॥ ॐ श्री गणपतये नमः ॥

शूद्रस्य तन्नीलशुनकस्य च कथा

मण्डिकल् रामशास्त्री अफलानि दुरन्तानि समव्ययफलानि च। अशक्यानि च कार्याणि नारभेत विचक्षणः॥

कस्य चित् शूद्रस्य निकटे कश्चित् नीलशुनकोऽवर्तत। स तं धवलीकरोमीति नदीं प्रापय्य बहून् दिवसान् क्षालयन्नासीत्। नितरां क्षालितोपि स श्वा न श्वेतीबभूव। तस्मादसाध्ये कार्ये न यतितव्यम्॥

संस्कृतकथासप्ततिः · १९१४ · पृ० ५ CC0. No rights reserved