त्रयः मान्त्रिकाः
पिङ्गलः मातुः द्वारा सहोदरयोः दुराचारं सर्वं ज्ञातवान्। किन्तु सहोदरयोः पश्चात्तापपूर्वकं रोदनं श्रुत्वा पिङ्गलस्य मनः द्रवितम्। भ्रातृप्रेम्णा तयोः आदरं कृतवान्। कृतघ्नौ सहोदरौ तु पिङ्गलेन आनीतं धनं वशीकर्तुं चिन्तितवन्तौ। पिङ्गलम् एकस्य नाविकनायकस्य कृते विक्रेतुं इष्टवन्तौ। नाविकनायकेन सह सम्भाषणम् अपि कृतवन्तौ।
अनुजविषये जीवदत्तेन उक्तं सर्वम् अपि नाविकनायकः सकुतूहलं श्रुतवान्। अनन्तरम् आनन्देन अट्टहासं कृतवान्। तस्य अट्टहासस्य अन्तरार्थम् अजानन् जीवदत्तः लक्षदत्तः च परस्परं मुखं दृष्टवन्तौ। हासानन्तरं नाविकनायकः किञ्चित् आलोच्य जीवदत्तम् उक्तवान् — ‘भोः मित्र! एतादृशः युवकः एव मम कृते अपेक्षितः। भवता उक्तं सर्वं सत्यं किल? वस्तुतः पिङ्गलनामकः भवताम् अनुजः, भवन्तं भवतः मातरं च पीडयति वा? मम पुरतः निःसारवचनम् असत्यं वा न वदतु’ इति।
इति।
‘श्रीमन्! एवं तु न करोतु। सः पुनः गृहम् आगच्छति चेत् अस्माकं दुर्गतिः एव’ इति जीवदत्तः उक्तवान्। झटिति लक्षदत्तः अपि उक्तवान् — ‘अनुजः तु जन्मना दुष्टः। वर्षत्रये प्रतिप्रेषयन्ति चेत् पुनरपि पूर्वतनी बुद्धिः अनुवर्तते। सः अस्मान् पुनरपि पीडयति। अतः तस्य दूरे स्थितिः एव वरम्’ इति।
‘नायक महोदय! अस्माकं वचनं सर्वं सत्यम् एव। दुष्टस्य एतस्य अनुजस्य पीडया वयं खिन्नाः। इतःपरं सोढुं न शक्यम्। अस्माकं कष्टं देवः एव जानाति’ इति उक्तवान् लक्षदत्तः।
नौकानाविकः पुनरपि तीक्ष्णदृष्ट्या पश्यन् उक्तवान् — ‘तर्हि भवतः अनुजम् अहं क्रीणामि। तं मम सेवायां नियोजयामि, गर्वभङ्गं च करोमि। यदा सः सज्जनः भवति तदा ते भवतः समीपं प्रेषयिष्यामि। भवतु किल? तर्हि दासरूपेण तं विक्रेतुं भवतः माता अपि अङ्गीकरोति वा? विक्रयणानन्तरं पुनः दोषारोपणं क्रियते चेत् कथं भवेत्। सर्वं विचिन्त्य निर्णयं स्वीकुर्वन्तु’ इति उक्तवान् नाविकनायकः।
जीवदत्तः लक्षदत्तः च किञ्चित् दूरं गत्वा रहसि वार्तालापं कृतवन्तौ। प्रत्यागत्य विनयभावनया जीवदत्तः उक्तवान् — ‘आगमनसमये एव वयं मात्रा सह वार्तालापं कृत्वा एव आगतवन्तः। पिङ्गलं दूरं प्रेषयितुं सा इच्छति एव। पुत्रपीडया सा अपि खिन्ना। किन्तु ‘पुत्रं दासरूपेण नयतु’ इति स्वयं मुखतः वक्तुं न शक्नोति। ‘अतः वयं केवलम् आगतवन्तः। अस्माकं वचसि विश्वासं स्थापयतु’ इति।’
