॥ ॐ श्री गणपतये नमः ॥

जनाधिपतिज्यौतिषिकयोः कथा

मण्डिकल् रामशास्त्री आदौ ज्यौतिषिकान्प्रणम्य भुजयोरास्फाल्य पौराणिकान्। आलिङ्ग्याथ कवीन्प्रसाद्य भिषजस्सम्मान्य कायस्थकान्। स्पृष्ट्वा वारवधूः प्रशस्य रजकान् स्तुत्वा वणिक्सन्ततिं प्रस्थायाथ सुवर्णकारसदने सानन्दमास्तेऽनृतम्।

अङ्गदेशे कश्चिद्राजा अविद्यत। तस्य समीपं प्रतिप्रतिदिनमल्पज्ञः एको ज्यौतिषिकः आगच्छन्नासीत्, एवंस्थिते कस्मिश्चिद्दिने स महीपतिरेनं कार्तान्तिकमालोक्य अहं कियन्तं कालं जीवेयं वदेत्यपृच्छत्। सः अये यूयं इतोवत्सरद्वयाधिकं न जीविष्यथेत्यवदत्। राजा एतद्वचः श्रुत्वा नितरां व्यथमानः आसीत्। तदा तत्रैव स्थितस्तदमात्यः एनं मौहूर्तिकं दृष्ट्वा राजा इतस्संवत्सरद्वयात्परं न जीविष्यतीत्यवदः किल, त्वं कतिवर्षाणि जीविष्यसि वद, इति पप्रच्छ। स तमभिवीक्ष्य इतः त्रिंशतिवर्षाणि जीविष्यामीत्यवदत्। तदा स मन्त्री स्वखङ्गं विकृष्य एकेनैव प्रहारेण तस्य शिरश्छित्वा राजानं निरीक्ष्य स्वामिन्नस्य वचनं विश्वस्य कुतो बिभेषि? स्वमरणमेव स्वयमजानन् परेषां किं ब्रूयात्तस्मात्त्वं माभैषीरिति धैर्यवचनमवदत्। राजा तद्बुद्धेस्सन्तुष्य तस्य सम्मानं कारयामास। तस्मात् सम्यगज्ञात्वा वदतां वचनं न विश्वसेत्।

संस्कृतकथासप्ततिः · १९१४ · पृ० १० CC0. No rights reserved