चिन्तारहस्यम्
जगन्नाथः एकः निर्धनः। तथापि सः सर्वदा प्रसन्नः उत्साही च। किन्तु एषु दिनेषु सः उदासीनः चिन्तामग्नः च दृश्यते स्म।
एतत् दृष्ट्वा आश्चर्यचकितः स्नेहितः सोमनाथः पृष्टवान् — “किं भोः मित्र? अकस्मात् भवान् एवं परिवर्तितः” इति।
जगन्नाथः दीर्घं निश्वसन् उक्तवान् — ‘भवन्तं प्रति एतत् विषयं निवेदयामि’ इति चिन्तितवान् आसम्। किन्तु विस्मृतवान्। एतावत्पर्यन्तम् अहं निर्धनः आसम्। अतः काऽपिचिन्ता न आसीत्। किन्तु एतन्मध्ये मम मातुलः मृतः। तस्य पुत्रादयः न सन्ति। अतः तस्य द्विलक्षमिता सम्पत्तिः मम वशे आगता। दशदिनेभ्यः पूर्वं समीपग्रामवासिनी अन्या मातुलानी अपि मृता। तस्याः पतिः पूर्वम् एव दिवङ्गतः। पुत्राः अपि तस्याः न सन्ति। अतः तस्याः लक्षमिता सम्पत्तिः अपि मम एव वशे आगता इति।
तदा सोमनाथः आश्चर्येण पृष्टवान् — “एतावती सम्पत्तिः निरायासं प्राप्ता इति सन्तोष्टव्यम्। भवान् तु पुनः किमर्थं चिन्तामग्नः?” इति। जगन्नाथः दीर्घं निश्वसन् पुनः उक्तवान् — “इतःपरं मम बान्धवेषु निस्सन्तानः कोऽपि नास्ति किल?” इति।
समाप्तम्