‘तर्हि अस्तु, सायं सूर्यास्तानन्तरं केनापि व्याजेन तम् अत्र आनयन्तु। अवशिष्टं सर्वम् अहं पश्यामि। एतत् स्वीकरोतु तस्य मूल्यम्’ इति वदन् नाविकनायकः जीवदत्तस्य हस्ते शतदीनारान् दत्तवान्।
जीवदत्तः तत् न स्वीकुर्वन् उक्तवान् ‘तं समुद्रतीरम् आनेतुं न शक्यते एव। तस्मिन् शतशृगालानां तन्त्रं, अशीतिमहिषाणां बलं च अस्ति। अतः भवान् एव अद्य रात्रौ मम गृहं आगत्य केनापि उपायेन तं नयतु’ इति।
जीवदत्त-लक्षदत्तयोः भीतिं दृष्ट्वा हसन् नाविकनायकः उक्तवान् — ‘शृगालतन्त्रं महिषशक्तिः च मम पुरतः तृणसमानम्। राक्षसः वा भवतु नाम, तं शृङ्खलया बद्ध्वा अहं मदीये कार्ये नियोजयामि। तदस्तु, अद्य रात्रौ सहचरैः सह अहम् एव भवतां गृहं आगमिष्यामि। भवन्तः सिद्धाः भवन्तु। अवशिष्टम् अनन्तरं पश्यामः’ इति।
‘एवं चेत् भवतः उपकारम् आगामिजन्मनि अपि न विस्मरामः’ इति उक्तवान् जीवदत्तः। अनन्तरं नाविकनायकेन दत्तान् शतदीनारान् सन्तोषेण स्वीकृत्य लक्षदत्तेन सह ततः निर्गतः।
मार्गे लक्षदत्तः उक्तवान् — ‘अग्रज! इदानीं कोऽपि उपायः चिन्तनीयः। रात्रौ नाविकनायकः सहचरैः सह गृहं आगच्छति किल? तदा पिङ्गलस्य मनसि संशयः उत्पन्नः न भवेत्। एतदर्थं किं कुर्मः?’ इति।
‘चिन्ता मास्तु। उपायम् अहम् पूर्वम् एव चिन्तितवान् अस्मि’ इति वदन् जीवदत्तः लक्षदत्तस्य कर्णे रहस्यरूपेण उपायं सूचितवान्। उपायं श्रुत्वा सन्तुष्टः लक्षदत्तः हसन् उक्तवान् — ‘अग्रज! भवान् तु बृहस्पतिसमः। किन्तु एकः प्रश्नः, अन्ते पिङ्गलेन आनीते धने मदीयः भागः अल्पः न स्यात् किल?’ इति।
‘छे छे, भवतः किमर्थम् एतादृशः सन्देहः? अहम् उपायसूचकः इति कृत्वा भागे अधिकं स्वीकरोमि वा? बुद्धौ अहं श्रेष्ठः चेत् बले भवान् एव श्रेष्ठः। अन्यच्च, अहं सहोदरं वञ्चयामि वा?’ इति जीवदत्तः उक्तवान्।
एवं गायन्तौ हसन्तौ च तौ गृहं आगतौ। द्वारे पिङ्गलं दृष्ट्वा तयोः मुखभावः एव परिवर्तितः। मुखे कृतकचिन्ता आगता।
एतत् दृष्ट्वा पिङ्गलः पृष्टवान् — ‘सहोदर! किमर्थं चिन्ता? किं जातम्?’ इति।
जीवदत्तः — ‘सहोदर! अवमानम् अतिरिच्य दुःखकरं किमपि नास्ति किल? अद्य मार्गे मम प्राचीनस्नेहितः मिलितः। सः इदानीं नाविकनायकः अस्ति। वाणिज्यनिमित्तं सः अत्र नगरम् आगतवान्। पूर्वं सः बहुवारम् अस्माकं सत्कारं कृतवान् आसीत्। वयं तु कदापि तस्य सत्कारं न कृतवन्तः। अस्माक किम् अस्ति? वयं तु दरिद्राः’ इति खेदेन उक्त्वा रोदनम् आरब्धवान्। लक्षदत्तस्य नेत्रे अपि अश्रूणि आगतानि!
