॥ ॐ श्री गणपतये नमः ॥

महाराजस्य गानम्सुमा

Narration: © हर्षदा मादिराजु/CC BY-SA

मद्रदेशे महेन्द्रपुरी इति काचन नगरी आसीत्तत्र शचीन्द्रः इति एकः राजा आसीत्सः सङ्गीतासक्तः आसीत्अतः सः महाराजः नूतनतया सङ्गीतशास्त्रस्य किञ्चित् अभ्यासं कृतवान्अतः अन्येषाम् अपि स्वकीयं गानं श्रावयितुम् आरब्धवान्यदा राजा गातुम् आरम्भं करोति, तदा तस्य अश्रितजनाः सचिवाः सर्वे तत्रैव उपविशन्ति स्ममहाराजस्य सङ्गीतं श्रोतुम् इच्छा आसीत्किन्तु मध्ये उत्थाय गन्तुं कस्यापि धैर्यं भवति स्मअनेन कारणेन तेषां सर्वे कार्यक्रमाः अस्तव्यस्ततां गताःअतः एषः विषयः महाराजं प्रति वक्तव्यः इति ते सर्वे आलोचितवन्तःकिन्तु कथम्?

ते सर्वे मिलित्वा चर्चां कृत्वा कृत्वा श्रान्ताःकिन्तु समस्यायाः परिहारः लब्धःसाक्षात् महाराजस्य पुरतः यदा वदामः तदा तस्य गानस्य तिरस्कारः जातः इति सः चिन्तयति ते चिन्तयन्तितस्य महान् क्रोधः भवतितदा अस्माकम् उद्योगानां का गतिः? मरणशिक्षा अपि भवेत्

महाराजस्य शचीन्द्रस्य आस्थाने वसन्तकः इति एकः विदूषकः आसीत्तस्यापि महाराजस्य गानं सततं श्रुत्वा श्रुत्वा महती जामिता जाताएकदा महाराजः गानं समाप्य पार्श्वे विदूषकं दृष्टवान्सः विदूषकः गानं श्रुत्वा पीडितः इव तूष्णीं स्थितवान्तस्य मुखे कापि भावना नासीत्तं प्रति एवम् उक्तवान्— “मम सङ्गीते यत्किमपि इन्द्रजालम् अस्ति इति प्रतिभातिमम गानसमये भवन्तः सर्वे चित्रलिखिताः इव उपविशन्तिअतः अहं महान् गायकः अस्मीति भावयामिइति

एतत् वाक्यं श्रुत्वा विदूषकः भीतः इव मुखभावं कृतवान्अनन्तरंप्रभो! भवतां गानं श्रोतुम् एकदा ये सभायाम् उपविशन्ति, तदा गानमध्ये उत्थाय गन्तुं तेषां कथं वा धैर्यं भवेत्?”

विदूषकेण उक्तस्य वचनस्य रहस्यं शीघ्रं महाराजः ज्ञातवान्सः किञ्चिदपि क्रुद्धःप्रत्युत हसन् एवभो वसन्तक! मम गानं श्रोतुं ये ये उपविशन्ति, तेषु केचन मम अभिमानिजनाः, अन्ये मम अधिकारात् भीताः इति इदानीं मम ज्ञानं जातम्एतावत्-पर्यन्तं मम ईदृशम् अज्ञानम् आसीत् इति दुःखं भवतिइति उक्तवान्

प्रभो! कृपया क्षन्तव्यम्मम वचनेन भवतां क्रोधः भवेत् इति मम चिन्ता आसीत्इति विदूषकः उक्तवान्

तथा भवतः अभिनन्दनं करोमिकिन्तु इदानीम् एका समस्याइदानीं कारणं विना मम गानत्यागेन वा, मम गानं श्रोतुं कोऽपि आगच्छतु इति आज्ञया वा सर्वेषां संशयः भविष्यतिकिञ्च एतावत्-पर्यन्तं मम सङ्गीतेन भवतां सर्वेषां जामिता जाता इति महाराजस्य ममापि अपमानास्पदम्अस्याः समस्यायाः परिहारः कथं भवेत्?” इति उक्त्वा महाराजः चिन्तामग्नः जातः

प्रभो ! विषयाणां कश्चनरीतिः भिन्ना भिन्ना भवतिमम रीत्या अहं मम अभिप्रायम् उक्तवान्तथैव भवतः गौरवस्य यथा हानिः भवति तथा भवानपि आदेशं दातुं शक्नोतिकिञ्चित् आलोचयतु प्रभो!” इति विदूषकः उक्तवान्

परस्मिन् दिने महाराजः गानस्य आरम्भं कृतवान्अनन्तरं तत्र उपविष्टान् जनान् क्रोधेन दृष्ट्वाएतावत्-पर्यन्तं पश्यन् अस्मिमम सङ्गीतस्य अभ्यासार्थम् एकान्ततायाः आवश्यकता अस्ति इति ज्ञातुं कोऽपि शक्नोति वा? यदा अहं गातुम् इच्छामि, तदा भवन्तः सर्वे तूष्णीम् अत्रैव परितः उपविशन्तिइदानीम् अहमेव वदामिअन्यथा गतिः नस्तिइतः परं भवतां कार्याणि त्यक्त्वा यदि मम पुरतः गानं श्रोतुम् उपविशन्ति, तर्हि तीक्ष्णः दण्डः भविष्यतिइति उक्तवान्

एवं रीत्या अनपेक्षितात् सङ्गीतश्रवणात् विमोचनं प्राप्य सर्वेषां सन्तोषः अभवत्! महाराजे जातस्य अस्य परिवर्तनस्य कारणं तु कोऽपि ज्ञातवान्


संस्कृत चन्दमामा. 1984-04. p 25Chandamama India Limited