहानुभूतिं प्राप्तुम् आगतवती’ इति।

पुत्राणां समीपे प्रार्थनया वादेन वा किमपि प्रयोजनं नास्ति इति माता ज्ञातवती। अतः निराशा सा एकत्र भित्तिपार्श्वे उपविष्टवती।

अनन्तरं जीवदत्तलक्षदत्तौ समग्रसम्पत्तेः विभागं कृतवन्तौ। किन्तु मन्त्रस्यूतविषये तयोः मध्ये विवादः समुत्पन्नः। विवादः तावान् उग्रः जातः यत् अन्ते परस्परं हननं कर्तुम् अपि तौ सन्नद्धौ!

तदा माता पुनः समीपम् आगत्य उक्तवती “विवादकारणेन परस्परनाशः कृतः चेत् कस्य कः लाभः? पूर्वं बहु अनिष्टं कृतं स्यात्। तथापि अहं भवतोः नाशं द्रष्टुं न इच्छामि। यतः अहं जन्मदात्री माता अस्मि। मम कृते मन्त्रस्यूतस्य दाने एव उभयोः हितम् अस्ति। एतेन परस्परकलहः अपि निवारितः भविष्यति” इति।

‘तूष्णीं तिष्ठतु भवती। अधिकं मा प्रलपतु’ इति मातरं तर्जयन् जीवदत्तः उक्तवान् — ‘मन्त्रस्यूते मदीयं भागम् अहं स्वीकरोमि एव’ इति। सः अन्तः गत्वा छुरिकाम् आनीय स्यूतम् अर्धं कर्तुम् आरब्धवान्।

माता तं निवारयन्ती उक्तवती — ‘एवं न करोतु पुत्र! येन केनापि कारणेन एषः स्यूतः छिन्नः चेत् एतस्य महिमा एव नश्यति। यत्र कुत्रापि एषः स्यूतः अखण्डम् एव तिष्ठतु। द्वारम् आगतां लक्ष्मीं किमर्थम् अविवेकेन निवारयति?’ इति।

‘एवं चेत् मन्त्रस्यूतः मम एव अस्तु’ इति स्यूतम् आकर्षन् उक्तवान् लक्षदत्तः।

तदा जीवदत्तः कोपेन उक्तवान् — “रे दुष्ट! अहं ज्येष्ठः पुत्रः। ‘महत्वपूर्णानि वस्तूनि ज्येष्ठपुत्रस्य अधीनानि भवेयुः’ इति शास्त्राणि स्मृतयः च विना अभिप्रायभेदं वदन्ति। अन्यच्च एतदपि स्मरतु — ‘पिङ्गलस्य ऐश्वर्ये वशीकर्तुम् उपायम् अहम् एव सूचितवान्’। एतावत्पर्यन्तं भवान् मम वचनम् अनुसरति स्म। इदानीम् ऐश्वर्यं दृष्ट्वा लुब्धः भवान् सर्वम् अपि आत्मनः कृते एव इच्छति। ‘लोभः पापस्य कारणम्’ इति न विस्मरतु” इति।

तदा लक्षदत्तः जीवदत्तं निन्दन् उक्तवान् — ‘भवतः शास्त्राणि स्मृतयः च पार्श्वे भवन्तु नाम। स्वयम् आचारहीनस्य पुनः शास्त्राधारः! कः अङ्गीकरोति एतत् सर्वम्? अहं तु न अङ्गीकरोमि। मन्त्रसूतः मम आवश्यकः एव’ इति।

एवं तयोः विवादः बहुकालपर्यन्तं प्रचलन् आसीत्। तदा नगररक्षकः कश्चित् भटः एतत्सर्वं श्रुतवान्। सः ऐश्वर्यविषये मन्त्रस्यूतविषये च सम्पूर्णं ज्ञातवान्। सद्यः एव महाराजसमीपं गत्वा सर्वं वृत्तान्तं महाराजाय निवेदितवान्।

अवन्तिराजः तु स्वभावतः एव कृपणः दुष्टः च। ऐश्वर्यस्य वार्तां श्रुत्वा तस्य मनसि आशा समुत्पन्ना। सः सेनानायकम् आज्ञापितवान् — ‘इदानीम् एव गत्वा तौ सहोदरौ, तदीयानि ऐश्वर्याणि, गृहस्य अमूल्यवस्तूनि च आनयतु’ इति।

महाराजस्य आज्ञानुसारं सेनानायकः कैश्चित् सैनिकैः सह गत्वा, जीवदत्तस्य लक्षदत्तस्य च बन्धनं कृतवान्। अनन्तरं गृहे सर्वत्र अन्विष्य ऐश्वर्यं मन्त्रस्यूतं च वशीकृत्य महाराजस्य पुरतः स्थापितवान्।