‘अग्रज! भवतः स्नेहितः मम अपि स्नेहितः एव। इदानीं वयं न दरिद्राः। भवतः स्नेहितः स्व-सहचरैः सह अवश्यम् आगच्छतु। यथा ते आश्चर्यचकिताः भवेयुः तथा भोजनव्यवस्थां कुर्मः, चिन्ता मास्तु’ इति उक्तवान् पिङ्गलः। ‘सत्यं वा एतत्?’ इति आश्चर्ये प्रकटयन् जीवदत्तः उक्तवान्। ‘सत्यम् एव वदामि। स्नेहितम् आनयन्तु। उत्कृष्टं भोजनम् व्यवस्थापयामः’ इति पिङ्गलः उक्तवान्।
‘तर्हि इदानीम् एव आह्वानम् दत्त्वा आगच्छामः’ इति उक्त्वा जीवदत्तः लक्षदत्तेन सह गतवान्।
सायंकालपर्यन्तं पानमन्दिरे द्यूतगृहे च कालायापनं कृत्वा अनन्तरं नाविकनायकस्य समीपं गतवन्तः। नाविकनायकः स्व-सहचरैः सह जीवदत्तम् अनुसृतवान्।
पिङ्गलः नाविकनायकं तदीय-सहचरान् च हृष्टपूर्वकं स्वागती-कृतवान्। मन्त्रस्यूतस्य साहाय्येन विविधानि भक्ष्यभोज्यानि उत्पाद्य अतिथीनां कृते परिवेषितवान्। नाविकनायकः तु एतत्सर्वं जीवदत्तेन लक्षदत्तेन च व्यवस्थापितम् इत्येव चिन्तितवान्।
भोजनानन्तरं सर्वे बहुकालपर्यन्तं जल्पनं कृतवन्तः। ‘पिङ्गलः यदा निद्रितः भवति तदा तं बन्धयामि’ इति नाविकनायकः चिन्तयति स्म। पिङ्गलः तु उत्साहेन वार्तालापं कुर्वन् एव अस्ति। नाविकनायकस्य असहना पराकाष्ठां गता।
काल्यापनं व्यर्थम् इति चिन्तयित्वा नाविकनायकः स्व-सहचरान् जीतदत्तं लक्षदत्तं च संज्ञया सूचितवान्। ते सर्वे झटिति पिङ्गलस्य उपरि पतितवन्तः। रज्जुना तं बन्धितवन्तः। जीवदत्तः पिङ्गलस्य मुखे वस्त्रं स्थापितवान्। पिङ्गलेन एतत्सर्वं न निरीक्षितम्। किञ्चित्-कालं सः विमोचनं प्राप्तुं प्रयत्नं कृतवान्। किन्तु सः एकाकी। आक्रमणकाराः तु बहवः।
पिङ्गलः झटिति स्वसेवकं भल्लूककेतुं स्मृतवान्। मन्त्रोच्चारण-समनन्तरम् एव भल्लूककेतुः साहाय्यार्थं प्रत्यक्षः भवति स्म। किन्तु पिङ्गलः प्रयत्नेन अपि मन्त्रं स्मर्तुं न शक्तवान्।
पिङ्गलः मन्त्रं स्मर्तुं पुनः पुनः प्रयत्नं कृतवान्। तथापि असफलः एव। पिङ्गलः इदानीम् असहायः। पार्श्वप्रकोष्ठे निद्रिता माता तु किमपि न ज्ञातवती। नाविकनायकस्य अनुचराः बन्धितं पिङ्गलम् उन्नीय स्वनायकम् अनुसृतवन्तः।
जीवदत्तः अपि लक्षदत्तेन सह समुद्रतीरपर्यन्तं गतवान्। तत्र नाविकनायकम् उक्तवान् “भोः, जागरूकता भवतु। एषः विषसर्पः इव अस्ति। यत्किमपि भवतु, एतं न त्यजतु” इति।
