॥ ॐ श्री गणपतये नमः ॥

विष्णुकथा — रामराज्यम्

श्रीरामस्य अभिषेकः वैभवेन अभवत्। अनन्तरं रामः सोदराणां सहकारेण, न्यायमार्गेण राज्यं पालयन् आसीत्।

एकस्मिन् दिने एकः ग्रामीण-ब्राह्मणः अयोध्याम् आगतवान्। तस्य हस्ते स्वपुत्रस्य मृतशरीरम् आसीत्। ब्राह्मणः राजद्वारसमीपम् आगतवान्। पञ्चवर्षीयस्य पुत्रस्य शवं तत्र स्थापयित्वा “रामस्य शासने दोषः अस्ति। अतः एव मम पुत्रः अकालमरणं प्राप्तवान्” इति पुनः पुनः वदन् रोदनं कृतवान्।

एतं विषयं रामः ज्ञातवान्। सः मन्त्रिभिः वसिष्ठादिभिः सह मन्त्रालोचनं कृतवान्। ब्राह्मणबालकस्य अकालमरणे कारणं किम् इति विचारितवान्। तदा नारदः तस्य कारणम् उक्तवान् ‘शम्बुकः इति कश्चन शूद्रः घोरतपः आचरन् अस्ति। तत् युगधर्मविरुद्धम्। अतः एव अकालमरणम् अभवत्’ इति।

रामः लक्ष्मणम् उक्तवान् — “शीघ्रं गच्छतु। तस्य ब्राह्मणस्य सान्त्वनं करोतु। बालकस्य शरीरं तैलभाण्डे सुरक्षितं स्थापयतु” इति। अनन्तरं रामः पुष्पकविमानम् आरुह्य प्रस्थितवान्। पूर्व-पश्चिमोत्तदिक्षु सञ्चारं कृतवान्। अन्ते दक्षिणदिशि एकं सरोवरं दृष्टवान्। तत्र शम्बुकः अधोमुखः सन् तपोमग्नः आसीत्। रामः तस्य समीपं गतवान्।

खड्गेन शम्बुकस्य शिरच्छेदं कृतवान्। तदा शम्बुकस्य छिन्न शिरः आनन्देन एवं वदति — “भोः राम! सर्वेषाम् अपि प्राणिनां मरणं निश्चितम् एव। मम मरणे तु भवान् केवलं निमित्तमात्रम्। यद्यपि भवान् समस्तजनानां राजा अस्ति, तथापि भवान् प्रजानां सेवकः। प्रजानां दुःखनिवारणं प्रजावत्सलस्य भवतः कर्तव्यम्। यदा अहं धर्मविरुद्धं कार्यं कृतवान् तदा भवान् एव स्वयं मां दण्डयितुम् आगतवान् किल! एतदेव आदर्शराजस्य लक्षणम्। अहं तु अपराधी। अकार्यं कृतवान् अस्मि। मां क्षाम्यतु। मयि कृपां प्रदर्शयतु। भवतः अनुग्रहेण मां विष्णुसायुज्यं प्रापयतु” इति।

कपिला शम्बुकस्य पत्नी। सा रामम् उक्तवती — ‘भोः राम! इतःपरं भवतः बहुकठोरपरीक्षाः भविष्यन्ति। तदर्थम् एतत् नान्दी इति चिन्तयतु। सर्वदा दृढमनस्कः भूत्वा कर्तव्यपालनं करोतु। अहं मम पत्या सह ससन्तोषं गच्छामि’ इति। सा पत्युः चितां प्रविष्टवती।