अपारम् ऐश्वर्यं दृष्ट्वा राजा चकितः। सः नेत्रे यथासाध्यम् उन्मील्य दृष्टवान्।

‘एतत् ऐश्वर्यं कथं लब्धम्?’ इति राजा तौ सहोदरौ पृष्टवान्। वस्तुस्थितिं वक्तुम् उभौ अपि न सिद्धौ। ‘सत्यं वदामः चेत् ऐश्वर्यं मन्त्रस्यूतं च राजा वशीकरीति’ इति तयोः भीतिः। अतः बहुवारं पृष्टं चेदपि तौ सत्यं न उक्तवन्तौ। तदा राजा भटान् आज्ञापितवान् — ‘कशया ताडयत’ इति। भटाः कशां गृहीत्वा आगतवन्तः। कशां दृष्ट्वा एव उभयोः अपि भयं समुत्पन्नम्। भटाः एकैकम् अपि गृहीत्वा ताडयितुम् आरब्धवन्तः। तदा आदितः अन्तपर्यन्तं कथा तयोः मुखतः आगता।

तदा सन्तुष्टः राजा उक्तवान् — “तर्हि एषा सम्पत्तिः वस्तुतः भवतोः न। राज्ये नियमः अस्ति यत् — “यस्याः सम्पत्तेः स्वामी न भवति सा सम्पत्तिः राज्यस्य अधीना भवेत् इति। भवतोः सहोदरः तु दासरूपेण विक्रीतः। अतः अत्रत्यसम्पत्तौ दासस्य तस्य अधिकारः तु नास्ति एव। एवं चेत् एषा सम्पत्तिः राज्याधीना भवेत्। एतादृशसम्पत्तिं विभक्तुं भवन्तौ प्रयत्नं कृतवन्तौ। न अधिकारिणं निवेदितवन्तौ। भवतोः एतदपराधस्य कृते विंशतिवर्षाणि कारागृहवासः दण्डः” इति।”

‘महाप्रभो! कृपया आवां त्यजतु। सा सम्पत्तिः वा सः मन्त्रस्यूतः वा आवयोः मास्तु एव। स्वातन्त्र्येण जीवनं यापयितुम् अनुमतिं ददातु। वने वा आवां यथाकथञ्चित् जीवावः’ इति जीवदत्तः लक्षदत्तः च विनम्रं प्रार्थितवन्तौ।

किन्तु तौ त्यक्तुं राजा न इच्छति। ‘एतौ प्रजानां मध्ये गत्वा शासनविरोधिप्रचारं कुरुतः चेत् प्रजासु असन्तोषः उत्पद्येत। अथवा यस्य कस्यापि मान्त्रिकस्य स्नेहं सम्पाद्य तद्द्वारा राजानं मां घातयितुम् अपि एतौ सिद्धौ एव। यत्किमपि कर्तुं समर्थौ एतौ’ इति राजा मनसि एव चिन्तितवान्।

अतः सः उक्तवान् — ‘भवन्तौ स्वकीयम् अपराधं भ्रातृहिंसां च स्वयम् एव इदानीम् अङ्गीकृतवन्तौ। अतः अपराधः कृतः इति तु निश्चितः। कृतस्य अपराधस्य दण्डनं तु भवेत् एव। अतः भवतोः कारागृहवासः निश्चितः एव। भवतोः माता वृद्धा। अतः जीवितान्तं यावत् तस्याः कृते मासाशनरूपेण दशदीनाराः दीयन्ते’ इति। एतं निर्णयम् उक्त्वा राजा उद्यानम् उद्दिश्य गतवान् एव।

राजभटाः जीवदत्तलक्षदत्तयोः पादे पाशं बद्धवन्तः। तत्र एकम् अयोगोलं योजितवन्तः अनन्तरम् एकस्मिन् अन्धकारमये कारागृहे स्थापयित्वा वहिः कीलितवन्तः।

तदा जीवदत्तः सहोदरं उक्तवान् — “पश्यतु! आवयोः दौर्भाग्यम्। आवां सहोदरं मातरं च वञ्चितवन्तौ। अक्षम्यम् अपराधं कृतवन्तौ। अतः एषा दुर्गतिः प्राप्ता” इति।

‘मन्त्रस्यूतः मातुः कृते दत्तः चेत् एवं न भवति स्म। मन्त्रस्यूतः इदानीम् आवयोः अपि नास्ति, मातुः अपि नास्ति। परस्परकलहेन सम्पत्तिः अपि नष्टा’ इति लक्षदत्तः खेदं प्रकटितवान्। एवं तौ निद्रां कृतवन्तौ।

सहोदरयोः वञ्चनया वञ्चितः पिङ्गलः नाविकनायकस्य वशे दासरूपेण आसीत् किल! नाविकनायकः एतं पिङ्गलम् इतरदासैः सह एकत्र कोणे बन्धने स्थापितवान्।

नायकस्य आज्ञानुसारं दासाः सर्वे नौकादण्डं चालयितुम् आरब्धवन्तः। पिङ्गलः अपि एतस्मिन् कर्मणि संलग्नः। एषः नाविकनायकः महापुरुषः इव प्रतिभाति स्म। किन्तु वस्तुतः सः एकः महान् समुद्रचोरः। विक्रयणं निमित्तीकृत्य सः नौकास्थानतः नौकास्थानं गच्छति स्म। तदा कस्यां नौकायां किं वस्तु ‘आरोपितम् इति जानाति स्म। अनन्तरं समुद्रमध्ये तां नौकां लुण्ठयति स्म। एवं नौकां लुण्ठयित्वा तत्रत्यान् जनान् निर्दयं समुद्रे मज्जयति स्म। ‘यदि कश्चित् सजीवं त्यजामि तर्हि सः अन्यत्र गत्वा मद्विषये वदति। तेन मम चिन्तयति स्म। अतः एव सः सर्वान् क्रूरतया यमलोकं प्रेषयति स्म।’’