“विषसर्पस्य मुखं इदानीं बन्धितं अस्ति। तस्य दन्ताः कथं निष्कासनीयाः इत्यपि अहं जानामि। एकवारं कश्चित् मम वशो आगतः चेत् पुनः तस्य मोक्षः एव नास्ति” इति उक्तवान् नाविकनायकः।
जीवदत्तः लक्षदत्तः च नाविकनायकस्य कृते पुनः पुनः कृतज्ञतां समर्प्य गृहम् आगतवन्तौ। किमपि अजानन्तौ इव निद्रितवन्तौ। प्रातःकाले उत्थाय मातुः समीपे ‘अम्ब! पिङ्गलः कुत्र’ इति कातरस्वरेण पृष्टवन्तौ।
माता सहजस्वरेण उक्तवती — “किमर्थं कातरता? सः स्व-प्रकोष्ठे निद्रां करोति। शीघ्रम् एव उत्तिष्ठति” इति।
“सः प्रकोष्ठे नास्ति। गृहे अपि कुत्रापि नास्ति। भवती किमपि कार्यम् उक्त्वा प्रेषितवती स्यात् इति चिन्तयित्वा अहं पृष्टवान्” इति उक्तवान् जीवदत्तः।
एतत् वचनं श्रुत्वा माता भीता इव। सा त्वरया गृहे सर्वत्र अन्वेषणं कृतवती। तदा जीवदत्तः उक्तवान् — “अम्ब! भीतिः मास्तु। ममतु एकः संशयः। रात्रौ सः अतिथिं प्रति — ‘मम नौकाप्रयाणं बहु इष्टम्’ इति वदति स्म। अतः नाविकनायकेन सह गतवान् स्यात्” इति।
“एवमेव स्यात्। “दूरे कुत्रचित् द्वीपे एकं दुर्गम् अस्ति। तत्र मूमौ निधिः अस्ति।” इति नाविकनायकः वदति स्म। ‘निधिं बहिः आनेतुं मन्त्रतन्त्रादिकम् अहं जानामि’ इति पिङ्गलः वदति स्म। अतः नाविकनायकेन सह एव गतवान् स्यात्। भवती गमनं निषेधयति इति कृत्वा सः अनुक्त्वा एव गतवान्” इति उक्तवान् लक्षदत्तः।
सरलस्वभावा माला एतत्सर्वं सत्यम् इत्येव अङ्गीकृतवती। अनन्तरं निराशा सा देवं प्रार्थयन्ती उक्तवती — ‘एवमेव स्यात्। किन्तु पिङ्गलः सर्वदा भाग्यशाली एव। न्यायबुद्धिः सद्व्यवहारः च तं सर्वदा रक्षयति। मदीयः वत्सः शीघ्रम् एव आगमिष्यति’ इति।
मातुः व्यवहारेण सहोदरयोः कोपः आगतः। जीवदत्तः कोपेन — ‘ओ हो हो! सः एकः बुद्धिमान् पुत्रः। वयं तु बुद्धिहीनाः किल? सर्वदा पिङ्गलविषये भवत्याः पक्षपातः एव। इतःपरं वयम् एतस्मिन् गृहे क्षणम् अपि न निवसामः। भवती भवत्याः प्रियपुत्रश्च अत्र निवसतु, पित्रा सम्पाद्य स्थापिता सम्पत्तिः कुत्र अस्ति?’ इति वदन् धनार्थम् अन्वेषणम् आरब्धवान्।
माता उक्तवती — ‘पित्रार्जितं सर्वं भवन्तौ दुर्व्यसनार्थं व्ययीकृतवन्तौ किल? इदानीं विद्यमानं सर्वम् अपि पिङ्गलेन सम्पादितम्’ इति।
एतेन वचनेन जीवदत्तः कुपितः। मातरम् अवाच्यशब्दैः निन्दितवान्। लक्षदत्तः पिङ्गलेन आनीतं धनराशिं मन्त्रस्यूतं च वशीकृतवान्। ‘एवं न कुर्वन्तु भोः’ इति दैन्येन उक्तवती माता।
अनुवर्तते