रामः ततः प्रस्थितवान्। मार्गे एकः वृक्षः। वृक्षे एकः कोटरः। सः वस्तुतः कस्यचन उलूकस्य कोटरः। किन्तु कश्चन गृध्रः दुराक्रमणं कृत्वा उलूकं ततः निष्कासितवान् आसीत्। एवं विषयं रामः ज्ञातवान्। सः गृध्रं दण्डयितुं चिन्तितवान्। गृध्रस्य शिरसः स्पर्शनं कृतवान्। तदा गृध्रः अदृश्यः अभवत्। तत्स्थाने एकः राजा प्रत्यक्षम् अभवत्। सः रामम् उक्तवान् — ‘अहं ब्रह्मदत्तनामकः राजा। अहं शापग्रस्तः आसम्। भवतः अनुग्रहेण मम शापविमोचनं अभवत्’ इति। सः रामं नमस्कृत्य गतवान्।

रामः अयोध्याम् आगत्य पश्यति, ब्राह्मणबालकः जीवितः अस्ति।

एकदा विश्वामित्रः रामस्य सभास्थानम् आगतवान्। सः रामम् आज्ञप्तवान् — ‘शकुन्तः इति एकः राजा अस्ति। सः मम अवमानं कृतवान्। भवान् तस्य वधं करोतु। एषा गुरोः आज्ञा’ इति।

रामः शकुन्तराजस्य वधं कर्तुं प्रस्थितवान्।

शकुन्तराजः अज्ञानदेव्याः समीपं गतवान्। अज्ञानदेवी आञ्जनेयस्य माता। सा शकुन्तराजस्य कृते अभयप्रदानं कृतवती। तस्याः आज्ञां पुरस्कृत्य आञ्जनेयः शकुन्तराजं रक्षितुं सिद्धः। रामः युद्धार्थम् आगतवान्। आञ्जनेयः तस्य पुरतः सधैर्यं स्थितवान्। रामः बाणप्रयोगं कृतवान्। किन्तु सर्वे अपि बाणाः आञ्जनेयस्य वक्षस्थले विलीनाः।

विश्वामित्रः एतत् सर्वं दृष्टवान्। तस्य मनः परिवर्तितम्। सः दुराग्रहं त्यक्तवान्। शकुन्तराजं आशिषा अनुगृह्य गतवान्।

अन्यत् एकं दिनम्। मध्यरात्रिसमयः। कश्चन शुनकः राजद्वारे स्थित्वा आक्रोशति — ‘अहं न्यायम् इच्छामि’ इति। एतत् श्रुत्वा रामः बहिः आगत्य, व्रणितं शुनकं प्रीत्या सान्त्वयति।

शुनकः स्व-वृत्तान्तं सर्वं निवेदयति। ‘गतजन्मनि अहं कस्यचन देवालयस्य अर्चकः आसम्। तदा मया पापम् आचरितम्। अतः एव शुनकजन्म प्राप्तवान्। अद्य एकः पुरुषः मां विनाकारणं ताडितवान्। सः दण्डनीयः। तं देवालयस्य अर्चकस्थाने नियोजयतु। तदेव तस्य उचितं दण्डनम्’ इति। रामः तत् अङ्गीकृतवान्। सन्तुष्टः शुनकः ततः प्रस्थितः।

अन्यत् एकं गृहम्। गृहस्य यजमानः एकदिने स्व-पत्नीं तर्जयति — ‘भवती परपुरुषगृहे स्थितवती। परपुरुषगृहे स्थितां पत्नीं पुनः स्वीकर्तुम् अहं रामः न’ इति। रामः एतां वार्ताम् ज्ञातवान्।

सः एतम् अपवादं सोढुम् असमर्थः। सः लक्ष्मणम् आज्ञप्तवान् — “लक्ष्मण! सीताम् अरण्ये त्यक्त्वा आगच्छतु” इति। परन्तु लक्ष्मणः एतत् न अङ्गीकरोति। तदा रामः पुनः उक्तवान् “अहं राजा अस्मि। राजा सर्वदा प्रजानां सेवकः। मम प्रजाः एव मम देवाः। अतः प्रजानाम् अभिप्रायः मया पुरस्करणीयः। प्रजापालने स्वार्थस्य अवकाशः एव नास्ति। प्रजानां सन्तुष्ट्यर्थम् अहं सीतां त्यजामि। भवान् मम आज्ञां पालयतु” इति।