नौकायां बन्धने स्थितः पिङ्गलः भल्लूकेतुना पाठितं मन्त्रं स्मर्तुं बहु प्रयत्नं कृतवान्। किन्तु प्रयत्नशतेन अपि सः स्मर्तुं न शक्तवान्। हताशः सः जानाति ‘अग्रजौ सम्पत्तिं वशीकर्तुम् इच्छन्तौ मां दासरूपेण नाविकनायकाय विक्रीतवन्तो’ इति। सः किमपि कर्तुं न समर्थः इदानीम्।

पिङ्गलः चिन्तयति ‘इतःपरम् अग्रजौः गृहे विद्यमानां सम्पत्तिं वशीकृत्य दुर्व्यसनार्थं व्ययीकुरुतः। पुनरपि मातरं बहुधा पीडयतः’ इति। ‘दास्यतः विमोचनं कथम्’ इति सहस्रवारं चिन्तिते अपि कोऽपि उपायः न स्फुरितः

एव। एवं स्थिते एकदा अनिरीक्षिततया समुद्रे महान् झञ्झावातः उद्भूतः। समुद्रे पर्वताकाराः तरङ्गाः समुत्पन्नाः। तरङ्गैः ताडिता नौका चण्डमारुते पतितं शुष्कपत्रम् इव जाता। नौकायाः परिस्थितिः इदानीम् डोलायमाना जाता। नाविकनायकः सर्वत्र अपायविषये अनुचरान्, दासान् च पूर्वसूचनां सूचयन् इतस्ततः सञ्चरति स्म। सः एकस्याः अनन्तरम् अपराम् आज्ञां ददाति।

तस्मिन् समये दूरे एका नौका झञ्झावातपीडिता जले निमज्जन्ती नाविकनायकेन दृष्टा। नाविकनायकः दूरवीक्षणेन तां नौकां परीक्षितवान्। सा च नौका विशाला विदेशीयवाणिज्ये उपयुज्यमाना इव दृष्टा।

एतादृशनौकायाम् अपरिमितम् ऐश्वर्यं निश्चयेन भविष्यति इति नाविकनायकः जानाति स्म।

‘मम नौका इव सा अपि नौका अपाये पतिता अस्ति। अस्मिन् समये किञ्चित् साहसम् आचरामि चेत् तत्रत्या अपरिमिता सम्पत्तिः मम वशे भविष्यति’ इति नाविकनायकः चिन्तितवान्।

नाविकनायकस्य नौकायां विद्यमानाः अनुचराः एतादृशेषु साहसकार्येषु निपुणाः एव। वाणिज्यनौकायां विद्यमानाः तु केवलं नौकाचालने परिणताः, न तु एतादृशे कुटिलयुद्धे अभ्यस्ताः।

एवं चिन्तयित्वा नाविकनायकः स्वसहचरान् सज्जीभवितुम् अज्ञापयत्। तदा ते सर्वे तस्यां झञ्झावातपरिस्थितौ अपि धनुर्वाणखड्गादीन् हस्ते गृहीत्वा तां वाणिज्यनौकां वशीकर्तुं सन्नद्धाः अभवन्।

पिङ्गलः सर्वशक्त्या नौकादण्डं निरन्तरं चालयन् आसीत्। क्रमशः सा वाणिज्यनौका समीपम् आगता। नाविकनायकः तु स्वप्रधानसहचरैः सह दूरवीक्षणस्य साहाय्येन परिस्थितिं परिशीलयन् आसीत्। तदा अकस्मात् भयेन कम्पमानः सः उच्चस्वरेण आक्रोशनं कुर्वन् आदेशं दत्तवान् — ‘सा वाणिज्यनौका न। तदीयाः जनाः वाणं वस्त्रेण बद्ध्वा, तं ज्वालयित्वा क्षिपन्तः सन्ति। सर्वे त्वरयन्तु, वाणप्रयोगं कुर्वन्तु’ इति।

नाविकनायकस्य वचनसमाप्तेः पूर्वम् एव तस्याः नौकातः ज्वलन्तः वाणाः एतन्नौकायाः उपरि आपतिताः। तेन च तेषां वस्त्रेषु अग्निः संलग्ना।

तदा नाविकनायकः भ्रमाधीनः इव आक्रोशनं कुर्वन् — ‘सर्वान् दासान् बन्धविमुक्तान् कुर्वन्तु। ते इदानीम् खड्गान् स्वीकृत्य नौकारक्षणार्थं सज्जाः भवन्तु’ इति पुनः पुनः उक्तवान्।

अनुवर्तते

संस्कृत चन्दमामा · जुलाई १९८४ · पृ० ११ Chandamama India Limited