॥ ॐ श्री गणपतये नमः ॥

मनुष्यवृश्चिकयोः कथा

मण्डिकल् रामशास्त्री उपकर्तुरपि क्रूरस्त्वपकारं प्रकल्पयेत्। होतारमप्यनालोच्य दहत्येव हि पावकः॥

कश्चित्पुमान् अग्नौ पतन्तं कञ्चित् वृश्चिकमालोक्य अस्मिन् रक्षिते सति ममातीव पुण्यं भवेदित्यालोच्य तमपतन्तमेव जग्राह। स वृश्चिकः तमुपकारमनालोच्य तस्य हस्तं अँलशुकेनावृश्चत्1। स तस्मादतीवाखिद्यत। तस्मात्क्रूरस्य नोपकर्तव्यम्॥

  1. अलं 'वृश्चिकलाङ्गुले' इति हलायुधः। ↩
संस्कृतकथासप्ततिः · १९१४ · पृ० ४ CC0. No rights reserved