॥ ॐ श्री गणपतये नमः ॥

रजकीगायकयोः कथा

मण्डिकल् रामशास्त्री यस्स्वदोषमविज्ञाय लोभात्कार्ये प्रवर्तते। सोऽपमानं भजेद्गायन् रजकीवचनादिव॥

पुरा कश्चिद्गायकः राजसन्मानापेक्षी सन् देशान्तरं गत्वा कस्यचिद्राज्ञः पुरे किञ्चिद्गृहस्थगृहमधिवसति स्म। तत्र प्रतिदिनमुषसि गायन्नासीत्, एवं स्थिते तत्प्रातिवेशिकी काचिद्रजकी तद्गानमाकर्ण्य तत्समकालमेव प्रतिदिनं रुदत्यासीत्। पञ्चषदिनानन्तरं स तामाहूय कुतो मद्गानसमकालमेव प्रतिदिनेऽपि रोदिषीति पप्रच्छ। सा तु दीर्घं निश्वस्य स्वामिन्किं ब्रवीमि? निर्भाग्याहं कतिपयमासेभ्यः प्राक् रूप्यपञ्चकं दत्त्वा कञ्चित्खरमक्रैषं, स तावदेकमासात्पूर्वममृत, तदारभ्य तद्व्यसनाकुलाहमस्मि, श्रीमतां कलमधुरकण्ठस्वरे श्रूयमाणे प्रतिदिनमपि मम तद्रासभस्वरः स्मृतिपथमारोहति, तन्मूलमेवेदं रोदनमित्यवादीत्। तच्छ्रुत्वा स गायकः लज्जितः प्रभुमदृष्ट्वैव यथागतं जगाम। एवं स्वदोषमविज्ञाय प्रवृत्ताः स्वयमेवापमानिता भवन्ति।

संस्कृतकथासप्ततिः · १९१४ · पृ० ८३ CC0. No rights reserved