बुद्धिमान् शिष्यः
काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति। शिष्यः वदति — “आचार्य! विद्याभ्यासार्थम् अहम् आगतः।”
पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति — “वत्स! देवः कुत्र अस्ति?”
शिष्यः वदति — “गुरो! देवः कुत्र नास्ति? कृपया भवान् एव समाधानं वदतु।”
सन्तुष्टः गुरुः वदति — “देवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वं बुद्धिमान्। अतः विद्याभ्यासार्थम् अत्रैव वस।”