इदानीं लक्ष्मणः अङ्गीकृतवान्। सः सीतायाः समीपं गत्वा उक्तवान् — “प्रजावति! भवती मुनीनाम् आश्रमं द्रष्टुम् इच्छति किल? इदानीं गच्छामः” इति। सीता सन्तोषेण अङ्गीकृतवती। लक्ष्मणः तां रथे उपवेश्य घोरम् अरण्यं नीतवान्। तत्र तां विसृज्य अतीव दुःखेन प्रत्यागतवान्।

अरण्ये वाल्मीकिमहर्षिः सीतां दृष्टवान्। सः ताम् आश्रमं नीतवान्। आश्रमे सीता लवकुशयोः जन्म दत्तवती।

एकदा अयोध्यानगरे अनावृष्टिः आगता। जलेन विना जनजीवनम् एव कष्टमयम् अभवत्। तदा रामस्य गुरवः रामम् उक्तवन्तः — “अश्वमेधयागं करोतु, वृष्टिः भविष्यति” इति।

रामः यागार्थं सिद्धः। सः सीतायाः स्वर्णमयप्रतिमां निर्मापयति। यागार्थं दीक्षितः भवति।

कुश-लवौ अयोध्याम् आगतवन्तौ। तौ वाल्मीकिमहर्षिणा रचितं रामायणकाव्यं गीतवन्तौ। तेन रामः बहु सन्तुष्टः। सः कुशलवौ मुनिबालकौ इति चिन्तयति। तयोः कृते उपायनादिकं दत्त्वा प्रेषयति।

अनन्तरं लवकुशौ रामस्य अश्वमेधयागस्य अश्वस्य बन्धनं कृतवन्तौ।

भरतः लक्ष्मणः शत्रुघ्नः इत्यादयः अश्वस्य रक्षणार्थम् आगतवन्तः। तैः सह लवकुशौ युद्धं कृतवन्तौ। युद्धे भरतादयः सर्वे अपि पराजिताः। ते मूर्च्छिताः। अन्ते रामः एव युद्धं कृतवान्। युद्धे कुशलवौ मातुः नाम्निशपथं कृत्वा बाणप्रयोगं कृतवन्तौ। रामः मूर्च्छितः। तदा सीता तत्र आगतवती। सर्वेषां शुश्रूषां कृतवती। सर्वे अपि स्वस्थाः अभवन्।

वाल्मीकिः रामं सर्वं विषयम् उक्तवान्। लवकुशौ सीतां च अर्पितवान्। रामः सीतया सह सिंहासनम् आरूढवान्। सः लवकुशयोः यौवराज्य-अभिषेकम् अपि कृतवान्।

‘लवकुशौ रामं प्राप्तवन्तौ’ इति सीता बहु सन्तुष्टा। सा प्रजानां पुरतः आगच्छति। भूमिं पश्यन्ती एवं वदति — ‘भोः मातः! रघुवंशदीपकौ मम पुत्रौ स्वपितरं प्राप्तवन्तौ। मया कर्तव्यं सर्वं कृतम्। इतःपरम् अहं जीवितुं न इच्छामि। अतः मां भवती अन्तः स्वीकरोतु’ इति।

तदा भूकम्पः अभवत्। भूमिः द्वेधा विभक्ता। भागद्वयस्य मध्ये रत्नसिंहासने भूदेवी उपविष्टा आसीत्। सा उत्थाय बहिः आगतवती। सीतां गृहीत्वा भूम्याः अन्तः गतवती। तदा पुष्पवृष्टिः अभवत्। भूमिः पुनः पूर्ववत् अभवत्। जनाः सर्वे विस्मयेन मूकाः अभवन्।

एतत् सर्वं दृष्ट्वा रामः बहु कुपितः। सः कोदण्डधनुः गृहीत्वा भूमिं नाशयितुं सिद्धः। तदा अशरीरवाणी श्रुता — ‘भोः राम! शान्तः भवतु। भूमिः सीतायाः माता। सीता मातृसमीपं गतवती। अतः भवान् चिन्तां न करोतु। स्व-कर्तव्यं स्मरतु’ इति।

अनन्तरं रामः बहुकालपर्यन्तं राज्यं परिपालयन् आसीत्। एकदा यमधर्मः ब्राह्मणवेषं धृत्वा रामसमीपम् आगतवान्। सः उक्तवान् — “भोः रामचन्द्र! अहं देव रहस्यं वक्तुम् आगतवान्। वयम् एकान्तस्थले उपविश्य सम्भाषणं कुर्मः। लक्ष्मणः द्वारपालनं करोतु। आवयोः सम्भाषणसमये, मध्ये प्रवेष्टुं कस्यापि अवकाशः न दातव्यः। अवकाशः दत्तः चेत् लक्ष्मणस्य मरणदण्डनं दातव्यम्” इति। रामः अङ्गीकृतवान्। लक्ष्मणः द्वारे स्थितवान्। एतयोः सम्भाषणम् आरब्धम्। यमधर्मः स्व-निजरूपं धृत्वा रामम् उक्तवान् — “भो! श्रीरामचन्द्र, रामावतारे भवता यत् कार्यं करणीयम् आसीत्, तत् सर्वं कृतम्। अतः भवान् शीघ्रं वैकुण्ठलोकं गच्छतु। तत्र लक्ष्मीः भवतः प्रतीक्षायाम् अस्ति” इति।

तस्मिन् एव समये दुर्वासाः अयोध्याम् आगच्छति। सः लक्ष्मणम् उक्तवान् — “अहं रामम् इदानीम् एव द्रष्टुम् इच्छामि। तदर्थं अवकाशं कल्पयतु। नो चेत् अहं ‘रघुवंशः एव निर्वंशः भवतु, इति शपामि’ इति। निष्पापः लक्ष्मणः तस्य कृते अन्तः गन्तुम् अवकाशं कल्पयति। अनन्तरं स्वयं सरयूनदीं गच्छति। नदीं प्रविश्य अदृश्यः अभवत्।”

अयोध्यायां रामः लवकुशयोः राज्याभिषेकं कृतवान्। राज्यपालनं व्यवस्थितम्। एवं सति एकदा श्रावणमासः आरब्धः। सरयूनद्यां पूर्णप्रवाहः। पूर्णिमादिने चन्द्रग्रहणपर्वकालः अपि आसीत्। रामः सरयूनदीं गन्तुं प्रस्थितवान्। तस्य पार्श्वद्वये भरतशत्रुघ्नौ अयोध्यायाः सर्वाः प्रजाः अपि आसन्।

रामः नदीजलं प्रविष्टवान्। अन्ये सर्वे अपि तथैव कृतवन्तः। ग्रहणविमुक्तः चन्द्रः आकाशे विराजते स्म। आकाशातः पुष्पवृष्टिः अभवत्। सुमधुरवीणाध्वनिः सर्वदिक्षु अपि प्रसृता।

क्षीरसागरे लक्ष्मणः आदिशेषरूपं धृत्वा सिद्धः आसीत्। सीता लक्ष्मीरूपेण महाविष्णोः प्रतीक्षायाम् आसीत्। रामः विष्णुरूपं धृत्वा शेषतल्पे अर्धशायितः अभवत्। भरतशत्रुघ्नौ शङ्खचक्ररूपेण तस्य हस्तम् अलङ्कृतवन्तौ। लक्ष्मीः तस्य पादसेवनं करोति।

विष्णोः दश अवतारेषु रामावतारः अत्यन्तं विशिष्टः। रामः आदर्शमानवः। सः पितृवाक्यपरिपालनार्थं वनवासम् आचरितवान्। वानराणां सङ्घटनं कृत्वा सेतुबन्धनं कृतवान्। लोककण्टकस्य रावणस्य संहारं कृतवान्। एकपत्नीव्रतस्थः भूत्वा आदर्शं परिपालितवान्। रामराज्यस्य कीर्तिः लोके सर्वदा तिष्ठति।

अतः श्रीरामः पुरुषोत्तमः इति सर्वे वदन्ति। रामस्य जीवनं सर्वदा, सर्वेषां कृते प्रेरणादायकम् अस्ति। अत्यन्तकष्टसन्दर्भेषु अपि कथं धैर्येण कार्यं करणीयम् इति रामः लोकस्य जनानां कृते प्रदर्शितवान्।

एवं सूतपुराणिकः शौनकादीन् रामावतारस्य कथाम् उक्तवान्। अनन्तरं कृष्णावतारस्य कथां वक्तुम् आरब्धवान्।

दानवाः सर्वे अपि शिवभक्ताः। विष्णुः पुनः पुनः दानवसंहारं करोति। अतः शिवः कुपितः — “मम भक्तान् विष्णुः सर्वदा मारयति” इति।

कुपितस्य शिवस्य नेत्रतः एकः राक्षसः उत्पन्नः। तस्य आकृतिः भीकरा आसीत्। शरीरे सहस्रकवचाः आसन्। अतः एव तस्य नाम सहस्रकवचः इति। तस्य देहे अजेयप्रभावशालि-कुण्डलानि अपि आसन्। जननसमनन्तरम् एव सः भीकरस्वरेण गर्जनं कृत्वा उक्तवान् — “अहं सामान्यराक्षसः न, अपि तु रुद्रांशसम्भूतः। सः विष्णुः मम कृते किं कर्तुं शक्नोति?”। तस्य अटाटोपेन लोकत्रयम् अपि कम्पितम्। मानवाः सर्वे अपि भीताः।

तदा विष्णुः नर-नारायणरूपेण अवतारं कृतवान्। सहस्रकवचः बहु पराक्रमी। तं जेतुं बहुशक्तिः आवश्यकी आसीत्। अतः तादृशीं शक्तिं सम्पादयितुं नर-नारायणौ तपः आचरितुं प्रारम्भं कृतवन्तौ। इन्द्रः तयोः तपोभङ्गं कर्तुम् इच्छति। तदर्थं सः अप्सराब्रियः प्रेषितवान्। तदा नारायणस्य ऊरुतः उर्वशी उद्भूता। उर्वशी अत्यन्तसुन्दरी आसीत्। तस्याः अनुपमसौन्दर्यं दृष्ट्वा रम्भा-इत्यादयः लाज्जिताः। पराजितः इन्द्रः नारायणस्य समीपम् आगत्य क्षमां प्रार्थितवान्। नारायणः इन्द्रम् उक्तवान् — “एताम् उर्वशीं स्वर्गं नयतु” इति। इन्द्रः तां स्वर्गं नीतवान्।

नर-नारायणौ सहस्रकवचेन सह युद्धं कृतवन्तौ। यदा एकः तपः करोति तदा अन्यः युद्धं करोति स्म। एवं क्रमेण सहस्रवर्षपर्यन्तं युद्धम् अभवत्। युद्धे एकैकशः सहस्रकवचस्य सर्वे कवचाः छिन्नाः। अन्ते एकः एव कवचः अवशिष्टः। तदा भीतः सहस्रकवचः सूर्यमण्डलं प्रतिः पलायनं कृतवान्।

“आरम्भे अतीवपराक्रमं प्रदर्श्य अन्ते भीत्या पलायितवान् भीरुः। कृष्णावतारसमये ‘एतस्य कृते किं दण्डनं दातव्यम्’ इति चिन्तयामि इति विष्णुः निश्चयं कृतवान्।”

समाप्तम्

संस्कृत चन्दमामा · जून १९८४ · पृ० ५१ Chandamama India Limited